रवितीर्थमाहात्म्यवर्णनम्
श्रीमार्कण्डेय उवाच
ततो गच्छेन्महीपाल रवितीर्थमनुत्तमम् ।
यत्र देवः सहस्रांशुस्तपस्तप्त्वा दिवं गतः
॥१॥युधिष्ठिर उवाच
कथं देवो जगद्धाता सर्वदेवनमस्कृतः ।
तपस्तपति देवेशस्तापसो भास्करो रविः
॥२॥आराध्यः सर्वभूतानां सर्वदेवैश्च पूजितः ।
प्रत्यक्षो दृश्यते लोके सृष्टिसंहारकारकः
॥३॥आदित्यत्वं कथं प्राप्तः कथं भास्कर उच्यते ।
सर्वमेतत्समासेन कथयस्व ममानघ
॥४॥मार्कण्डेय उवाच
महाप्रश्नो महाराज यस्त्वया परिपृच्छितः ।
तत्सर्वं सम्प्रवक्ष्यामि नमस्कृत्य स्वयम्भुवम्
॥५॥आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् ।
अप्रतर्क्यमविज्ञेयं प्रसुप्तमिव सर्वतः
॥६॥ततस्तेजश्च दिव्यं च तप्तपिण्डमनुत्तमम् ।
आकाशात्तु यथैवोल्का सृष्टिहेतोरधोमुखी
॥७॥तत्तेजसोऽन्तः पुरुषः संजातः सर्वभूषितः ।
स शिवोऽपाणिपादश्च येन सर्वमिदं ततम्
॥८॥तस्योत्पन्नस्य भूतस्य तेजो रूपस्य भारत ।
पश्चात्प्रजापतिर्भूयः कालः कालान्तरेण वै
॥९॥अग्निर्जातः स भूतानां मनुष्यासुररक्षसाम् ।
सर्वदेवाधिदेवश्च आदित्यस्तेन चोच्यते
॥१०॥आदौ तस्य नमस्कारोऽन्येषां च तदनन्तरम् ।
क्रियते दैवतैः सर्वैस्तेन सर्वैर्महर्षिभिः
॥११॥तिस्रः सन्ध्यास्त्रयो देवाः सांनिध्याः सूर्यमण्डले ।
नमस्कृतेन सूर्येण सर्वे देवा नमस्कृताः
॥१२॥न दिवा न भवेद्रात्रिः षण्मासा दक्षिणायनम् ।
अयनं चोत्तरं चापि भास्करेण विना नृप
॥१३॥स्नानं दानं जपो होमः स्वाध्यायो देवतार्चनम् ।
न वर्तते विना सूर्यं तेन पूज्यतमो रविः
॥१४॥शब्दगाः श्रुतिमुख्याश्च ब्रह्मविष्णुमहेश्वराः ।
प्रत्यक्षो भगवान्देवो दृश्यते लोकपावनः
॥१५॥उत्पत्तिः प्रलयस्थानं निधानं बीजमव्ययम् ।
हेतुरेको जगन्नाथो नान्यो विद्येत भास्करात्
॥१६॥एवमात्मभवं कृत्वा जगत्स्थावरजङ्गमम् ।
लोकानां तु हितार्थाय स्थापयेद्धर्मपद्धतिम्
॥१७॥नर्मदातटमाश्रित्य स्थापयित्वात्मनस्तनुम् ।
सहस्रांशुं निधिं धाम्नां जगामाकाशमव्ययम्
॥१८॥तत्र तीर्थे तु यः स्नात्वा पूजयेत्परमेश्वरम् ।
सहस्रकिरणं देवं नाममन्त्रविधानतः
॥१९॥तेन तप्तं हुतं तेन तेन सर्वमनुष्ठितम् ।
तेन सम्यग्विधानेन सम्प्राप्तं परमं पदम्
॥२०॥ते धन्यास्ते महात्मानस्तेषां जन्म सुजीवितम् ।
स्नात्वा ये नर्मदातोये देवं पश्यन्ति भास्करम्
॥२१॥तथा देवस्य राजेन्द्र ये कुर्वन्ति प्रदक्षिणम् ।
अनन्यभक्त्या सततं त्रिरक्षरसमन्विताः
॥२२॥तेन पूतशरीरास्ते मन्त्रेण गतपातकाः ।
यत्पुण्यं च भवेत्तेषां तदिहैकमनाः शृणु
॥२३॥ससमुद्रगुहा तेन सशैलवनकानना ।
प्रदक्षिणीकृता सर्वा पृथिवी नात्र संशयः
॥२४॥मन्त्रमूलमिदं सर्वं त्रैलोक्यं सचराचरम् ।
तेन मन्त्रविहीनं तु कार्यं लोके न सिध्यति
॥२५॥यथा काष्ठमयो हस्ती यथा चर्ममयो मृगः ।
कार्यार्थं नैव सिध्येत तथा कर्म ह्यमन्त्रकम्
॥२६॥भस्महुतं पार्थ यथा तोयविवर्जितम् ।
निष्फलं जायते दानं तथा मन्त्रविवर्जितम्
॥२७॥काष्ठपाषाणलोष्टेषु मृन्मयेषु विशेषतः ।
मन्त्रेण लोके पूजां तु कुर्वन्ति न ह्यमन्त्रतः
॥२८॥द्वादशाब्दान्नमस्काराद्भक्त्या यल्लभते फलम् ।
मन्त्रयुक्तनमस्कारात्सकृत्तल्लभते फलम्
॥२९॥संक्रान्तौ च व्यतीपाते अयने विषुवे तथा ।
नर्मदाया जले स्नात्वा यस्तु पूजयते रविम्
॥३०॥द्वादशाब्देन यत्पापमज्ञानज्ञानसंचितम् ।
तत्क्षणान्नश्यते सर्वं वह्निना तु तुषं यथा
॥३१॥चन्द्रसूर्यग्रहे स्नात्वा सोपवासो जितेन्द्रियः ।
तत्रादित्यमुखं दृष्ट्वा मुच्यते सर्वकिल्बिषैः
॥३२॥माघमासे तु सम्प्राप्ते सप्तम्यां नृपसत्तम ।
सोपवासो जितक्रोध उषित्वा सूर्यमन्दिरे
॥३३॥प्रातः स्नात्वा विधानेन ददात्यर्घं दिवाकरे ।
विधिना मन्त्रयुक्तेन स लभेत्पुण्यमुत्तमम्
॥३४॥पितृदेवमनुष्याणां कृत्वा ह्युदकतर्पणम् ।
मन्दिरे देवदेवस्य ततः पूजां समाचरेत्
॥३५॥गन्धैः पुष्पैस्तथा धूपैर्दीपनैवेद्यशोभनैः ।
पूजयित्वा जगन्नाथं ततो मन्त्रमुदीरयेत्
॥३६॥विष्णुः शक्रो यमो धाता मित्रोऽथ वरुणस्तथा ।
विवस्वान्सविता पूषा चण्डांशुर्भर्ग एव च
॥३७॥इति द्वादशनामानि जपन्कृत्वा प्रदक्षिणाम् ।
यत्फलं लभते पार्थ तदिहैकमनाः शृणु
॥३८॥दरिद्रो व्याधितो मूको बधिरो जड एव च ।
न भवेत्सप्त जन्मानि इत्येवं शङ्करोऽब्रवीत्
॥३९॥एवं ज्ञात्वा विधानेन जपन्मन्त्रं विचक्षणः ।
आराधयेद्रविं भक्त्या य इच्छेत्पुण्यमुत्तमम्
॥४०॥मन्त्रहीनां तु यः कुर्याद्भक्तिं देवस्य भारत ।
स विडम्बति चात्मानं पशुकीटपतङ्गवत्
॥४१॥तत्र तीर्थे तु यः कश्चित्त्यजते देहमुत्तमम् ।
स गतस्तत्र देवैस्तु पूज्यमानो महर्षिभिः
॥४२॥स्वेच्छया सुचिरं कालमिह लोके नृपो भवेत्
॥४३॥पुत्रपौत्रसमायुक्तो हस्त्यश्वरथसङ्कुलः ।
दासीदासशतोपेतो जायते विपुले कुले
॥४४॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे रवितीर्थमाहात्म्यवर्णनं नाम पञ्चविंशत्युत्तरशततमोऽध्यायः ॥