skipLink.label

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

सूक्तम् 172 — चित्रो (3 मन्त्राः)

RV 1.172 — ऋग्वेद शाकल संहिता, मण्डल 1, सूक्तम् 172 (चित्रो), 3 मन्त्राः। स्वरचिह्नित पाठः। IAST

MD
अध्ययनम्
अनुक्रमणिका
मूलम्
सूक्त 172

३ अगस्त्यो मैत्रावरुणिः । मरुतः। गायत्री।

चि॒त्रो वो॑ऽस्तु॒ याम॑श्चि॒त्र ऊ॒ती सु॑दानवः । मरु॑तो॒ अहि॑भानवः

॥१॥

ci̱tro vo̍'stu̱ yāma̍ści̱tra ū̱tī su̍dānavaḥ | maru̍to̱ ahi̍bhānavaḥ

आ॒रे सा व॑: सुदानवो॒ मरु॑त ऋञ्ज॒ती शरु॑: । आ॒रे अश्मा॒ यमस्य॑थ

॥२॥

ā̱re sā va̍: sudānavo̱ maru̍ta ṛñja̱tī śaru̍: | ā̱re aśmā̱ yamasya̍tha

तृ॒ण॒स्क॒न्दस्य॒ नु विश॒: परि॑ वृङ्क्त सुदानवः । ऊ॒र्ध्वान् नः॑ कर्त जी॒वसे॑

॥३॥

tṛ̱ṇa̱ska̱ndasya̱ nu viśa̱: pari̍ vṛṅkta sudānavaḥ | ū̱rdhvān na̍ḥ karta jī̱vase̍