कोटीश्वरतीर्थमाहात्म्यवर्णनम्
मार्कण्डेय उवाच
ततः क्रोशान्तरे पार्थ तीर्थं कोटीश्वरं परम् ।
यत्र स्नानं च दानं च जपहोमार्चनादिकम् ।
भक्त्या कृतं नरैस्तत्र सर्वं कोटिगुणं भवेत्
॥१॥तत्र देवाः सगन्धर्वा ऋषयः सिद्धचारणाः ।
जलधिं प्रतिगच्छन्ति नर्मदां वीक्षितुं किल
॥२॥मिलिताः कोटिशो राजन्रेवासागरसङ्गमे ।
विनोदमतुलं दृष्ट्वा रेवार्णवसमागमे
॥३॥स्नात्वा शिवं च संस्थाप्य पूजयित्वा महेश्वरम् ।
कोटीश्वराभिधानं तु स्वस्वभक्त्या विधानतः
॥४॥कोटीतीर्थे परां सिद्धिं सम्प्राप्ताः सर्वतोषणात् ।
तेन तत्पुण्यमतुलं सर्वतीर्थेषु चोत्तमम्
॥५॥तत्र तीर्थे तु यत्किंचिच्छुभं वा यदि वाशुभम् ।
क्रियते नृपशार्दूल सर्वं कोटिगुणं भवेत्
॥६॥तत्र तीर्थे तु मार्गस्था ये केचिदृषिसत्तमाः ।
सिद्धामृतपदं यान्ति पितृलोकं तथोत्तमम्
॥७॥उत्तरे नर्मदातीरे दक्षिणे चाश्रिताश्च ये ।
देवलोकं गतास्तत्र इति मे निश्चिता मतिः
॥८॥बिल्वार्कपुष्पैर्धत्तूरकुशकाशप्रसूनकैः ।
ऋतूद्भवैस्तथान्यैश्च पूजयित्वा महेश्वरम्
॥९॥नानोपचारैर्विधिवन्मन्त्रपूर्वं युधिष्ठिर ।
धूपदीपार्धनैवेद्यैस्तोषयित्वा च धूर्जटिम्
॥१०॥शिवलोकमवाप्नोति यावदिन्द्राश्चतुर्दश ।
पौषकृष्णाष्टमीयोगे विशेषः पूजने स्मृतः
॥११॥नित्यं च नृपतिश्रेष्ठ चतुर्दश्यष्टमीषु च ।
शिवमभ्यर्च्य विप्रांश्च भोजयेद्भक्तितो वरान्
॥१२॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कोटीश्वरतीर्थमाहात्म्यवर्णनं नाम चतुर्विंशत्यधिकद्विशततमोऽध्यायः ॥