मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय १०

3
अवन्तीखण्डः · रेवाखण्डः · 10

नर्मदास्नानफलश्रुतिकथनम्

युधिष्ठिर उवाच

कस्मिन्कल्पे महाभागा नर्मदेयं द्विजोत्तम ।

विभक्ता ऋषिभिः सर्वैस्तपोयुक्तैर्महात्मभिः

॥१॥

एतद्विस्तरतः सर्वं ब्रूहि मे वदतां वर ।

कल्पान्ते यद्भवेत्कष्टं लोकानां तत्त्वमेव च

॥२॥

अतीते तु पुरा कल्पे यथेयं वर्ततेऽनघ ।

अस्यान्त्यस्य च कल्पस्य व्यवस्थां कथय प्रभो ।

एवमुक्तः सभामध्ये मार्कण्डो वाक्यमब्रवीत्

॥३॥

मार्कण्डेय उवाच

वक्ष्येऽहं श्रूयतां सर्वैः कथेयं पूर्वतः श्रुता

॥४॥

महत्कथेयं वैशिष्टी कल्पादस्मात्परं तु या ।

लोकक्षयकरो घोर आसीत्कालः सुदारुणः

॥५॥

तस्मिन्नपि महाघोरे यथेयं वा मृता सती ।

परितुष्टैर्विभक्ता च शृणुध्वं तां कथामिमाम्

॥६॥

युगान्ते समनुप्राप्ते पितामहदिनत्रये ।

मानसा ब्रह्मणः पुत्राः साक्षाद्ब्रह्मेव सत्तमाः

॥७॥

सनकाद्या महात्मानो ये च वैमानिका गणाः ।

यमेन्द्रवरुणाद्याश्च लोकपाला दिनत्रये

॥८॥

कालापेक्षास्तु तिष्ठन्ति लोकवृत्तान्ततत्पराः ।

ततः कल्पक्षये प्राप्ते तेषां ज्ञानमनुत्तमम्

॥९॥

सर्वेषां नश्यते चायुर्युगरूपानुसारतः ।

भूर्लोकं ते परित्यज्य अगमंश्च भुवं तदा

॥१०॥

स्वर्लोकं च महश्चैव जनश्चैव तपस्तदा ।

आश्रयं सत्यलोकं च सर्वलोकमनुत्तमम्

॥११॥

कालं युगसहस्रान्तं पुत्रपौत्रसमन्विताः ।

सत्यलोके च तिष्ठन्ति यावत्संजायते जगत्

॥१२॥

ब्रह्मपुत्राश्च ये केचित्कल्पादौ न भवन्ति ह ।

त्रैलोक्यं ते परित्यज्य अनाधारं भवन्ति च

॥१३॥

तैः सार्धं ये तु ते विप्रा अन्ये चापि तपोधनाः ।

यक्षरक्षःपिशाचाश्च अन्ये वैमानिका गणाः

॥१४॥

ऋषयश्च महाभागा वर्णाश्चान्ये पृथग्विधाः ।

सीदन्ति भूम्यां सहिता ये चान्ये तलवासिनः

॥१५॥

अनावृष्टिरभूत्तत्र महती शतवार्षिकी ।

लोकक्षयकरी रौद्रा वृक्षवीरुद्विनाशिनी

॥१६॥

त्रैलोक्यसंक्षोभकरी सप्तार्णवविशोषणी ।

ततो लोकाः क्षुधाविष्टा भ्रमन्तीव दिशो दश

॥१७॥

कंदैर्मूलैः फलैर्वापि वर्तयन्ते सुदुःखिताः ।

सरितः सागराः कूपाः सेवन्ते पावनानि च

॥१८॥

तत्रापि सर्वे शुष्यन्ति सरिद्भिः सह सागराः ।

ततो यान्यल्पसाराणि सत्त्वानि पृथिवीतले

॥१९॥

तान्येवाग्रे प्रलीयन्ते भिन्नान्युरुजलेन वै ।

अथ संक्षीयमाणासु सरित्सु सह सागरैः

॥२०॥

ऋषीणां षष्टिसाहस्रं कुरुक्षेत्रनिवासिनाम् ।

ये च वैखानसा विप्रा दन्तोलूखलिनस्तथा

॥२१॥

हिमाचलगुहागुह्ये ये वसन्ति तपोधनाः ।

सर्वे ते मामुपागम्य क्षुत्तृषार्तास्तपोधनाः

॥२२॥

ऊचुः प्राञ्जलयः सर्वे सीदयामो महामुने ।

सरित्सागरशैलान्तं जगत्संशुष्यते द्विज

॥२३॥

कुत्र यास्याम सहिता यावत्कालस्य पर्ययः ।

दीर्घायुरसि विप्रेन्द्र न मृतस्त्वं युगक्षये

॥२४॥

भूतं भव्यं भविष्यच्च सर्वं तव हृदि स्थितम् ।

तस्मात्त्वं वेत्सि सर्वं च कथयस्व महाव्रत

॥२५॥

कीदृक्कालं महाभाग क्षपिष्यामोऽथ सुव्रत ।

अनावृष्टिहतं सर्वं सीदते सचराचरम्

॥२६॥

परित्राहि महाभाग न यथा याम संक्षयम् ।

ततः संचिन्त्य मनसा त्वरन्विप्रानथाब्रवम्

॥२७॥

कुरुक्षेत्रं त्यजध्वं च पुत्रदारसमन्विताः ।

त्यक्त्वोदीचीं दिशं सर्वे यामो याम्यामनुत्तमाम्

॥२८॥

नगरग्रामघोषाढ्यां पुरपत्तनशोभिताम् ।

गच्छामो नर्मदातीरं बहुसिद्धनिषेवितम्

॥२९॥

रुद्राङ्गीं तां महापुण्यां सर्वपापप्रणाशिनीम् ।

पश्यामस्तां महाभागां न्यग्रोधावारसंकुलाम्

॥३०॥

माहेश्वरैर्भागवतैः सांख्यैः सिद्धैः सुसेविताम् ।

अनावृष्टिभयाद्भीताः कूलयोरुभयोरपि

॥३१॥

आश्रमे ह्याश्रमान्दिव्यान्कारयामो जितव्रताः ।

एवमुक्तास्तु ते सर्वे समेतानुचरैः सह

॥३२॥

नर्मदातीरमासाद्य स्थिताः सर्वेऽकुतोभयाः ।

किंचित्पूर्वमनुस्मृत्य पुरा कल्पादिभिर्भयम्

॥३३॥

प्राप्तास्तु नर्मदातीरमादावेव कलौ युगे ।

ततो वर्षशतं पूर्णं दिव्यं रेवातटेऽवसन्

॥३४॥

षड्विंशच्च सहस्राणि वर्षाणां मानुषाणि च ।

तत्राश्चर्यं मया दृष्टमृषीणां वसतां नृप

॥३५॥

अनावृष्टिहते लोके संशुष्के स्थावरे चरे ।

भिन्ने युगादिकलने हाहाभूते विचेतने

॥३६॥

चातुर्वर्णे प्रलीने तु नष्टे होमबलिक्रमे ।

निःस्वाहे निर्वषट्कारे शौचाचारविवर्जिते

॥३७॥

इयमेका सरिच्छ्रेष्ठा ऋषिकोटिनिषेविता ।

नान्या काचित्त्रिलोकेऽपि रमणीया नरेश्वर

॥३८॥

यथेयं पुण्यसलिला इन्द्रस्येवामरावती ।

देवतायतनैः शुभ्रैराश्रमैश्च सुकल्पितैः

॥३९॥

शोभते नर्मदा देवी स्वर्गे मन्दाकिनी यथा ।

यावद्वृक्षा महाशैला यावत्सागरसंभवा

॥४०॥

उभयोः कूलयोस्तावन्मण्डितायतनैः शुभैः ।

हूयद्भिरग्निहोत्रैश्च हविर्धूमसमाकुला

॥४१॥

बभूव नर्मदा देवी प्रावृट्काल इव शर्वरी ।

देवतायतनैर्नैकैः पूजासंस्कारशोभिता

॥४२॥

सरिद्भिर्भ्राजते श्रेष्ठा पुरी शाक्री च भास्करी ।

केचित्पञ्चाग्नितपसः केचिदप्यग्निहोत्रिणः

॥४३॥

केचिद्धूमकमश्नन्ति तपस्युग्रे व्यवस्थिताः ।

आत्मयज्ञरताः केचिदपरे भक्तिभागिनः

॥४४॥

वैष्णवज्ञानमासाद्य केचिच्छैवं व्रतं तथा ।

एकरात्रं द्विरात्रं च केचित्षष्ठाहभोजनाः

॥४५॥

चान्द्रायणविधानैश्च कृच्छ्रिणश्चातिकृच्छ्रिणः ।

एवंविधैस्तपोभिश्च नर्मदातीरशोभितैः

॥४६॥

यजद्भिः शंकरं देवं केशवं भाति नित्यदा ।

एकत्वे च पृथक्त्वे च यजतां च महेश्वरम्

॥४७॥

कलौ युगे महाघोरे प्राप्ताः सिद्धिमनुत्तमाम् ।

यस्य यस्य हि या भक्तिर्विज्ञानं यस्य यादृशम्

॥४८॥

यस्मिन्यस्मिंश्च देवे तु तांतामीशोऽददात्प्रभुः ।

स्वभावैकतया भक्त्या तामेत्यान्तः प्रलीयते

॥४९॥

संसारे परिवर्तन्ते ये पृथग्भाजिनो नराः ।

ये महावृक्षमीशानं त्यक्त्वा शाखावलम्बिनः

॥५०॥

पुनरावर्तमानास्ते जायन्ते हि चतुर्युगे ।

देवान्ते स्थावरान्ते च संसारे चाभ्रमन्क्रमात्

॥५१॥

पुनर्जन्म पुनः स्वर्गे पुनर्घोरे च रौरवे ।

ये पुनर्देवमीशानं भवं भक्तिसुसंस्थिताः

॥५२॥

यजन्ति नर्मदातीरे न पुनस्ते भवन्ति च ।

आ देहपतनात्केचिदुपासन्तः परं गताः

॥५३॥

केचिद्द्वादशभिर्वर्षैः षड्भरन्ये तपोधनाः ।

त्रिभिः संवत्सरैः केचित्केचित्संवत्सरेण तु

॥५४॥

षड्भिर्मासैस्तु संसिद्धास्त्रिभिर्मासैस्तथापरे ।

मुनयो देवमाश्रित्य नर्मदां च यशस्विनीम्

॥५५॥

छित्त्वा संसारदोषांश्च अगमन्ब्रह्म शाश्वतम् ।

एवं कलियुगे घोरे शतशोऽथ सहस्रशः

॥५६॥

नर्मदातीरमाश्रित्य मुनयो रुद्रमाविशन्

॥५७॥

ये नर्मदातीरमुपेत्य विप्राः शैवे व्रते यत्नमुपप्रपन्नाः ।

त्रिकालमम्भः प्रविगाह्य भक्त्या देवं समभ्यर्च्य शिवं व्रजन्ति

॥५८॥

ध्यानार्चनैर्जाप्यमहाव्रतैश्च नारायणं वा सततं स्मरन्ति ।

ते धौतपाण्डुरपटा इव राजहंसाः संसारसागरजलस्य तरन्ति पारम्

॥५९॥

सत्यं सत्यं पुनः सत्यमुत्क्षिप्य भुजमुच्यते ।

इदमेकं सुनिष्पन्नं ध्येयो नारायणः सदा

॥६०॥

यो वा हरं पूजयते जितात्मा मासं च पक्षं च वसेन्नरेन्द्र ।

रेवां समाश्रित्य महानुभावः स देवदेवोऽथ भवेत्पिनाकी

॥६१॥

कीटाः पतंगाश्च पिपीलिकाश्च ये वै म्रियन्तेऽम्भसि नर्मदायाः ।

ते दिव्यरूपास्तु कुलप्रसूताः शतं समा धर्मपरा भवन्ति

॥६२॥

कालेन वृक्षाः प्रपतन्ति येऽपि महातरंगौघनिकृत्तमूलाः ।

ते नर्मदांभोभिरपास्तपापा देदीप्यमानास्त्रिदिवं प्रयान्ति

॥६३॥

अकामकामाश्च तथा सकामा रेवान्तमाश्रित्य म्रियन्ति तीरे ।

जडान्धमूकास्त्रिदिवं प्रयान्ति किमत्र विप्रा भवभावयुक्ताः

॥६४॥

मासोपवासैरपि शोषिताङ्गा न तां गतिं यान्ति विमुक्तदेहाः ।

म्रियन्ति रेवाजलपूतकायाः शिवार्चने केशवभावयुक्ताः

॥६५॥

नीवारश्यामाकयवेङ्गुदाद्यैरन्यैर्मुनीन्द्रा इह वर्तयन्ति ।

आप्रित्य कूलं त्रिदशानुगीतं ते नर्मदाया न विशन्ति मृत्युम्

॥६६॥

भ्रमन्ति ये तीरमुपेत्य देव्यास्त्रिकालदेवार्चनसत्यपूताः ।

विण्मूत्रचर्मास्थितिरोपधानाः कुक्षौ युवत्या न वसन्ति भूयः

॥६७॥

किं यज्ञदानैर्बहुभिश्च तेषां निषेवितैस्तीर्थवरैः समस्तैः ।

रेवातटं दक्षिणमुत्तरं वा सेवन्ति ते रुद्रचरानुपूर्वम्

॥६८॥

ते वञ्चिताः पङ्गुजडान्धभूता लोकेषु मर्त्याः पशुभिश्च तुल्याः ।

ये नाश्रिता रुद्रशरीरभूतां सोपानपङ्क्तिं त्रिदिवस्य रेवाम्

॥६९॥

युगं कलिं घोरमिमं य इच्छेद्द्रष्टुं कदाचिन्न पुनर्द्विजेन्द्रः ।

स नर्मदातीरमुपेत्य सर्वं सम्पूजयेत्सर्वविमुक्तसंगः

॥७०॥

विघ्नैरनेकैरतियोज्यमाना ये तीरमुझन्ति न नर्मदायाः ।

ते चैव सर्वस्य हितार्थभूता वन्द्याश्च ते सर्वजनस्य मान्याः

॥७१॥

भृग्वत्रिगार्गेयवशिष्ठकङ्काः शतैः समेतैर्नियतास्त्वसंख्यैः ।

सिद्धिं परां ते हि जलप्लुताङ्गाः प्राप्तास्तु लोकान्मरुतां न चान्ये

॥७२॥

ज्ञानं महत्पुण्यतमं पवित्रं पठन्त्यदो नित्यविशुद्धसत्त्वाः ।

गतिं परां यान्ति महानुभावा रुद्रस्य वाक्यं हि यथा प्रमाणम्

॥७३॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये नर्मदास्नानफलश्रुतिकथनं नाम दशमोऽध्यायः ॥