skipLink.label

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

सूक्तम् 153 — ईङ्खयन्तीरपस्युव (5 मन्त्राः)

RV 10.153 — ऋग्वेद शाकल संहिता, मण्डल 10, सूक्तम् 153 (ईङ्खयन्तीरपस्युव), 5 मन्त्राः। स्वरचिह्नित पाठः। IAST

MD
अध्ययनम्
अनुक्रमणिका
मूलम्
सूक्त 153

५ देवजामय इन्द्रमातरः। इन्द्रः। गायत्री।

ई॒ङ्खय॑न्तीरप॒स्युव॒ इन्द्रं॑ जा॒तमुपा॑सते । भे॒जा॒नास॑: सु॒वीर्य॑म्

॥१॥

ī̱ṅkhaya̍ntīrapa̱syuva̱ indra̍ṃ jā̱tamupā̍sate | bhe̱jā̱nāsa̍: su̱vīrya̍m

त्वमि॑न्द्र॒ बला॒दधि॒ सह॑सो जा॒त ओज॑सः । त्वं वृ॑ष॒न्वृषेद॑सि

॥२॥

tvami̍ndra̱ balā̱dadhi̱ saha̍so jā̱ta oja̍saḥ | tvaṃ vṛ̍ṣa̱nvṛṣeda̍si

त्वमि॑न्द्रासि वृत्र॒हा व्य१न्तरि॑क्षमतिरः । उद्द्याम॑स्तभ्ना॒ ओज॑सा

॥३॥

tvami̍ndrāsi vṛtra̱hā vya1ntari̍kṣamatiraḥ | uddyāma̍stabhnā̱ oja̍sā

त्वमि॑न्द्र स॒जोष॑सम॒र्कं बि॑भर्षि बा॒ह्वोः । वज्रं॒ शिशा॑न॒ ओज॑सा

॥४॥

tvami̍ndra sa̱joṣa̍sama̱rkaṃ bi̍bharṣi bā̱hvoḥ | vajra̱ṃ śiśā̍na̱ oja̍sā

त्वमि॑न्द्राभि॒भूर॑सि॒ विश्वा॑ जा॒तान्योज॑सा । स विश्वा॒ भुव॒ आभ॑वः

॥५॥

tvami̍ndrābhi̱bhūra̍si̱ viśvā̍ jā̱tānyoja̍sā | sa viśvā̱ bhuva̱ ābha̍vaḥ