अध्ययनम्
- अनुक्रमणिका
- मूलम्
३ सत्यधृतिर्वारुणिः। आदित्यः (स्वस्त्ययनम्)। गायत्री।
महि॑ त्री॒णामवो॑ऽस्तु द्यु॒क्षं मि॒त्रस्या॑र्य॒म्णः । दु॒रा॒धर्षं॒ वरु॑णस्य
॥१॥mahi̍ trī̱ṇāmavo̍'stu dyu̱kṣaṃ mi̱trasyā̍rya̱mṇaḥ | du̱rā̱dharṣa̱ṃ varu̍ṇasya
न॒हि तेषा॑म॒मा च॒न नाध्व॑सु वार॒णेषु॑ । ईशे॑ रि॒पुर॒घशं॑सः
॥२॥na̱hi teṣā̍ma̱mā ca̱na nādhva̍su vāra̱ṇeṣu̍ | īśe̍ ri̱pura̱ghaśa̍ṃsaḥ
यस्मै॑ पु॒त्रासो॒ अदि॑ते॒: प्र जी॒वसे॒ मर्त्या॑य । ज्योति॒र्यच्छ॒न्त्यज॑स्रम्
॥३॥yasmai̍ pu̱trāso̱ adi̍te̱: pra jī̱vase̱ martyā̍ya | jyoti̱ryaccha̱ntyaja̍sram