पैतामहतीर्थमाहात्म्यवर्णनम्
श्रीमार्कण्डेय उवाच
भृगुतीर्थं ततो गच्छेत्तीर्थराजमनुत्तमम् ।
पैतामहं महापुण्यं सर्वपातकनाशनम्
॥१॥ब्रह्मणा तत्र तीर्थे तु पुरा वर्षशतत्रयम् ।
आराधनं कृतं शम्भोः कस्मिंश्चित्कारणान्तरे
॥२॥युधिष्ठिर उवाच
किमर्थं मुनिशार्दूल ब्रह्मा लोकपितामहः ।
आराधयद्देवदेवं महाभक्त्या महेश्वरम्
॥३॥आराध्यः सर्वभूतानां जगद्भर्ता जगद्गुरुः ।
श्रोतव्यं श्रोतुमिच्छामि महदाश्चर्यमुत्तमम्
॥४॥धर्मपुत्रवचः श्रुत्वा मार्कण्डेयो मुनीश्वरः ।
कथयामास तद्वृत्तमितिहासं पुरातनम्
॥५॥मार्कण्डेय उवाच
स्वपुत्रिकामभिगन्तुमिच्छन्पूर्वं पितामहः ।
शप्तस्तु देवदेवेन कोपाविष्टेन सत्तम
॥६॥वेदास्तव विनश्यन्ति ज्ञानं च कमलासन ।
अपूज्यः सर्वलोकानां भविष्यसि न संशयः
॥७॥एवं दत्ते ततः शापे ब्रह्मा खेदावृतस्तदा ।
रेवाया उत्तरे कूले स्नात्वा वर्षशतत्रयम् ।
तोषयामास देवेशं तुष्टः प्रोवाच शङ्करः
॥८॥पूज्यस्त्वं भविता लोके प्राप्ते पर्वणि पर्वणि ।
अहमत्र च वत्स्यामि देवैश्च पितृभिः सह
॥९॥श्रीमार्कण्डेय उवाच
तदाप्रभृति तत्तीर्थं ख्यातिं प्राप्तं पितामहात् ।
सर्वपापहरं पुण्यं सर्वतीर्थेष्वनुत्तमम्
॥१०॥तत्र भाद्रपदे मासि कृष्णपक्षे विशेषतः ।
अमावास्यां तु यः स्नात्वा तर्पयेत्पितृदेवताः
॥११॥पिण्डदानेन चैकेन तिलतोयेन वा नृप ।
तृप्यन्ति द्वादशाब्दानि पितरो नात्र संशयः
॥१२॥कन्यागते तु यस्तत्र नित्यं श्राद्धप्रदो भवेत् ।
अवाप्य तृप्तिं तत्पूर्वे वल्गन्ति च हसन्ति च
॥१३॥सर्वेषु पितृतीर्थेषु श्राद्धं कृत्वास्ति यत्फलम् ।
तत्फलं समवाप्नोति दर्शे तत्र न संशयः
॥१४॥पैतामहे नरः स्नात्वा पूजयन्पार्वतीपतिम् ।
मुच्यते नात्र सन्देहः पातकैश्चोपपातकैः
॥१५॥तत्र तीर्थे मृतानां तु नराणां भावितात्मनाम् ।
अनिवर्तिका गती राजन्रुद्रलोकादसंशयम्
॥१६॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे पैतामहतीर्थमाहात्म्यवर्णनं नाम चतुरधिकद्विशततमोऽध्यायः ॥