मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय १७०

3
अवन्तीखण्डः · रेवाखण्डः · 170

माण्डव्यशूलारोपणवर्णनम्

श्रीमार्कण्डेय उवाच

कामप्रमोदिनीसख्यो नीयमानां च तेन तु ।

दृष्ट्वा ताश्चुक्रुशुः सर्वा निःसृत्य जलमध्यतः

॥१॥

गता राजगृहे सर्वाः कथयन्ति सुदुःखिताः ।

कामप्रमोदिनी राजन्हृता श्येनेन पक्षिणा

॥२॥

क्रीडन्ती च जलस्थाने तडागे देवसन्निधौ ।

अन्वेष्या च त्वया राजंस्तस्य मार्गं विजानता

॥३॥

तासां तद्वचनं श्रुत्वा देवपन्नः सुदुःखितः ।

हाहेत्युक्त्वा समुत्थाय रुदमानो वरासनात्

॥४॥

मन्त्रिभिः सहितस्तस्मिंस्तडागे जलसन्निधौ ।

न चिह्नं न च पन्थानं दृष्ट्वा दुःखान्मुमोह च

॥५॥

तस्य राज्ञस्तु दुःखेन दुःखितो नागरो जनः ।

क्षणेनाश्वासितो राजा मन्त्रिभिः सपुरोहितैः

॥६॥

किं कुर्म इत्युवाचेदमस्मिन्काले विधीयताम् ।

सर्वैस्तत्संविदं कृत्वा वाहिनीं चतुरङ्गिणीम्

॥७॥

प्रेषयामि दिशः सर्वा हस्त्यश्वरथसंकुला ।

वादित्राणि च वाद्यन्ते व्याकुलीभूतसंकुले

॥८॥

नाराचैस्तोमरैर्भल्लैः खड्गैः परश्वधादिभिः ।

राजा संनाहबद्धोऽभूद्गनं ग्रसते किल

॥९॥

न देवो न च गन्धर्वो न दैत्यो न च राक्षसः ।

किं करिष्यति राजाद्य न जाने रोषनिष्कृतिम्

॥१०॥

नागरोऽपि जनस्तत्र दृष्ट्वा चकितमानसः ।

चतुर्दशसहस्राणि दन्तिनां सृणिधारिणाम्

॥११॥

अश्वारोहसहस्राणि ह्यशीतिः शस्त्रपाणिनाम् ।

रथानां त्रिसहस्राणि विंशतिर्भरतर्षभ

॥१२॥

सङ्ग्रामभेरीनिनदैः खुररेणुर्नभोगता ।

एतस्मिन्नन्तरे तात रक्षको नगरस्य हि

॥१३॥

गृहीत्वाभरणं तस्यास्त्वङ्गप्रत्यङ्गिकं तथा ।

कुण्डलाङ्गदकेयूरहारनूपुरझल्लरीः

॥१४॥

निवेद्याकथयद्राज्ञे मया दृष्टं त्ववेक्षणात् ।

तापसानामाश्रमे तु माण्डव्यो यत्र तिष्ठति

॥१५॥

तापसैर्वेष्टितो यत्र ददृशे तत्र सन्निधौ ।

दण्डवासिवचः श्रुत्वा प्रत्यक्षाङ्गविभूषणम्

॥१६॥

स क्रोधरक्तनयनो मन्त्रिणो वीक्ष्य नैगमान् ।

ईदृग्भूतसमाचारो ब्राह्मणो नगरे मम

॥१७॥

चौरचर्यां व्रतच्छन्नः परद्रव्यापहरकः ।

तेन कन्या हृता मेऽद्य तपस्विपापकर्मिणा

॥१८॥

शाकुन्तं रूपमास्थाय जलस्थो गगनं ययौ ।

पाखण्डिनो विकर्मस्थान् बिडालव्रतिकाञ्छठान्

॥१९॥

चाटुतस्करदुर्वृत्तान् हन्यान्नस्त्यस्य पातकम् ।

न द्रष्टव्यो मया पापः स्तेयी कन्यापहारकः

॥२०॥

शूलमारोप्यतां क्षिप्रं न विचारस्तु तस्य वै ।

स च वध्यो मया दुष्टो रक्षोरूपी तपोधनः

॥२१॥

एवं ब्रुवंश्चलन्क्रोधादादिश्य दण्डवासिनम् ।

कार्याकार्यं न विज्ञाय शूलमारोपयद्द्विजम्

॥२२॥

पौरा जानपदाः सर्वे अश्रुपूर्णमुखास्तदा ।

हाहेत्युक्त्वा रुदन्त्यन्ये वदन्ति च पृथक्पृथक्

॥२३॥

कुत्सितं च कृतं कर्म राज्ञा चण्डालचारिणा ।

ब्राह्मणो नैव वध्यो हि विशेषेण तपोवृतः

॥२४॥

यदि रोषसमाचारो निर्वास्यो नगराद्बहिः ।

न जातु ब्राह्मणं हन्यात्सर्वपापेऽप्यवस्थितम्

॥२५॥

राष्ट्रादेनं बहिष्कुर्यात्समग्रधनमक्षतम् ।

नाश्नाति च गृहे राजन्नाग्निर्नगरवासिनाम् ।

सर्वेऽप्युद्विग्नमनसो गृहव्याप्तिविवर्जिताः

॥२६॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे माण्डव्यशूलारोपणवर्णनं नाम सप्तत्यधिकशततमोऽध्यायः ॥