मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय १००

3
अवन्तीखण्डः · रेवाखण्डः · 100

मार्कण्डेश्वरतीर्थमाहात्म्यवर्णनम्

श्रीमार्कण्डेय उवाच

ततो गच्छेन्महीपाल तीर्थं परमरोचनम् ।

मार्कण्डेशमिति ख्यातं नर्मदादक्षिणे तटे

॥१॥

उत्तमं सर्वतीर्थानां गीर्वाणैर्वन्दितं शिवम् ।

गुह्याद्गुह्यतरं पुत्र नाख्यातं कस्यचिन्मया

॥२॥

स्थापितं तु मया पूर्वं स्वर्गसोपानसंनिभम् ।

ज्ञानं तत्रैव मे जातं प्रसादाच्छङ्करस्य च

॥३॥

अन्यस्तत्रैव यो गत्वा द्रुपदामन्तर्जले जपेत् ।

स पातकैरशेषश्च मुच्यते पाण्डुनन्दन

॥४॥

वाचिकैर्मानसैश्च वा कर्मजैरपि पातकैः ।

पिण्डिकां चाप्यवष्टभ्य याम्यामाशां च संस्थितः

॥५॥

योजयेच्छूलिनं भक्त्या द्वात्रिंशद्बहुरूपिणम् ।

देहपाते शिवं गच्छेदिति मे निश्चयो नृप

॥६॥

आज्येन बोधयेद्दीपमष्टम्यां निशि भारत ।

स्वर्गलोकमवाप्नोति इत्येवं शङ्करोऽब्रवीत्

॥७॥

श्राद्धं तत्रैव यो भक्त्या कुर्वीत नृपनन्दन ।

पितरस्तस्य तृप्यन्ति यावदाभूतसम्प्लवम्

॥८॥

इङ्गुदैर्बदरैर्बिल्वैरक्षतेन जलेन वा ।

तर्पयेत्तत्र यो वंश्यानाप्नुयाज्जन्मनः फलम्

॥९॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे मार्कण्डेश्वरतीर्थमाहात्म्यवर्णनं नाम शततमोऽध्यायः ॥