मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय ६

3
अवन्तीखण्डः · रेवाखण्डः · 6

मयूरकल्पसमुद्भवः

मार्कण्डेय उवाच

पुनर्युगान्ते सम्प्राप्ते तृतीये नृपसत्तम ।

दादशार्कवपुर्भूत्वा भगवान्नीललोहितः

॥१॥

सप्तद्वीपसमुद्रान्तां सशैलवनकाननाम् ।

निर्दग्धां तु महीं कृत्स्नां कालो भूत्वा महेश्वरः

॥२॥

ततो महाघनो भूत्वा प्लावयामास वारिणा ।

कृष्णं कृष्णवपुस्त्वेनां विद्युच्चन्द्रायुधाङ्किताम्

॥३॥

प्लावयित्वा जगत्सर्वं तस्मिन्नेकार्णवीकृते ।

सुष्वाप विमले तोये जगत्संक्षिप्य मायया

॥४॥

ततोऽहं भ्रममास्तु तमोभूते महार्णवे ।

दिव्यं वर्षसहस्रं तु वायुभूते महेश्वरे

॥५॥

ओंकृत्वा देवदेवेशं येनेदं गहनीकृतम् ।

ध्यायमानस्ततो देवं राजेन्द्र विमले जले

॥६॥

तस्मिन्महार्णवे घोरे नष्टे स्थावरजङ्गमे ।

मयूरं स्वर्णपत्राढ्यमपश्यंसहसा जले ।

विचित्रचन्द्रकोपेतं नीलकंठं सुलोचनम्

॥७॥

ततो मयूरः स महार्णवान्ते विक्षोभयित्वा हि महास्वेण ।

चचार देवस्त्रिशिखी शिखण्डी त्रैलोक्यगोप्ता स महानुभावः

॥८॥

शिवश्च रौद्रेण मयूररूपिणा विक्षोभ्यमाणे सलिलेऽपि तस्मिन् ।

सह भ्रमन्तीं च महार्णवान्ते सरिन्महौघां सुमहान्ददर्श

॥९॥

स तां महादेवमयूररूपो दृष्ट्वा भ्रमन्तीं सहसोर्मिजालैः ।

का त्वं शुभे शाश्वतदेहभूता क्षयं न यातासि महाक्षयान्ते

॥१०॥

देवासुरगणे नष्टे सरित्सरमहार्णवे ।

का त्वं भ्रमसि पद्माक्षि क्व गतासि च न क्षयम्

॥११॥

नर्मदोवाच

तव प्रसादाद्देवेश मृत्युर्मम न विद्यते ।

सृज देव पुनर्विश्वं शर्वरी क्षयमागता

॥१२॥

एवमुक्तो महादेवो व्यधुनोत्पक्षपञ्जरम् ।

तावत्पञ्जरमध्यान्ते तस्य पक्षाद्विनिःसृताः

॥१३॥

तावन्तो देवदैत्येन्द्राः पक्षाभ्यां तस्य जज्ञिरे ।

तेषां मध्ये पुनः सा तु नर्मदा भ्रमते सरित्

॥१४॥

ततश्चान्यो महाशैलो दृश्यते भरतर्षभ ।

त्रिभिः कूटैः सुविस्तीर्णैः शृङ्गवानिव गोवृषः

॥१५॥

त्रिकूटस्तु इति ख्यातः सर्वरत्नैर्विभूषितः ।

ततस्तस्मात्त्रिकूटाच्च प्लावयन्ती महीं ययौ

॥१६॥

त्रिकूटी तेन विख्याता पितॄणां त्रायणी परा ।

द्वितीयाच्च ततो गङ्गा विस्तीर्णा धरणीतले

॥१७॥

तृतीयं च ततः शृङ्गं सप्तधा खण्डशो गतम् ।

जम्बूद्वीपे तु संजाताः सप्त ते कुलपर्वताः

॥१८॥

चन्द्रनक्षत्रसहिता ग्रहग्रामनदीनदाः ।

अण्डजं स्वेदजं जातमुद्भिज्जं च जरायुजम्

॥१९॥

एवं जगदिदं सर्वं मयूरादभवत्पुरा ।

समस्तं नरशार्दूल महादेवसमुद्भवम्

॥२०॥

ततो नदीः समुद्रांश्च संविभज्य पृथक्पृथक् ।

नर्मदामाह देवेशो गच्छ त्वं दक्षिणां दिशम्

॥२१॥

एवं सा दक्षिणा गंगा महापातकनाशिनी ।

उत्तरे जाह्नवी देशे पुण्या त्वं दक्षिणे शुभा

॥२२॥

यथा गंगा महापुण्या मम मस्तकसंभवा ।

तद्विशिष्टा महाभागे त्वं चैवेति न संशयः

॥२३॥

त्वया सह भविष्यामि एकेनांशेन सुव्रते ।

महापातकयुक्तानामौषधं त्वं भविष्यसि

॥२४॥

एवमुक्ता तु देवेन महापातकनाशिनी ।

दक्षिणं दिग्विभागं तु सा जगामाशु विक्रमा

॥२५॥

ऋक्षशैलेन्द्रमासाद्य चन्द्रमौलेरनुग्रहात् ।

वार्यौघैः प्रस्थिता यस्मान्महादेवप्रणोदिता

॥२६॥

महता चापि वेगेन यस्मादेषा समुच्छ्रिता ।

महती तेन सा प्रोक्ता महादेवान्महीपते

॥२७॥

तपतस्तस्य देवस्य शूलाग्राद्बिन्दवोऽपतन् ।

तेनैषा शोणसंज्ञा तु दश सप्त च ताः स्मृताः

॥२८॥

सर्वेषां नर्मदा पुण्या रुद्रदेहाद्विनिःसृता ।

सर्वाभ्यश्च सरिद्भ्यश्च वरदानान्महात्मनः

॥२९॥

शंकरानुप्रहाद्देवी महापातकनाशिनी ।

यस्मान्महार्णवे घोरे दृश्यते महती च सा

॥३०॥

सुव्यक्ताङ्गी महाकाया महती तेन सा स्मृता ।

तस्माद्विक्षोभ्यमाणा हि दिग्गजैरम्बुदोपमैः

॥३१॥

कलुषत्वं नयत्येव रसेन सुरसा तथा ।

कृपां करोति सा यस्माल्लोकानामभयप्रदा

॥३२॥

संसारार्णवमग्नानां तेन चैषा कृपा स्मृता ।

पुरा कृतयुगे पुण्ये दिव्यमन्दारभूषिता

॥३३॥

कल्पवृक्षसमाकीर्णा रोहीतकसमाकुला ।

वहत्येषा च मन्देन तेन मन्दाकिनी स्मृता

॥३४॥

भित्त्वा महार्णवं क्षिप्रं यस्माल्लोकमिहागता ।

पूज्या सुरैश्च सिद्धैश्च तस्मादेषा महार्णवा

॥३५॥

विचित्रोत्पलसंघातैरृक्षद्विपसमाकुला

॥३६॥

भित्त्वा शैलं च विपुलं प्रयात्येवं महार्णवम् ।

भ्रामयन्ती दिशः सर्वा रवेण महता पुरा

॥३७॥

प्लावयन्ती विराजन्ती तेन रेवा इति स्मृता ।

भार्यापुत्रसुदुःखाढ्यान्नराञ्छापैः समावृतान्

॥३८॥

विपापान्कुरुते यस्माद्विपापा तेन सा स्मृता ।

विण्मूत्रनिचयां घोरां पांशुशोणितकर्दमाम्

॥३९॥

पाशैर्नित्यं तु सम्बाधां यस्मान्मोचयते भृशम् ।

विपाशेति च सा प्रोक्ता संसारार्णवतारिणी

॥४०॥

नर्मदा विमलाम्भा च विमलेन्दुशुभानना ।

तमोभूते महाघोरे यस्मादेषा महाप्रभा

॥४१॥

विमला तेन सा प्रोक्ता विद्वद्भिर्नृपसत्तम ।

करैरिन्दुकरप्रख्यैः सूर्यरश्मिसमप्रभा

॥४२॥

क्षरन्ती मोदते विश्वं करभा तेन चोच्यते ।

यस्माद्रञ्जयते लोकान्दर्शनादेव भारत

॥४३॥

रञ्जनाद्रञ्जना प्रोक्ता धात्वर्थे राजसत्तम ।

तृणवीरुधगुल्माद्यास्तिर्यञ्चः पक्षिणस्तथा ।

तानुद्भूतान्नयेत्स्वर्गं तेनोक्ता वायुवाहिनी

॥४४॥

एवं यो वेत्ति नामानि निर्गमं च विशेषतः ।

स याति पापविर्मुक्तो रुद्रलोकं न संशयः

॥४५॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये सहैतुकरेवानाममाहात्म्यवर्णने मयूरकल्पसमुद्भवो नाम षष्ठोऽध्यायः ॥