मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय १५८

3
अवन्तीखण्डः · रेवाखण्डः · 158

नर्मदादक्षिणे कूले सर्वपापभयापहम्

श्रीमार्कण्डेय उवाच

ततो गच्छेत्परं तीर्थं सङ्गमेश्वरमुत्तमम् ।

नर्मदादक्षिणे कूले सर्वपापभयापहम्

॥१॥

धनदस्तत्र विश्रान्तो मुहूर्तं नृपसत्तम ।

पितृलोकात्समायातः कैलासं धरणीधरम्

॥२॥

प्रत्ययार्थं नृपश्रेष्ठ ह्यद्यापि धरणीतले ।

कृष्णवर्णा हि पाषाणा दृश्यन्ते स्फटिकोज्ज्वलाः

॥३॥

विन्ध्यनिर्झरनिष्क्रान्ता पुण्यतोया सरिद्वरा ।

प्रविष्टा नर्मदातोये सर्वपापप्रणाशने

॥४॥

सङ्गमे तत्र यः स्नात्वा पूजयेत्सङ्गमेश्वरम् ।

अश्वमेधस्य यज्ञस्य फलं प्राप्नोत्यसंशयम्

॥५॥

घण्टापताकावितनं यो ददेत्सङ्गमेश्वरे ।

हंसयुक्तविमानस्थो दिव्यस्त्रीशतसंवृतः

॥६॥

स रुद्रपदमाप्नोति रुद्रस्यानुचरो भवेत् ।

दधि भक्ते न देवस्य यः कुर्याल्लिङ्गपूरणम्

॥७॥

सिक्थसंख्यं शिवे लोके स वसेत्कालमीप्सितम् ।

श्रीफलैः पूरयेल्लिङ्गं निःस्वो भूत्वा भवस्य तु

॥८॥

सोऽपि तत्फलमाप्नोति गतः स्वर्गे नरेश्वर ।

अक्षया सन्ततिस्तस्य जायते सप्तजन्मसु

॥९॥

स्नपनं देवदेवस्य दध्ना मधुघृतेन वा ।

यः करोति विधानेन तस्य पुण्यफलं शृणु

॥१०॥

धृतक्षीरवहा नद्यो यत्र वृक्षा मधुस्रवाः ।

तत्र ते मानवा यान्ति सुप्रसन्ने महेश्वरे

॥११॥

पत्रं पुष्पं फलं तोयं यस्तु दद्यान्महेश्वरे ।

तत्सर्वं सप्तजन्मानि ह्यक्षयं फलमश्नुते

॥१२॥

सर्वेषामेव पात्राणां महापात्रं महेश्वरः ।

तस्मात्सर्वप्रयत्नेन पूजनीयो महेश्वरः

॥१३॥

ब्रह्मचर्यस्थितो नित्यं यस्तु पूजयते शिवम् ।

इह जीवन्स देवेशो मृतो गच्छेदनामयम्

॥१४॥

शिवे तु पूजिते पार्थ यत्फलं प्राप्यते बुधैः ।

योगीन्द्रे चैव तत्पार्थ पूजिते लभते फलम्

॥१५॥

ते धन्यास्ते महात्मानस्तेषां जन्म सुजीवितम् ।

येषां गृहेषु भुञ्जन्ति शिवभक्तिरता नराः

॥१६॥

संनिरुध्येन्द्रियग्रामं यत्रयत्र वसेन्मुनिः ।

तत्र तत्र कुरुक्षेत्रं नैमिषं पुष्कराणि च

॥१७॥

यत्फलं वेदविदुषि भोजिते शतसंख्यया ।

तत्फलं जायते पार्थ ह्येकेन शिवयोगिना

॥१८॥

यत्र भुञ्जति भस्माङ्गी मूर्खो वा यदि पण्डितः ।

तत्र भुञ्जति देवेशः सपत्नीको वृषध्वजः

॥१९॥

विप्राणां वेदविदुषां कोटिं संभोज्य यत्फलम् ।

भिक्षामात्रप्रदानेन तत्फलं शिवयोगिनाम्

॥२०॥

सङ्गमेश्वरमासाद्य प्राणत्यागं करोति यः ।

न तस्य पुनरावृत्तिः शिवलोकात्कदाचन

॥२१॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे सङ्गमेश्वरतीर्थमाहात्म्यवर्णनं नामाष्टपञ्चाशदधिकशततमोऽध्यायः ॥