उत्तरे नर्मदाकूले सर्वपापक्षयंकरम्
श्रीमार्कण्डेय उवाच
ततो गच्छेन्महीपाल तीर्थमङ्गारकं शिवम् ।
उत्तरे नर्मदाकूले सर्वपापक्षयंकरम्
॥१॥चतुर्थ्यङ्गारकदिने संकल्प्य कृतनिश्चयः ।
स्नायादस्तं गते सूर्ये सन्ध्योपासनतत्परः
॥२॥पूजयेल्लोहितं भक्त्या गन्धमाल्यविभूषणैः ।
संस्थाप्यस्थण्डिले देवं रक्तचन्दनचर्चितम्
॥३॥अङ्गारकायेति नमः कर्णिकायां प्रपूजयेत् ।
कुजाय भूमिपुत्राय रक्ताङ्गाय सुवाससे
॥४॥हरकोपोद्भवायेति स्वेदजायातिबाहवे ।
सर्वकामप्रदायेति पूर्वादिषु दलेषु च
॥५॥एवं सम्पूज्य विधिवद्दद्यादर्घ्यं विधानतः ।
भूमिपुत्र महावीर्य स्वेदोद्भव पिनाकिनः
॥६॥अङ्गारक महातेजा लोहिताङ्ग नमोऽस्तु ते ।
करकं वारिसंयुक्तं शालितंदुलपूरितम्
॥७॥सहिरण्यं सवस्त्रं च मोदकोपरि संस्थितम् ।
ब्राह्मणाय निवेद्यं तत्कुजो मे प्रीयतामिति
॥८॥अर्घं दत्त्वा विधानेन रक्तचन्दनवारिणा ।
रक्तपुष्पसमाकीर्णं तिलतंदुलमिश्रितम्
॥९॥कृत्वा ताम्रमये पात्रे मण्डले वर्तुले शुभे ।
कृत्वा शिरसि तत्पात्रं जानुभ्यां धरणीं गतः
॥१०॥मन्त्रपूतं महाभाग दद्यादर्घ्यं विचक्षणः ।
ततो भुञ्जीत मौनेन क्षारतिलाम्लवर्जितम्
॥११॥स्निग्धं मृदुसमधुरमात्मनः श्रेय इच्छता ।
एवं चतुर्थे सम्प्राप्ते चतुर्थ्यङ्गारके नृप
॥१२॥सौवर्णं कारयेद्देवं यथाशक्ति सुरूपिणम् ।
स्थापयेत्ताम्रके पात्रे गुडपीठसमन्विते
॥१३॥गन्धपुष्पादिभिर्देवं पूजयेद्गुडसंस्थितम् ।
ईशान्यां स्थापयेद्देवं गुडतोयसमन्वितम्
॥१४॥कासारेण तथाग्नेय्यां स्थापयेत्करकं परम् ।
रक्ततन्दुलसंमिश्रं नैरृत्यां वायुगोचरे
॥१५॥स्थापयेन्मोदकैः सार्धं चतुर्थं करकं बुधः ।
सूत्रेण वेष्टितग्रीवं गन्धमाल्यैरलंकृतम्
॥१६॥शङ्खतूर्यनिनादेन जयशब्दादिमङ्गलैः ।
रक्ताम्बरधरं विप्रं रक्तमाल्यानुलेपनम्
॥१७॥वेदिमध्यगतं वापि महदासनसंस्थितम् ।
सुरूपं सुभगं शान्तं सर्वभूतहिते रतम्
॥१८॥वेदविद्याव्रतस्नातं सर्वशास्त्रविशारदम् ।
पूजयित्वा यथान्यायं वाचयेत्पाण्डुनन्दन
॥१९॥रक्तां गां च ततो दद्याद्रक्तेनानडुहा सह ।
प्रीयतां भूमिजो देवः सर्वदैवतपूजितः
॥२०॥विप्रं प्रदक्षिणीकृत्य पत्नीपुत्रसमन्वितः ।
पितृमातृसुहृत्सार्द्धं क्षमाप्य च विसर्जयेत्
॥२१॥एवं कृतस्य तस्याथ तस्मिंस्तीर्थे विशेषतः ।
यत्पुण्यं फलमुद्दिष्टं तत्ते सर्वं वदाम्यहम्
॥२२॥सप्त जन्मानि राजेन्द्र सुरूपः सुभगो भवेत् ।
तीर्थस्यास्य प्रभावेन नात्र कार्या विचारणा
॥२३॥अकामो वा सकामो वा तत्र तीर्थे मृतो नरः ।
अङ्गारकपुरं याति देवगन्धर्वपूजितः
॥२४॥उपभुज्य यथान्यायं दिव्यान्भोगाननुत्तमान् ।
इह मानुष्यलोके वै राजा भवति धार्मिकः
॥२५॥सुरूपः सुभगश्चैव सर्वव्याधिविवर्जितः ।
जीवेद्वर्षशतं साग्रं सर्वलोकनमस्कृतः
॥२६॥इति श्रीस्कान्दे महापुराणे एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे मङ्गलेश्वरतीर्थमाहात्म्यवर्णनं नामाष्टाचत्वारिंशदधिकशततमोऽध्यायः ॥