अध्ययनम्
- अनुक्रमणिका
- मूलम्
३ माधुच्छन्दसोऽघमर्षणः। भाववृत्तम्। अनुष्टुप्।
ऋ॒तं च॑ स॒त्यं चा॒भी॑द्धा॒त्तप॒सोऽध्य॑जायत । ततो॒ रात्र्य॑जायत॒ तत॑: समु॒द्रो अ॑र्ण॒वः
॥१॥ṛ̱taṃ ca̍ sa̱tyaṃ cā̱bhī̍ddhā̱ttapa̱so'dhya̍jāyata | tato̱ rātrya̍jāyata̱ tata̍: samu̱dro a̍rṇa̱vaḥ
स॒मु॒द्राद॑र्ण॒वादधि॑ संवत्स॒रो अ॑जायत । अ॒हो॒रा॒त्राणि॑ वि॒दध॒द्विश्व॑स्य मिष॒तो व॒शी
॥२॥sa̱mu̱drāda̍rṇa̱vādadhi̍ saṃvatsa̱ro a̍jāyata | a̱ho̱rā̱trāṇi̍ vi̱dadha̱dviśva̍sya miṣa̱to va̱śī
सू॒र्या॒च॒न्द्र॒मसौ॑ धा॒ता य॑थापू॒र्वम॑कल्पयत् । दिवं॑ च पृथि॒वीं चा॒ऽन्तरि॑क्ष॒मथो॒ स्व॑:
॥३॥sū̱ryā̱ca̱ndra̱masau̍ dhā̱tā ya̍thāpū̱rvama̍kalpayat | diva̍ṃ ca pṛthi̱vīṃ cā̱'ntari̍kṣa̱matho̱ sva̍: