मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय ८४

3
अवन्तीखण्डः · रेवाखण्डः · 84

कपितीर्थरामेश्वरलक्ष्मणेश्वरकुम्भेश्वरमाहात्म्यवर्णनम्

श्रीमार्कण्डेय उवाच

अत्रैवोदाहरन्तीममितिहासं पुरातनम् ।

कैलासे पृच्छते भक्त्या षण्मुखाय शिवोदितम्

॥१॥

ईश्वर उवाच

पूर्वं त्रेतायुगे स्कन्द हतो रामेण रावणः ।

चतुर्दश तदा कोट्यो निहता ब्रह्मरक्षसाम्

॥२॥

हतेषु तेषु वै तत्र रक्षणाय दिवौकसाम् ।

महानन्दस्तदा जातस्त्रिषु लोकेषु पुत्रक

॥३॥

ततः सीतां समासाद्य समं वानरपुंगवैः ।

रामोऽप्ययोध्यामायातो भरतेन कृतोत्सवः ।

तस्मै समर्पयामास स राज्यं लक्ष्मणाग्रजः

॥४॥

तस्मिन्प्रशासति ततो राज्यं निहतकण्टकम् ।

कृतकार्योऽथ हनुमान्कैलासमगात्पुरा

॥५॥

ततो नन्दी प्रतीहारो रुद्रांशमपि तं कपिम् ।

न च संगमयामास रुद्रेणाघौघहारिणा

॥६॥

तेन पृष्टस्तदा नन्दी किं मया पातकं कृतम् ।

येन रुद्रवपुः पुण्यं न पश्याम्यम्बिकान्वितम्

॥७॥

नन्द्युवाच

त्वयावतरणं चक्रे कपीन्द्रामरहेतुना ।

तथापि हि कृतं पापमुपभोगेन शाम्यति

॥८॥

हनुमानुवाच

किं मयाकारि तत्पापं नन्दिन्देवार्थकारिणा ।

राक्षसाश्च हता दुष्टा विप्रयज्ञाङ्गघातिनः

॥९॥

ततस्तदालापकुतूहली हरो निजांशभाजं कपिमुग्रतेजसम् ।

उवाच द्वारान्तरदत्तदृष्टिः पुरःस्थितं प्रेक्ष्य कपीश्वरं पुनः

॥१०॥

ईश्वर उवाच

गङ्गा गया कपे रेवा यमुना च सरस्वती ।

सर्वपापहरा नद्यस्तासु स्नानं समाचर

॥११॥

नर्मदादक्षिणे कूले तीर्थं परमशोभनम् ।

सोमनाथसमीपस्थं तत्र त्वं गच्छ वानर

॥१२॥

तत्र स्नात्वा महापापं गमिष्यति ममाज्ञया ।

उत्पत्य वेगाद्धनुमाञ्छ्रीरेवादक्षिणे तटे

॥१३॥

जगाम सुमहानादस्तपश्चक्रे सुदुष्करम् ।

तस्य वै तप्यमानस्य रक्षोवधकृतं तमः

॥१४॥

विलीनं पार्थ कालेन कियतेशप्रसादतः ।

ततो देवैः समं देवस्तत्तीर्थमगमद्धरः

॥१५॥

कपिमालिङ्गयामास वरं तस्मै प्रदत्तवान् ।

अद्यप्रभृति ते तीर्थं भविष्यति न संशयः

॥१६॥

कपितीर्थं ततो जातं तस्थौ तत्र स्वयं हरः ।

हनूमन्तेश्वरो नाम्ना सर्वहत्याहरस्तदा

॥१७॥

तत्र तीर्थे तु यः स्नात्वा भक्त्या लिङ्गं प्रपूजयेत् ।

सर्वपापानि नश्यन्ति हरस्य वचनं यथा

॥१८॥

तत्रास्थीनि विलीयन्ते पिण्डदानेऽक्षया गतिः ।

यत्किंचिद्दीयते तत्र तद्धि कोटिगुणं भवेत्

॥१९॥

हनुमानप्ययोध्यायां रामं द्रष्टुमथागमत् ।

चकार कुशलप्रश्नं स्वस्वरूपं न्यवेदयत्

॥२०॥

श्रीराम उवाच

कुर्वतो देवकार्यं ते मम कार्यं च कुर्वतः ।

ततोऽहमपि पापीयांस्तपस्तप्स्याम्यसंशयम्

॥२१॥

तत्रैव दक्षिणे कूले रेवायाः पापहारिणि ।

चतुर्विंशतिवर्षाणि तपस्तेपेऽथ राघवः

॥२२॥

ज्योतिष्मतीपुरीसंस्थः श्रीरेवास्नानमाचरन् ।

तस्य शुश्रूषणं चक्रे लक्ष्मणोऽपि तदाज्ञया

॥२३॥

स्थापयामासतुर्लिङ्गे तौ तदा रामलक्ष्मणौ ।

प्रभावात्सत्यतपसो रेवातीरे महामती ।

निष्पापतां तदा वीरौ जग्मतू रामलक्ष्मणौ

॥२४॥

ततस्तदा देवपुरोगमो हरो गतो हि वै पुण्यमुनीश्वरैः सह ।

आगत्य तीर्थं च वरं ददौ तदा निजां कलां तत्र विमुच्य तीर्थे

॥२५॥

मुनिभिः सर्वतीर्थानां क्षिप्तं कुम्भोदकं भुवि ।

एकस्थं लिङ्गनामाथ कलाकुम्भस्तथाभवत्

॥२६॥

कुम्भेश्वर इति ख्यातस्तदा देवगणार्चितः ।

रामोऽपि पूजयामास तल्लिङ्गं देवसेविवतम्

॥२७॥

ततो वरं ददौ देवो रामकीर्त्यभिवृद्धये ।

चतुर्विंशतिमे वर्षे रामो निष्पापतां गतः

॥२८॥

यदा कन्यागतः पङ्गुर्गुरुणा सहितो भवेत् ।

तदेव देवयात्रेयमिति देवा जगुर्मुदा

॥२९॥

यथा गोदावरीतीर्थे सर्वतीर्थफलं भवेत् ।

तथात्र रेवास्नानेन लिङ्गानां दर्शनैर्नृणाम्

॥३०॥

करिष्यन्त्यत्र ये श्राद्धं पितॄणां नर्मदातटे ।

कुम्भेश्वरसमीपस्थास्तत्फलं शृणु षण्मुख

॥३१॥

यावन्तो रोमकूपाः स्युः शरीरे सर्वदेहिनाम् ।

तावद्वर्षप्रमाणेन पितॄणामक्षया गतिः

॥३२॥

पृथिव्यां देवताः सर्वाः सर्वतीर्थानि यानि तु ।

लभन्ते तत्फलं मर्त्या लिङ्गत्रयविलोकनात्

॥३३॥

अपुत्रो लभते पुत्रं निर्धनो धनमाप्नुयात् ।

सरोगो मुच्यते रोगान्नात्र कार्या विचारणा

॥३४॥

सिंहराशिं गते जीवे यत्स्याद्गोदावरीफलम् ।

तद्द्वादशगुणं स्कन्द कुम्भेश्वरसमीपतः

॥३५॥

ये जानन्ति न पश्यन्ति कुम्भशम्भुमुमापतिम् ।

नर्मदादक्षिणे कूले तेषां जन्म निरर्थकम्

॥३६॥

यथा गोदावरीयात्रा कर्तव्या मुनिशासनात् ।

चतुर्विंशतिमे वर्षे तथेयं देवभाषितम्

॥३७॥

यावच्चन्द्रश्च सूर्यश्च यावद्वै दिवि तारकः ।

तावत्तदक्षयं दानं रेवाकुम्भेश्वरान्तिके

॥३८॥

महादानानि देयानि तत्र लौकैर्विचक्षणैः ।

गोदानमत्र शंसन्ति सौवर्णं राजतं तथा

॥३९॥

यस्याः स्मरणमात्रेण नश्यते पापसञ्चयः ।

स्नानेन किं पुनः स्कन्द ब्रह्महत्यां व्यपोहति

॥४०॥

तत्र तीर्थे तु यः स्नात्वा श्राद्धं कुर्याद्युधिष्ठिर ।

एकोत्तरं कुलशतमुद्धरेच्छिवशासनात्

॥४१॥

यानि कानि च तीर्थानि चासमुद्रसरांसि च ।

शिवलिङ्गार्चनस्येह कलां नार्हन्ति षोडशीम्

॥४२॥

एवं देवा वरं दत्त्वा हरीश्वरपुरोगमाः ।

स्वस्थानमगमन् पूर्वं मुक्त्वा तन्नाम चोत्तमम्

॥४३॥

तीर्थस्यास्य वरं दत्त्वा स रामो लक्ष्मणाग्रजः ।

अयोध्यां प्रविवेशासौ निष्पापो नर्मदाजलात्

॥४४॥

सौवर्णीं च ततः कृत्वा सीतां यज्ञं चकार सः ।

अनुमन्त्र्य मुनींल्लोकान्देवताश्च निजं कुलम्

॥४५॥

पुरा त्रेतायुगे जातं तत्तीर्थं स्कन्दनामकम् ।

नियमेन ततो लोकैः कर्तव्यं लिङ्गदर्शनम्

॥४६॥

तावत्पापानि देहेषु महापातकजान्यपि ।

यावन्न प्रेक्षते जन्तुस्तत्तीर्थं देवसेवितम्

॥४७॥

ते धन्यास्ते महात्मानस्तेषां जन्म सुजीवितम् ।

ज्योतिष्मतीपुरीसंस्थं ये द्रक्ष्यन्ति हरं परम्

॥४८॥

तस्मान्मोहं परित्यज्य जनैर्गन्तव्यमादरात् ।

तीर्थाशेषफलावाप्त्यै तीर्थं कुम्भेश्वराह्वयम्

॥४९॥

मार्कण्डेय उवाच

श्रुत्वेति शम्भुवचसा स षडाननोऽथ नत्वा पितुः पदयुगाम्बुजमादरेण ।

सम्प्राप्य दक्षिणतटं गिरिशस्रवन्त्याः कीशाग्र्यरामकलशाख्यशिवान् ददर्श

॥५०॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कपितीर्थरामेश्वरलक्ष्मणेश्वरकुम्भेश्वरमाहात्म्यवर्णनं नाम चतुरशीतितमोऽध्यायः ॥