कोटीश्वरतीर्थमाहात्म्यवर्णनम्
श्रीमार्कण्डेय उवाच
ततो गच्छेत्तु राजेन्द्र तीर्थं कोटीश्वरं परम् ।
ऋषिकोटिः समायाता यत्र वै कुरुनन्दन
॥१॥कृष्णद्वैपायनस्यैव क्षेमार्थं मुनिपुंगवाः ।
मन्त्रयित्वा द्विजैः सर्वैर्वेदमङ्गलपाठकैः
॥२॥स्थापितः शङ्करस्तत्र कारणं बन्धनाशनम् ।
संसारच्छेदकरणं प्राणिनामार्तिनाशनम्
॥३॥कोटीश्वरमिति प्रोक्तं पृथिव्यां नृपनन्दन ।
स्नापयेत्तं तु यो भक्त्या पूर्णिमायां नृपोत्तम
॥४॥पित्ःणां तर्पणं कृत्वा पिण्डदानं यथाविधि ।
श्रावणस्य विशेषेण पूर्णिमायां युधिष्ठिर
॥५॥पित्ःणामक्षया तृप्तिर्यावदाभूतसम्प्लवम् ।
पित्ःणां परमं गुह्यं रेवातटसमाश्रितम् ।
मोक्षदं सर्वजन्तूनां निर्मितं मुनिसत्तमैः
॥६॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कोटीश्वरतीर्थमाहात्म्यवर्णनं नाम षण्णवतितमोऽध्यायः ॥