करनर्मदासङ्गममाहात्म्यवर्णनम्
श्रीमार्कण्डेय उवाच
सङ्गमः करनर्मदयोः पुरे मान्धातृसंज्ञिते ।
गत्वा स्नात्वा तपयित्वा पित्ःन्विष्णुपुरं नयेत्
॥१॥मर्दयित्वा करौ पूर्वं विष्णुर्दैत्यजिघांसया ।
चक्रं जग्राह तत्रैव स्वेदाज्जाता सरिद्वरा
॥२॥संगता रेवया तत्र स्नात्वा पापैः प्रमुच्यते
॥३॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये करनर्मदासङ्गममाहात्म्यवर्णनं नाम चतुर्विंशोऽध्यायः ॥