नागतीर्थमाहात्म्यवर्णनम्
श्रीमार्कण्डेय उवाच
ततो गच्छेन्महाराज नागतीर्थमनुत्तमम् ।
आश्विनस्य सिते पक्षे पञ्चम्यां नियतः शुचिः
॥१॥रात्रौ जागरणं कृत्वा गन्धधूपनिवेदनैः ।
प्रभाते विमले स्नात्वा श्राद्धं कृत्वा यथाविधि
॥२॥मुच्यते सर्वपापेभ्यो नात्र कार्या विचारणा ।
तत्र तीर्थे तु यो राजन्प्राणत्यागं करिष्यति
॥३॥अनिवर्तिका गतिस्तस्य प्रोवाचेति शिवः स्वयम्
॥४॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नागतीर्थमाहात्म्यवर्णनं नाम त्रिषष्ट्युत्तरशततमोऽध्यायः ॥