skipLink.label

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

सूक्तम् 174 — अभीवर्तेन (5 मन्त्राः)

RV 10.174 — ऋग्वेद शाकल संहिता, मण्डल 10, सूक्तम् 174 (अभीवर्तेन), 5 मन्त्राः। स्वरचिह्नित पाठः। IAST

MD
अध्ययनम्
अनुक्रमणिका
मूलम्
सूक्त 174

५ अभीवर्त आंगिरसः। राजा। अनुष्टुप्।

अ॒भी॒व॒र्तेन॑ ह॒विषा॒ येनेन्द्रो॑ अभिवावृ॒ते । तेना॒स्मान्ब्र॑ह्मणस्पते॒ऽभि रा॒ष्ट्राय॑ वर्तय

॥१॥

a̱bhī̱va̱rtena̍ ha̱viṣā̱ yenendro̍ abhivāvṛ̱te | tenā̱smānbra̍hmaṇaspate̱'bhi rā̱ṣṭrāya̍ vartaya

अ॒भि॒वृत्य॑ स॒पत्ना॑न॒भि या नो॒ अरा॑तयः । अ॒भि पृ॑त॒न्यन्तं॑ तिष्ठा॒ऽभि यो न॑ इर॒स्यति॑

॥२॥

a̱bhi̱vṛtya̍ sa̱patnā̍na̱bhi yā no̱ arā̍tayaḥ | a̱bhi pṛ̍ta̱nyanta̍ṃ tiṣṭhā̱'bhi yo na̍ ira̱syati̍

अ॒भि त्वा॑ दे॒वः स॑वि॒ताऽभि सोमो॑ अवीवृतत् । अ॒भि त्वा॒ विश्वा॑ भू॒तान्य॑भीव॒र्तो यथास॑सि

॥३॥

a̱bhi tvā̍ de̱vaḥ sa̍vi̱tā'bhi somo̍ avīvṛtat | a̱bhi tvā̱ viśvā̍ bhū̱tānya̍bhīva̱rto yathāsa̍si

येनेन्द्रो॑ ह॒विषा॑ कृ॒त्व्यभ॑वद्द्यु॒म्न्यु॑त्त॒मः । इ॒दं तद॑क्रि देवा असप॒त्नः किला॑भुवम्

॥४॥

yenendro̍ ha̱viṣā̍ kṛ̱tvyabha̍vaddyu̱mnyu̍tta̱maḥ | i̱daṃ tada̍kri devā asapa̱tnaḥ kilā̍bhuvam

अ॒स॒प॒त्नः स॑पत्न॒हाऽभिरा॑ष्ट्रो विषास॒हिः । यथा॒हमे॑षां भू॒तानां॑ वि॒राजा॑नि॒ जन॑स्य च

॥५॥

a̱sa̱pa̱tnaḥ sa̍patna̱hā'bhirā̍ṣṭro viṣāsa̱hiḥ | yathā̱hame̍ṣāṃ bhū̱tānā̍ṃ vi̱rājā̍ni̱ jana̍sya ca