पुङ्खिलतीर्थमाहात्म्यवर्णनम्
श्रीमार्कण्डेय उवाच
तस्यैवानन्तरं तात पुङ्खिलं तीर्थमुत्तमम् ।
तत्र तीर्थे पुरा पुङ्खः पार्थ सिद्धिमुपागतः
॥१॥जामदग्न्यो महातेजाः क्षत्रियान्तकरः प्रभुः ।
तपः कृत्वा सुविपुलं नर्मदोत्तरतीरभाक्
॥२॥ततः प्रभृति विख्यातं पुङ्खतीर्थं नरेश्वर ।
तत्र तीर्थे तु यः स्नात्वा ह्याराध्य परमेश्वरम्
॥३॥इहलोके बलैर्युक्तः परे मोक्षमवाप्नुयात् ।
देवान्पित्ःन् समभ्यर्च्य पित्ःणामनृणी भवेत्
॥४॥तत्र तीर्थे नरो यस्तु प्राणत्यागं करोति वै ।
अनिवर्तिका गतिस्तस्य रुद्रलोकादसंशयम्
॥५॥तत्र तीर्थे नरः स्नात्वा हयमेधफलं लभेत्
॥६॥तत्र तीर्थे नरो यस्तु ब्राह्मणान् भोजयेन्नृप ।
एकस्मिन् भोजिते विप्रे कोटिर्भवति भोजिता
॥७॥तत्र तीर्थे तु यः कश्चित्पूजयेद्वृषभध्वजम् ।
वाजपेयस्य यज्ञस्य फलं प्राप्नोत्यसंशयम्
॥८॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे पुङ्खिलतीर्थमाहात्म्यवर्णनं नाम दशोत्तरद्विशततमोऽध्यायः ॥