मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय ११

3
अवन्तीखण्डः · रेवाखण्डः · 11

श्रीनर्मदामाहात्म्यवर्णनम्

युधिष्ठिर उवाच

अहो महत्पुण्यतमा विशिष्टा क्षयं न याता इह या युगान्ते ।

तस्मात्सदा सेव्यतमा मुनीन्द्रैर्ध्यानार्चनस्नानपरायणैश्च

॥१॥

यामाश्रित्य गता मोक्षमृषयो धर्मवत्सलाः ।

ये त्वयोक्तास्तु नियमा ऋषीणां वेदनिर्मिताः

॥२॥

मोक्षावाप्तिर्भवेद्येषां नियमैश्च पृथग्विधैः ।

दशद्वादशभिर्वापि षड्भिरष्टाभिरेव वा

॥३॥

त्रिभिस्तथा चतुर्भिर्वा वर्षैर्मासैस्तथैव च ।

मुच्यन्ते कलिदोषैस्ते देवेशानसमर्चनात्

॥४॥

ब्रह्माणं वा सुरश्रेष्ठ केशवं वा जगद्गुरुम् ।

अर्चयन्पापमखिलं जहात्येव न संशयः

॥५॥

एतद्विस्तरतः सर्वं कथयस्व ममानघ ।

यस्मिन्संसारगहने निमग्नाः सर्वजन्तवः ।

ते कथं त्रिदिवं प्राप्ता इति मे संशयो वद

॥६॥

श्रीमार्कण्डेय उवाच

जन्मान्तरैरनेकैस्तु मानुष्यमुपलभ्यते ।

भक्तिरुत्पद्यते चात्र कथंचिदपि शङ्करे

॥७॥

तीर्थदानोपवासानां यज्ञैर्देवद्विजार्चनैः ।

अवाप्तिर्जायते पुंसां श्रद्धया परया नृप

॥८॥

तस्माच्छ्रद्धा प्रकर्तव्या मानवैर्धर्मवत्सलैः ।

ईशोऽपि श्रद्धया साध्यस्तेन श्रद्धा विशिष्यते

॥९॥

अन्यथा निष्फलं सर्वं श्रद्धाहीनं तु भारत ।

तस्मात्समाश्रयेद्भक्तिं रुद्रस्य परमेष्ठिनः

॥१०॥

तेषांहि सफलं जन्म येषां भक्तिरचञ्चला ।

सा चैव त्रिविधा भक्तिः सात्त्विकी राजसी तथा

॥११॥

तामसी सर्वलोकस्य त्रिविधं च फलं लभेत् ।

ते कर्मफलसंयोगादावर्तन्ते पुनःपुनः

॥१२॥

जन्मान्तरशतैस्तेषां ज्ञानिनां देवयाजिनाम् ।

देवत्रये भवेद्भक्तिः क्षयात्पापस्य कर्मणः

॥१३॥

ईशानात्तु पुनर्मोक्षो जायते छिन्नसंशयः ।

ये पुनर्नर्मदातीरमाश्रित्य द्विजपुंगवाः

॥१४॥

त्रयीमार्गमसन्दिग्धास्ते यान्ति परमां गतिम् ।

एकाग्रमनसो ये तु शङ्करं शिवमव्ययम्

॥१५॥

अर्चयन्तीह निरताः क्षिप्रं सिध्यन्ति ते जनाः ।

कालेन महता सिद्धिर्जायतेऽन्यत्र देहिनाम्

॥१६॥

नर्मदायाः पुनस्तीरे क्षिप्रं सिद्धिरवाप्यते ।

षड्भिर्वर्षैस्तु सिध्यन्ति ये तु सांख्यविदो जनाः

॥१७॥

वैष्णवा ज्ञानसम्पन्नास्तेऽपि सिध्यन्ति चाग्रतः ।

सर्वयोगविदो ये च समुद्रमिव सिन्धवः

॥१८॥

एकीभवन्ति कल्पान्ते योगे माहेश्वरे गताः ।

सर्वेषामेव योगानां योगो माहेश्वरो वरः

॥१९॥

तमासाद्य विमुच्यन्ते येऽपि स्युः पापयोनयः ।

शिवमर्च्य नदीकूले जायन्ते ते न योनिषु

॥२०॥

गतिरेषा दुरारोहा सर्वपापक्षयंकरी ।

मुच्यन्ते मङ्क्षु संसाराद्रेवामाश्रित्य जन्तवः

॥२१॥

तस्मात्स्नायी भवेन्नित्यं तथा भस्मविलेपनः ।

नर्मदातीरमासाद्य क्षिप्रं सिद्धिमवाप्नुयात्

॥२२॥

त्रिकालं पूजयेच्छान्तो यो नरो लिङ्गमादरात् ।

सर्वरोगविनिर्मुक्तः स याति परमां गतिम्

॥२३॥

षड्भिः सिध्यति मसैस्तु यद्यपि स्यात्स पापकृत् ।

ये पुनः शुद्धमनसो मासैः शुध्यन्ति ते त्रिभिः

॥२४॥

यथा दिनकरस्पृष्टं हिमं शैलाद्विशीर्यन्ते ।

तद्वद्विलीयते पापं स्पृष्टं भस्मकणैः शुभैः

॥२५॥

वैनतेयभयत्रस्ता यथा नश्यन्ति पन्नगाः ।

तद्वत्पापानि नश्यन्ति भस्मनाभ्युक्षितानि ह

॥२६॥

नर्मदातोयपूतेन भस्मनोद्धूलयन्ति ये ।

सद्यस्ते पापसङ्घाच्च मुच्यन्ते नात्र संशयः

॥२७॥

व्रतं पाशुपतं भक्तया यथोक्तं पालयन्ति ये ।

शूद्रान्नेन विहीनास्तु ते यान्ति परमां गतिम्

॥२८॥

अमृतं ब्राह्मणस्यान्नं क्षत्रियान्नं पयः स्मृतम् ।

वैश्यान्नमन्नमेव स्याच्छूद्रान्नं रुधिरं स्मृतम्

॥२९॥

शूद्रान्नरससंपुष्टा ये म्रियन्ते द्विजोत्तमाः ।

ते तपोज्ञानहीनास्तु काका गृध्रा भवन्ति ते

॥३०॥

दुष्कृतं हि मनुष्याणामन्नमाश्रित्य तिष्ठति ।

यो यस्यान्नं समश्नाति स तस्याश्नाति किल्बिषम्

॥३१॥

विशेषाद्यतिधर्मेण तपोलौल्यं समाश्रिताः ।

नरकं यान्त्यसन्दिग्धमित्येवं शङ्करोऽब्रवीत्

॥३२॥

ईदृग्रूपाश्च ये विप्राः पाशुपत्ये व्यवस्थिताः ।

ते महत्पापसंघातं दहन्त्येव न संशयः

॥३३॥

विडम्बेन च संयुक्ता लौलुप्येन च पीडिताः ।

असंग्राह्या इत्येवं श्रुतिनोदना

॥३४॥

मातापितृकृतैर्दोषैरन्ये केचित्स्वकर्मजैः ।

नष्टा ज्ञानावलेपेन अहङ्कारेणऽपरे

॥३५॥

शाङ्करे प्रस्थिता धर्मे ये स्मृत्यर्थबहिष्कृताः ।

क्लिश्यमानास्तु कलेन ते यान्ति परमां गतिम्

॥३६॥

अश्रद्दधानाः पुरुषा मूर्खा दम्भविवर्धिताः ।

न सिध्यन्ति दुरात्मानः कुदृष्टान्तार्थकीर्तनाः

॥३७॥

महाभाग्येऽपि तीर्थस्य शाङ्करं व्रतमास्थिताः ।

वियोनिं यान्त्यसन्दिग्धं लौलुप्येन समन्विताः

॥३८॥

न तीर्थैर्न च दानैश्च दुष्कृतं हि विलुप्यते ।

अज्ञानाच्च प्रमादाच्च कृतं पापं विनश्यति

॥३९॥

एवं ज्ञात्वा तु विधिना वर्तितव्यं द्विजातिभिः ।

परं ब्रह्म जपद्भिश्च वार्तितव्यं मुहुर्मुहुः

॥४०॥

ऊर्ध्वरूपं विरूपाक्षं योऽधीते रुद्रमेव च ।

ईशानं पश्यते साक्षात्षण्मासात्सङ्गवर्जितः

॥४१॥

संहिताया दशावृत्तीर्यः करोति सुसंयतः ।

नर्मदातटमाश्रित्य स मुच्येत्सर्वपातकैः

॥४२॥

पुराणसंहितां वापि शैवीं वा वैष्णवीमपि ।

यः पठेन्नर्मदातीरे शिवाग्रे स शिवात्मकः

॥४३॥

आ भूतसंक्षयं यावत्स्वर्गलोके महीयते ।

संसाख्यसनं हातुं पुरा प्रोक्तं तु नन्दिना

॥४४॥

देवर्षिसिद्धगन्धर्वसमवाये शिवालये ।

नन्दिगीतामिमां राजञ्छृणुष्वैकमनाः शुभाम्

॥४५॥

स्वर्गमोक्षप्रदां पुण्यां संसारभयनाशिनीम्

॥४६॥

संसारगह्वरगुहां प्रविहातुमेतां चेदिच्छथ प्रतिपदं भवतापखिन्नाः ।

नानाविधैर्निजकृतैर्बहुकर्मपाशैर्बद्धाः सुखाय शृणुतैकहितं मयोक्तम्

॥४७॥

शक्र वक्रगतिं मा गा मा कृथा यम यातनाम् ।

चेतः प्रचेतः शमय लौलुप्यं त्यज वित्तप

॥४८॥

दीनानाथविशिष्टेभ्यो धनं सर्वं परित्यज ।

यदि संसारजलधेर्वीचीप्रेङ्खोल्लनातुरः

॥४९॥

जन्मोद्विग्नं मृतेस्त्रस्तं ग्रस्तं कामादिभिर्नरम् ।

स्रस्तं यो न यमादिभ्यः पिनाकी पाति पावनः

॥५०॥

मा धेहि गर्वं कीनाश हास्यं यास्यसि पीडयन् ।

प्राणिनं सर्वशरणं तद्भावि शरणं तव

॥५१॥

कालः करालको बालः को मृत्युः को यमाधमः ।

शिवविष्णुपराणां हि नराणां किं भयं भवेत्

॥५२॥

भवभारार्तजन्तूनां रेवातीरनिवासिनाम् ।

भर्गश्च भगवांश्चैव भवभीतिविभेदनौ

॥५३॥

शिवं भज शिवं ध्याय शिवं स्तुहि शिवं यज ।

शिवं नम वराक त्वं ज्ञानं मोक्षं यदीच्छसि

॥५४॥

पठ पञ्चाननं शास्त्रं मन्त्रं पञ्चाक्षरं जप ।

धेहि पञ्चात्मकं तत्त्वं यज पञ्चाननं परम्

॥५५॥

किं तैः कर्मगणैः शोच्यैर्नानाभावविशेषितैः ।

यदि पञ्चाननः श्रीमान् सेव्यते सर्वथा शिवः

॥५६॥

किं संसारगजोन्मत्तबृंहितैर्निभृतैरपि ।

यदि पञ्चाननो देवो भावगन्धोपसेवितः

॥५७॥

रे मूढ किं विषादेन प्राप्य कर्मकदर्थनाम् ।

भवानीवल्लभं भीमं जप त्वं भयनाशनम्

॥५८॥

नर्मदातीरनिलयं दुःखौघविलयंकरम् ।

स्वर्गमोक्षप्रदं भर्गं भज मूढ सुरेश्वरम्

॥५९॥

विहाय रेवां सुरसिन्धुसेव्यां तत्तीरसंस्थं च हरं हरिं च ।

उन्मत्तवद्भावविवर्जितस्त्वं क्व यासि रे मूढ दिगन्तराणि

॥६०॥

भज रेवाजलं पुण्यं यज रुद्रं सनातनम् ।

जप पञ्चाक्षरीं विद्यां व्रज स्थानं च वाञ्छितम्

॥६१॥

क्लेशयित्वा निजं कायमुपायैर्बहुभिस्तु किम् ।

भज रेवां शिवं प्राप्य सुखसाध्यं परं पदम्

॥६२॥

एवं कैलासमासाद्य नदीं स शिवसन्निधौ ।

जगौ यल्लोकपालानां तन्मयोक्तं तवाधुना

॥६३॥

मार्कण्डेय उवाच

स्नानदानपरो यस्तु नित्यं धर्ममनुव्रतः ।

नर्मदातीरमाश्रित्य मुच्यते सर्वपातकैः

॥६४॥

विधिहीनो जपेन्नित्यं वेदान्सर्वाञ्छतं समाः ।

मृत्युलाङ्गलजाप्येन समो योऽप्यधिको गुणैः

॥६५॥

बीजयोन्यविशुद्धस्तु यथा रुद्रं न विन्दति ।

तथा लाङ्गलमन्त्रोऽपि न तिष्ठति गतायुषि

॥६६॥

गायत्रीजपसंयुक्तः संयमी ह्यधिको गुणैः ।

अग्निमीडे इषेत्वो वा अग्न आयाहि नित्यदा

॥६७॥

शन्नो देवीति कूलस्थो जपेन्मुच्येत किल्बिषैः

॥६८॥

साङ्गोपाङ्गांस्तथा वेदाञ्जपन्नित्यं समाहितः ।

न तत्फलमवाप्नोति गायत्र्या संयमी यथा

॥६९॥

रुद्राध्यायं सकृज्जप्त्वा विप्रो वेदसमन्वितः ।

मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति

॥७०॥

अन्यद्वै जप्यसंस्थानं सूक्तमारण्यकं तथा ।

मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति

॥७१॥

यत्किंचित्क्रियते जाप्यं यच्च दानं प्रदीयते ।

नर्मदाजलमाश्रित्य तत्सर्वं चाक्षयं भवेत्

॥७२॥

एवंविधैर्व्रतैर्नित्यं नर्मदां ये समाश्रिताः ।

ते मृता वैष्णवं यान्ति पदं वा शैवमव्ययम्

॥७३॥

सत्यलोकं नराः केचित्सूर्यलोकं तथापरे ।

अप्सरोगणसंवीता यावदाभूतसम्प्लवम्

॥७४॥

एवं वै वर्तमानेऽस्मिंल्लोके तु नृपपुंगव ।

ऋषीणां दशकोट्यस्तु कुरुक्षेत्रनिवासिनाम्

॥७५॥

मया सह महाभाग नर्मदातटमाश्रिताः ।

फलमूलकृताहारा अर्चयन्तः स्थिताः शिवम्

॥७६॥

तच्च वर्षशतं दिव्यं कालसंख्यानुमानतः ।

षड्विंशतिसहस्राणि तानि मानुषसंख्यया

॥७७॥

ततस्तस्यामतीतायां सन्ध्यायां नृपसत्तम ।

शेषं मानुष्यमेकं तु काले वर्षशतं स्थितम्

॥७८॥

ततोऽभवदनावृष्टिर्लोकक्षयकरी तदा ।

यया यातं जगत्सर्वं क्षयं भूयो हि दारुणम्

॥७९॥

ये पूर्वमिह संसिद्धा ऋषयो वेदपारगाः ।

तेषां प्रभावाद्भगवान् ववर्ष बलवृत्रहा

॥८०॥

महती भूरिसलिला समन्ताद्वृष्टिराहिता ।

ततो वृष्ट्या तु तेषां वै वर्तनं समजायत

॥८१॥

पुनर्युगान्ते सम्प्राप्ते किंचिच्छेषे कलौ युगे ।

निःशेषमभवत्सर्वं शुष्कं स्थावरजङ्गमम्

॥८२॥

निर्वृक्षौषधगुल्मं च तृणवीरुद्विवर्जितम् ।

अनावृष्टिहतं सर्वं भूमण्डलमभूद्भृशम्

॥८३॥

ततस्ते ऋषयः सर्वे क्षुत्तृषार्ताः सहस्रशः ।

युगस्वभावमाविष्टा हीनसत्त्वा अभवन्नृप

॥८४॥

नष्टहोमस्वधाकारे युगान्ते समुपस्थिते ।

किं कार्यं क्व नु यास्यामः कोऽस्माकं शरणं भवेत्

॥८५॥

तानहं प्रत्युवाचेदं मा भैष्टेति पुनःपुनः ।

ईदृग्विधा मया दृष्टा बहवः कालपर्ययाः

॥८६॥

नर्मदातीरमाश्रित्य ते सर्वे गमिता मया ।

एषा हि शरणं देवी सम्प्राप्ते हि युगक्षये

॥८७॥

नान्या गतिरिहास्माकं विद्यते द्विजसत्तमाः ।

जनित्री सर्वभूतानां विशेषेण द्विजोत्तमाः

॥८८॥

पितामहा ये पितरो ये चान्ये प्रपितामहाः ।

ते समस्ता गताः स्वर्गं समाश्रित्य महानदीम्

॥८९॥

भृग्वाद्याः सप्त ये त्वासन्मम पूर्वपितामहाः ।

धौमृणी च महाभागा मम भार्या शुचिस्मिता ।

मनस्वती च या मता भार्गवोऽङ्गिरसस्तथा

॥९०॥

पुलस्त्यः पुलहश्चैव वसिष्ठात्रेयकाश्यपाः ।

तथान्ये च महाभागा नियमव्रतचारिणः ।

अन्ये च शतसाहस्रा अत्र सिद्धिं समागताः

॥९१॥

तस्मादियं महाभागा न मोक्तव्या कदाचन ।

नान्या काचिन्नदी शक्ता लोकत्रयफलप्रदा

॥९२॥

द्वन्द्वैरनेकैर्बहुभिः क्षुत्तृषाद्यैर्महाभयैः ।

मुच्यन्ते ते नराः सद्यो नर्मदातीरवासिनः

॥९३॥

तस्मात्सर्वप्रयत्नेन सेवितव्या सरिद्वरा ।

वाञ्छद्भिः परमं श्रेय इह लोके परत्र च

॥९४॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे श्रीनर्मदामाहात्म्यवर्णनं नाम एकादशोऽध्यायः ॥