कोटितीर्थमाहात्म्यवर्णनम्
श्रीमार्कण्डेय उवाच
ततो गच्छेद्धराधीश कोटितीर्थमनुत्तमम् ।
यत्र सिद्धा महाभागाः कोटिसंख्या महर्षयः
॥१॥तपः कृत्वा सुविपुलमृषिभिः स्थापितः शिवः ।
तथा कोटीश्वरी देवी चामुण्डा महिषार्दिनी
॥२॥कृष्णपक्षे चतुर्दश्यां मासि भाद्रपदे नृप ।
तीर्थकोटीः समाहूय मुनिभिः स्थापितः शिवः
॥३॥तस्यां तिथौ च हस्तर्क्षं सर्वपापप्रणाशनम् ।
तत्र तीर्थे तदा गत्वा स्नानं कृत्वा समाहितः
॥४॥नरकादुद्धरत्याशु पुरुषानेकविंशतिम् ।
तिलोदकप्रदानेन किमुत श्राद्धदो नरः
॥५॥स्नानं दानं जपो होमः स्वाध्यायो देवतार्चनम् ।
तस्य तीर्थस्य योगेन सर्वं कोटिगुणं भवेत्
॥६॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कोटितीर्थमाहात्म्यवर्णनं नाम त्र्युत्तरद्विशततमोऽध्यायः ॥