धौतपापतीर्थमाहात्म्यवर्णनम्
श्रीमार्कण्डेय उवाच
धौतपापं ततो गच्छेद्भृगुतीर्थसमीपतः ।
वृषेण तु भृगुस्तत्र भूयोभूयो धुतस्ततः
॥१॥धौतपापं तु तत्तेन नाम्ना लोकेषु विश्रुतम् ।
तत्र स्थितो महादेवस्तुष्ट्यर्थं भृगुसत्तमे
॥२॥तत्र तीर्थे तु यः स्नात्वा शाठ्येनापि नरेश्वर ।
मुच्यते सर्वपापेभ्यो नात्र कार्या विचारणा
॥३॥यस्तु सम्यग्विधानेन तत्र स्नात्वार्चयेच्छिवम् ।
देवान्पितॄन्समभ्यर्च्य मुच्यते सर्वपातकैः
॥४॥ब्रह्महत्या गवां वध्या तत्र तीर्थे युधिष्ठिर ।
प्रविशेन्न सदा भीता प्रविष्टापि क्षयं व्रजेत्
॥५॥युधिष्ठिर उवाच
आश्चर्यभूतं लोकेऽस्मिन्कथयस्व द्विजोत्तम ।
प्रविशेन्न ब्रह्महत्या यथा वै धौतपाप्मनि
॥६॥ब्रह्महत्यासमं पापं भविता नेह किंचन ।
कथं वा धौतपापे तु प्रविष्टं नश्यते द्विज ।
एतद्विस्तरतः सर्वं पृच्छामि वद कौतुकात्
॥७॥मार्कण्डेय उवाच
आदिसर्गे पुरा शम्भुर्ब्रह्मणः परमेष्ठिनः ।
विकारं पञ्चमं दृष्ट्वा शिरोऽश्वमुखसन्निभम्
॥८॥अङ्गुष्ठाङ्गुलियोगेन तच्छिरस्तेन कृन्तितम् ।
कृत्तमात्रे तु शिरसि ब्रह्महत्याऽभवत्तदा
॥९॥ब्रह्महत्यायुतश्चासीदुत्तरे नर्मदातटे ।
धुनितं तु यतो राजन्वृषेण धर्ममूर्तिना
॥१०॥तत्र धौतेश्वरीं देवीं स्थापितां वृषभेण तु ।
ददर्श भगवाञ्छम्भुः सर्वदैवतपूजिताम्
॥११॥दृष्ट्वा धौतेश्वरीं दुर्गां ब्रह्महत्याविनाशिनीम् ।
तत्र विश्रममाणश्च शङ्करस्त्रिपुरान्तकः
॥१२॥स शङ्करो ब्रह्महत्याविहीनं मेने त्मानं तस्य तीर्थस्य भावात् ।
सुविस्मितो देवदेवो वरेण्यो दृष्ट्वा दूरे ब्रह्महत्यां च तीर्थात्
॥१३॥विधौतपापं महितं धर्मशक्त्या विशेन्न हत्या देवीभयात्प्रभीता ।
रक्ताम्बरा रक्तमाल्योपयुक्ता कृष्णा नारी रक्तदामप्रसक्ता
॥१४॥मां वाञ्छन्ती स्कन्धदेशं रहस्ये दूरे स्थिता तीर्थवर्यप्रभावात् ।
संचिन्त्य देवो मनसा स्मरारिर्वासाय बुद्धिं तत्र तीर्थे चकार
॥१५॥विमृश्य देवो बहुशः स्थितः स्वयं विधौतपापः प्रथितः पृथिव्याम् ।
बभूव तत्रैव निवासकारी विधूतपापनिकटप्रदेशे
॥१६॥तदाप्रभृति राजेन्द्र ब्रह्महत्याविनाशनम् ।
विधौतपापं तत्तीर्थं नर्मदायां व्यवस्थितम्
॥१७॥आश्वयुक्शुक्लनवमी तत्र तीर्थे विशिष्यते ।
दिनत्रयं तु राजेन्द्र सप्तम्यादिविशेषतः
॥१८॥समुपोष्याष्टमीं भक्त्या साङ्गं वेदं पठेत्तु यः ।
अहोरात्रेण चैकेन ऋग्यजुःसामसंज्ञकम्
॥१९॥अभ्यसन्ब्रह्महत्याया मुच्यते नात्र संशयः ।
वृषलीगमनं चैव यश्च गुर्वङ्गनागमः
॥२०॥स्नात्वा ब्रह्मरसोत्कृष्टे कुम्भेनैव प्रमुच्यते ।
वन्ध्या स्त्रीजननी या तु काकवन्ध्या मृतप्रजा
॥२१॥सापि कुम्भोदकैः स्नाता जीवत्पुत्रा प्रजावती ।
अपठस्तु नरोपोष्य ऋग्यजुःसामसम्भवाम्
॥२२॥ऋचमेकां जपन्विप्रस्तथा पर्वणि यो नृप ।
अनृचोपोष्य गायत्रीं जपेद्वै वेदमातरम्
॥२३॥जपन्नवम्यां विप्रेन्द्रो मुच्यते पापसञ्चयात् ।
एवं तु कथितं तात पुराणोक्तं महर्षिभिः
॥२४॥धौतपापं महापुण्यं शिवेन कथितं मम ।
प्राणत्यागं तु यः कुर्याज्जले वाग्नौ स्थलेऽपि वा
॥२५॥स गच्छति विमानेन ज्वलनार्कसमप्रभः ।
हंसबर्हिप्रयुक्तेन सेव्यमानोऽप्सरोगणैः
॥२६॥शिवस्य परमं स्थानं यत्सुरैरपि दुर्लभम् ।
क्रीडते स्वेच्छया तत्र यावच्चन्द्रार्कतारकम्
॥२७॥धौतपापे तु या नारी कुरुते प्राणसंक्षयम् ।
तत्क्षणादेव सा पार्थ पुरुषत्वमवाप्नुयात्
॥२८॥अथ किं बहुनोक्तेन शुभं वा यदि वाशुभम् ।
तदक्षयफलं सर्वं धौतपापे कृतं नृप
॥२९॥संन्यसेन्नियमेनान्नं संन्यसेद्विषयादिकम् ।
फलमूलादिकं चैव जलमेकं न संत्यजेत्
॥३०॥एवं यः कुरुते पार्थ रुद्रलोकं स गच्छति ।
तत्र भुक्त्वाखिलान्भोगाञ्जायते भुवि भूपतिः
॥३१॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे धौतपापतीर्थमाहात्म्यवर्णनं नाम चतुरशीत्युत्तरशततमोऽध्यायः ॥ अस्य पृष्ठस्य सामग्री हेतु निम्नलिखित स्रोतस्य पाठस्य उपयोगः कृतं भवति -- Sanskrit World