skipLink.label

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

सूक्तम् 188 — समिद्धो (11 मन्त्राः)

RV 1.188 — ऋग्वेद शाकल संहिता, मण्डल 1, सूक्तम् 188 (समिद्धो), 11 मन्त्राः। स्वरचिह्नित पाठः। IAST

MD
अध्ययनम्
अनुक्रमणिका
मूलम्
सूक्त 188

११ अगस्त्यो मैत्रावरुणिः । आप्रीसूक्तं-(१ इध्मः समिद्धोऽग्निर्वा, २ तनूनपात् ३ इळः, ४ बर्हिः, ५ देवीर्द्वारः, ६ उषा सानक्ता, ७ दैव्यौ होतारौ प्रचेतसौ, ८ तिस्रो देव्यः सरस्वतीळाभारत्यः, ९ त्वष्टा, १० वनस्पतिः, ११ स्वाहाकृतयः)। गायत्री।

समि॑द्धो अ॒द्य रा॑जसि दे॒वो दे॒वैः स॑हस्रजित् । दू॒तो ह॒व्या क॒विर्व॑ह

॥१॥

sami̍ddho a̱dya rā̍jasi de̱vo de̱vaiḥ sa̍hasrajit | dū̱to ha̱vyā ka̱virva̍ha

तनू॑नपादृ॒तं य॒ते मध्वा॑ य॒ज्ञः सम॑ज्यते । दध॑त् सह॒स्रिणी॒रिष॑:

॥२॥

tanū̍napādṛ̱taṃ ya̱te madhvā̍ ya̱jñaḥ sama̍jyate | dadha̍t saha̱sriṇī̱riṣa̍:

आ॒जुह्वा॑नो न॒ ईड्यो॑ दे॒वाँ आ व॑क्षि य॒ज्ञिया॑न् । अग्ने॑ सहस्र॒सा अ॑सि

॥३॥

ā̱juhvā̍no na̱ īḍyo̍ de̱vām̐ ā va̍kṣi ya̱jñiyā̍n | agne̍ sahasra̱sā a̍si

प्रा॒चीनं॑ ब॒र्हिरोज॑सा स॒हस्र॑वीरमस्तृणन् । यत्रा॑दित्या वि॒राज॑थ

॥४॥

prā̱cīna̍ṃ ba̱rhiroja̍sā sa̱hasra̍vīramastṛṇan | yatrā̍dityā vi̱rāja̍tha

वि॒राट् स॒म्राड्वि॒भ्वीः प्र॒भ्वीर्ब॒ह्वीश्च॒ भूय॑सीश्च॒ याः । दुरो॑ घृ॒तान्य॑क्षरन्

॥५॥

vi̱rāṭ sa̱mrāḍvi̱bhvīḥ pra̱bhvīrba̱hvīśca̱ bhūya̍sīśca̱ yāḥ | duro̍ ghṛ̱tānya̍kṣaran

सु॒रु॒क्मे हि सु॒पेश॒सा ऽधि॑ श्रि॒या वि॒राज॑तः । उ॒षासा॒वेह सी॑दताम्

॥६॥

su̱ru̱kme hi su̱peśa̱sā 'dhi̍ śri̱yā vi̱rāja̍taḥ | u̱ṣāsā̱veha sī̍datām

प्र॒थ॒मा हि सु॒वाच॑सा॒ होता॑रा॒ दैव्या॑ क॒वी । य॒ज्ञं नो॑ यक्षतामि॒मम्

॥७॥

pra̱tha̱mā hi su̱vāca̍sā̱ hotā̍rā̱ daivyā̍ ka̱vī | ya̱jñaṃ no̍ yakṣatāmi̱mam

भार॒तीळे॒ सर॑स्वति॒ या व॒: सर्वा॑ उपब्रु॒वे । ता न॑श्चोदयत श्रि॒ये

॥८॥

bhāra̱tīl̤e̱ sara̍svati̱ yā va̱: sarvā̍ upabru̱ve | tā na̍ścodayata śri̱ye

त्वष्टा॑ रू॒पाणि॒ हि प्र॒भुः प॒शून् विश्वा॑न् त्समान॒जे । तेषां॑ नः स्फा॒तिमा य॑ज

॥९॥

tvaṣṭā̍ rū̱pāṇi̱ hi pra̱bhuḥ pa̱śūn viśvā̍n tsamāna̱je | teṣā̍ṃ naḥ sphā̱timā ya̍ja

उप॒ त्मन्या॑ वनस्पते॒ पाथो॑ दे॒वेभ्य॑: सृज । अ॒ग्निर्ह॒व्यानि॑ सिष्वदत्

॥१०॥

upa̱ tmanyā̍ vanaspate̱ pātho̍ de̱vebhya̍: sṛja | a̱gnirha̱vyāni̍ siṣvadat

पु॒रो॒गा अ॒ग्निर्दे॒वानां॑ गाय॒त्रेण॒ सम॑ज्यते । स्वाहा॑कृतीषु रोचते

॥११॥

pu̱ro̱gā a̱gnirde̱vānā̍ṃ gāya̱treṇa̱ sama̍jyate | svāhā̍kṛtīṣu rocate