मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय २१२

3
अवन्तीखण्डः · रेवाखण्डः · 212

एकशालडिण्डिमेश्वरतीर्थमाहात्म्यवर्णनम्

श्रीमार्कण्डेय उवाच

अथान्यत्सम्प्रवक्ष्यामि देवस्य चरितं महत् ।

श्रुतमात्रेण येनाशु सर्वपापैः प्रमुच्यते

॥१॥

भिक्षुरूपं परं कृत्वा देवदेवो महेश्वरः ।

एकशालां गतो ग्रामं भिक्षार्थी क्षुत्पिपासितः

॥२॥

अक्षसूत्रोद्यतकरो भस्मगुण्ठितविग्रहः ।

स्फुरत्त्रिशूलो विश्वेशो जटाकुण्डलभूषितः

॥३॥

कृत्तिवासा महाकायो महाहिकृतभूषणः ।

वादयन्वै डमरुकं डिण्डिमप्रतिमं शुभम्

॥४॥

कपालपाणिर्भगवान्बालकैर्बहुभिर्वृतः ।

क्वचिद्गायन्हसंश्चैव नृत्यन्वदन् क्वचित्क्वचित्

॥५॥

यत्र यत्र गृहे देवो लीलया डिण्डमं न्यसेत् ।

भाराक्रान्तं गृहं पार्थ तत्रतत्र विनश्यति

॥६॥

एवं सम्प्रचरन् देवो वेष्टितो बहुभिर्जनैः ।

दृश्यादृश्येन रूपेण निर्जगाम बहिः प्रभुः

॥७॥

इतश्चेतश्च धावन्तं न पश्यन्ति यदा जनाः ।

विस्मितास्ते स्थिताः शम्भुर्भविष्यति ततोऽस्तुवन्

॥८॥

तेषां तु स्तुवतां भक्त्या शङ्करं जगतां पतिम् ।

डिण्डिरूपो हि भगवांस्तदासौ प्रत्यदृश्यत

॥९॥

तदाप्रभृति देवेशो डिण्डिमेश्वर उच्यते ।

दर्शनात्स्पर्शनाद्राजन् सर्वपापैः प्रमुच्यते

॥१०॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे एकशालडिण्डिमेश्वरतीर्थमाहात्म्यवर्णनं नाम द्वादशोत्तरद्विशततमोऽध्यायः ॥