skipLink.label

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

सूक्तम् 15 — इन्द्र (12 मन्त्राः)

RV 1.15 — ऋग्वेद शाकल संहिता, मण्डल 1, सूक्तम् 15 (इन्द्र), 12 मन्त्राः। स्वरचिह्नित पाठः। IAST

MD
अध्ययनम्
अनुक्रमणिका
मूलम्
सूक्त 15

१२ मेधातिथिः काण्वः। (प्रतिदैवतं ऋतुसहितम्), १ इन्द्रः, २ मरुतः, ३ त्वष्टा, ४ अग्निः, ५ इन्द्रः, ६ मित्रावरुणौ, ७-१० द्रविणोदाः, ११ अश्विनौ, १२अग्निः। गायत्री।

इन्द्र॒ सोमं॒ पिब॑ ऋ॒तुना ऽऽ त्वा॑ विश॒न्त्विन्द॑वः । म॒त्स॒रास॒स्तदो॑कसः

॥१॥

indra̱ soma̱ṃ piba̍ ṛ̱tunā '' tvā̍ viśa̱ntvinda̍vaḥ | ma̱tsa̱rāsa̱stado̍kasaḥ

मरु॑त॒: पिब॑त ऋ॒तुना॑ पो॒त्राद् य॒ज्ञं पु॑नीतन । यू॒यं हि ष्ठा सु॑दानवः

॥२॥

maru̍ta̱: piba̍ta ṛ̱tunā̍ po̱trād ya̱jñaṃ pu̍nītana | yū̱yaṃ hi ṣṭhā su̍dānavaḥ

अ॒भि य॒ज्ञं गृ॑णीहि नो॒ ग्नावो॒ नेष्ट॒: पिब॑ ऋ॒तुना॑ । त्वं हि र॑त्न॒धा असि॑

॥३॥

a̱bhi ya̱jñaṃ gṛ̍ṇīhi no̱ gnāvo̱ neṣṭa̱: piba̍ ṛ̱tunā̍ | tvaṃ hi ra̍tna̱dhā asi̍

अग्ने॑ दे॒वाँ इ॒हा व॑ह सा॒दया॒ योनि॑षु त्रि॒षु । परि॑ भूष॒ पिब॑ ऋ॒तुना॑

॥४॥

agne̍ de̱vām̐ i̱hā va̍ha sā̱dayā̱ yoni̍ṣu tri̱ṣu | pari̍ bhūṣa̱ piba̍ ṛ̱tunā̍

ब्राह्म॑णादिन्द्र॒ राध॑स॒: पिबा॒ सोम॑मृ॒तूँरनु॑ । तवेद्धि स॒ख्यमस्तृ॑तम्

॥५॥

brāhma̍ṇādindra̱ rādha̍sa̱: pibā̱ soma̍mṛ̱tūm̐ranu̍ | taveddhi sa̱khyamastṛ̍tam

यु॒वं दक्षं॑ धृतव्रत॒ मित्रा॑वरुण दू॒ळभ॑म् । ऋ॒तुना॑ य॒ज्ञमा॑शाथे

॥६॥

yu̱vaṃ dakṣa̍ṃ dhṛtavrata̱ mitrā̍varuṇa dū̱l̤abha̍m | ṛ̱tunā̍ ya̱jñamā̍śāthe

द्र॒वि॒णो॒दा द्रवि॑णसो॒ ग्राव॑हस्तासो अध्व॒रे । य॒ज्ञेषु॑ दे॒वमी॑ळते

॥७॥

dra̱vi̱ṇo̱dā dravi̍ṇaso̱ grāva̍hastāso adhva̱re | ya̱jñeṣu̍ de̱vamī̍l̤ate

द्र॒वि॒णो॒दा द॑दातु नो॒ वसू॑नि॒ यानि॑ शृण्वि॒रे । दे॒वेषु॒ ता व॑नामहे

॥८॥

dra̱vi̱ṇo̱dā da̍dātu no̱ vasū̍ni̱ yāni̍ śṛṇvi̱re | de̱veṣu̱ tā va̍nāmahe

द्र॒वि॒णो॒दाः पि॑पीषति जु॒होत॒ प्र च॑ तिष्ठत । ने॒ष्ट्रादृ॒तुभि॑रिष्यत

॥९॥

dra̱vi̱ṇo̱dāḥ pi̍pīṣati ju̱hota̱ pra ca̍ tiṣṭhata | ne̱ṣṭrādṛ̱tubhi̍riṣyata

यत् त्वा॑ तु॒रीय॑मृ॒तुभि॒र्द्रवि॑णोदो॒ यजा॑महे । अध॑ स्मा नो द॒दिर्भ॑व

॥१०॥

yat tvā̍ tu̱rīya̍mṛ̱tubhi̱rdravi̍ṇodo̱ yajā̍mahe | adha̍ smā no da̱dirbha̍va

अश्वि॑ना॒ पिब॑तं॒ मधु॒ दीद्य॑ग्नी शुचिव्रता । ऋ॒तुना॑ यज्ञवाहसा

॥११॥

aśvi̍nā̱ piba̍ta̱ṃ madhu̱ dīdya̍gnī śucivratā | ṛ̱tunā̍ yajñavāhasā

गार्ह॑पत्येन सन्त्य ऋ॒तुना॑ यज्ञ॒नीर॑सि । दे॒वान् दे॑वय॒ते य॑ज

॥१२॥

gārha̍patyena santya ṛ̱tunā̍ yajña̱nīra̍si | de̱vān de̍vaya̱te ya̍ja