मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय ७८

3
अवन्तीखण्डः · रेवाखण्डः · 78

तीर्थानां परमं तीर्थं निर्मितं नारदेन तु

श्रीमार्कण्डेय उवाच

ततो गच्छेत्तु राजेन्द्र नरदेश्वरमुत्तमम् ।

तीर्थानां परमं तीर्थं निर्मितं नारदेन तु

॥१॥

युधिष्ठिर उवाच

नारदेन मुनिश्रेष्ठ कस्मात्तीर्थं विनिर्मितम् ।

एतदाख्याहि मे सर्वं प्रसन्नो यदि सत्तम

॥२॥

श्रीमार्कण्डेय उवाच

परमेष्ठिसुतः पार्थ नारदो मुनिसत्तमः ।

रेवायाश्चोत्तरे कूले तपस्तेन पुरा कृतम्

॥३॥

नवनाडीनिरोधेन काष्ठावत्यां गतेन च ।

तोषितः पशुभर्ता वै नारदेन युधिष्ठिर

॥४॥

ईश्वर उवाच

तुष्टोऽहं तव विप्रेन्द्र योगिनाथ अयोनिज ।

वरं प्रार्थय मे वत्स यस्ते मनसि वर्तते

॥५॥

नारद उवाच

त्वत्प्रसादेन मे शम्भो योगश्चैव प्रसिध्यतु ।

अचला ते भवेद्भक्तिः सर्वकालं ममैव तु

॥६॥

स्वेच्छाचारी भवे देव वेदवेदाङ्गपारगः ।

त्रिकालज्ञो जगन्नाथ गीतज्ञोऽहं सदा भवे

॥७॥

दिने दिने यथा युद्धं देवदानवमानुषैः ।

पाताले मर्त्यलोके वा स्वर्गे वापि महेश्वर

॥८॥

पश्येयं त्वत्प्रसादेन भवन्तं पार्वतीं तथा ।

तीर्थं लोकेषु विख्यातं सर्वपापक्षयंकरम्

॥९॥

ईश्वर उवाच

एवं नारद सर्वं तु भविष्यति न संशयः ।

चिन्तितं मत्प्रसादेन सिध्यते नात्र संशयः

॥१०॥

स्वेच्छाचारो भवेर्वत्स स्वर्गे पातालगोचरे ।

मर्त्ये वा भ्रम वै योगिन्न केनापि निवार्यसे

॥११॥

सप्त स्वरास्त्रयो ग्रामा मूर्च्छनाश्चैकविंशतिः ।

ताना एकोनपञ्चाशत्प्रसादान्मे तव ध्रुवम्

॥१२॥

मम प्रियंकरं दिव्यं नृत्यगीतं भविष्यति ।

कलिं च पश्यसे नित्यं देवदानवकिन्नरैः

॥१३॥

त्वत्तीर्थं भूतले पुण्यं मत्प्रसादाद्भविष्यति ।

वेदवेदाङ्गतत्त्वज्ञो ह्यशेषज्ञानकोविदः ।

एकस्त्वमसि निःसङ्गो मत्प्रसादेन नारद

॥१४॥

इत्युक्त्वान्तर्दधे देवो नारदस्तत्र शूलिनम् ।

स्थापयामास राजेन्द्र सर्वसत्त्वोपकारकम्

॥१५॥

पृथिव्यामुत्तमं तीर्थं निर्मितं नारदेन तु ।

तत्र तीर्थे नृपश्रेष्ठ यो गच्छेद्विजितेन्द्रियः

॥१६॥

मासि भाद्रपदे पार्थ कृष्णपक्षे चतुर्दशी ।

उपोष्य परया भक्त्या रात्रौ कुर्वीत जागरम्

॥१७॥

छत्रं तत्र प्रदातव्यं ब्राह्मणे शुभलक्षणे ।

शस्त्रेण तु हता ये वै तेषां श्राद्धं प्रदापयेत् ।

ते यान्ति परमं लोकं पिण्डदानप्रभावतः

॥१८॥

कपिला तत्र दातव्या पित्ःनुद्दिश्य भारत ।

इत्युच्चार्य द्विजे देया यान्तु ते परमां गतिम्

॥१९॥

अस्य श्राद्धस्य भावेन ब्राह्मणस्य प्रसादतः ।

नर्मदातोयभावेन न्यायार्जितधनस्य च ।

तेषां चैव प्रभावेन प्रेता यान्तु परां गतिम्

॥२०॥

इत्युच्चार्य द्विजे देया दक्षिणा च स्वशक्तितः ।

हविष्यान्नं विशालाक्ष द्विजानां चैव दापयेत्

॥२१॥

दीपं भक्त्या प्रदातव्यं नृत्यं गीतं च कारयेत् ।

अवाप्तं तेन वै सर्वं यः करोतीश्वरालये

॥२२॥

स याति रुद्रसांनिध्यमिति रुद्रः स्वयं जगौ ।

विद्यादानेन चैकेन अक्षयां गतिमाप्नुयात्

॥२३॥

धूर्वहास्तत्र दातव्या भूमिः सस्यवती नृप ।

चित्रभानुं शुभैर्मन्त्रैः प्रीणयेत्तत्र भक्तितः

॥२४॥

आज्येन सुप्रभूतेन होमद्रव्येण भारत ।

ये यजन्ति सदा भक्त्या त्रिकालं नृत्यमेव च

॥२५॥

तीर्थे नारदनामाख्ये रेवायाश्चोत्तरे तटे ।

चित्रभानुमुखा देवाः सर्वदेवमय ऋषिः

॥२६॥

ऋषिणा प्रीणिताः सर्वे तस्मात्प्रीत्यो हुताशनः ।

पूजिते हव्यवाहे तु दारिद्र्यं नैव जायते

॥२७॥

धनेन विपुला प्रीतिर्जायते प्रतिजन्मनि ।

कुलीनाश्च सुवेषाश्च सर्वकालं धनेन तु

॥२८॥

प्लवो नदीनां पतिरङ्गनानां राजा च सद्वृत्तरतः प्रजानाम् ।

धनं नराणामृतवस्तरूणां गतं गतं यौवनमानयन्ति

॥२९॥

धनदत्वं धनेशेन तस्मिंस्तीर्थे ह्युपार्जितम् ।

यमेन च यमत्वं हि इन्द्रत्वं चैव वज्रिणा

॥३०॥

अन्यैरपि महीपालैः पार्थिवत्वमुपार्जितम् ।

नारदेश्वरमाहात्म्याद्ध्रुवो निश्चलतां गतः

॥३१॥

सर्वतीर्थवरं तीर्थं निर्मितं नारदेन तु ।

पृथिव्यां सागरान्तायां रेवायाश्चोत्तरे तटे ।

तद्वरं सर्वतीर्थानां महापातकनाशनम्

॥३२॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नारदेश्वरतीर्थमाहात्म्यवर्णनं नामाष्टसप्ततितमोऽध्यायः ॥