मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय ५०

3
अवन्तीखण्डः · रेवाखण्डः · 50

पात्रापात्रपरीक्षादानादिनियमवर्णनम्

उत्तानपाद उवाच

द्विजाश्च कीदृशाः पूज्या अपूज्याः कीदृशाः स्मृताः ।

श्राद्धे वैवाहिके कार्ये दाने चैव विशेषतः

॥१॥

यदि श्रद्धा भवेद्दैवयोगाच्छ्राद्धादिके विधौ ।

एतदाख्याहि मे देव कस्य दानं न दीयते

॥२॥

ईश्वर उवाच

यथा काष्ठमयो हस्ती यथा चर्ममयो मृगः ।

ब्राह्मणश्चानधीयानस्त्रयस्ते नामधारकाः

॥३॥

यथा षण्ढोऽफलः स्त्रीषु यथा गौर्गवि चाफला ।

यथा चाज्ञेऽफलं दानं तथा विप्रोऽनृचोऽफलः

॥४॥

यथाऽनृणे बीजमुप्त्वा वप्ता न लभते फलम् ।

तथानृचे हविर्दत्त्वा न दाता लभते फलम्

॥५॥

रोगी हीनातिरिक्ताङ्गः काणः पौनर्भवस्तथा ।

अवकीर्णी श्यावदन्तः सर्वाशी वृषलीपतिः

॥६॥

मित्रध्रुक्पिशुनः सोमविक्रयी परनिन्दकः ।

पितृमातृगुरुत्यागी नित्यं ब्राह्मणनिन्दकः

॥७॥

शूद्रान्नं मन्त्रसंयुक्तं यो विप्रो भक्षयेन्नृप ।

सोऽस्पृश्यः कर्मचाण्डालः स्पृष्ट्वा स्नानं समाचरेत्

॥८॥

कुनखी वृषली स्तेयी वार्द्धुष्यः कुण्डगोलकौ ।

महादानरतो यश्च यश्चात्महनने रतः

॥९॥

भृतकाध्यापकः क्लीबः कन्यादूष्यभिशस्तकः ।

एते विप्राः सदा त्याज्याः परिभाव्य प्रयत्नतः

॥१०॥

प्रतिग्रहं गृहीत्वा तु वाणिज्यं यस्तु कारयेत् ।

तस्य दानं न दातव्यं वृथा भवति तस्य तत्

॥११॥

श्रुताध्ययनसम्पन्ना ये द्विजा वृत्ततत्पराः ।

तेषां यद्दीयते दानं सर्वमक्षयतां व्रजेत्

॥१२॥

दरिद्रान्भर भूपाल मा समृद्धान् कदाचन ।

व्याधितस्यौषधं पथ्यं नीरुजस्य किमौषधैः

॥१३॥

उत्तानपाद उवाच

कीदृशोऽथ विधिस्तत्र तीर्थश्राद्धस्य का क्रिया ।

दानं च दीयते यद्वत्तन्ममाख्याहि शङ्कर

॥१४॥

ईश्वर उवाच

श्राद्धं कृत्वा गृहे भक्त्या शुचिश्चापि जितेन्द्रियः ।

गुरुं प्रदक्षिणीकृत्य भोज्य सीमान्तके ततः

॥१५॥

वाग्यतः प्रव्रजेत्तावद्यावत्सीमां न लङ्घयेत् ।

शूलभेदं ततो गत्वा स्नानं कुर्याद्यथाविधि

॥१६॥

पञ्चस्थानेषु च श्राद्धं हव्यकव्यादिभिः क्रमात् ।

पिण्डदानं च यः कुर्यात्पायसैर्मधुसर्पिषा

॥१७॥

पितरस्तस्य तृप्यन्ति द्वादशाब्दानि पञ्च च ।

अक्षतैर्बदरैर्बिल्वैर्गुदमधुसर्पिषा

॥१८॥

सापि तत्फलमाप्नोति तीर्थेऽस्मिन्नात्र संशयः ।

उपानहौ च यो दद्याद्ब्राह्मणेभ्यः प्रयत्नतः

॥१९॥

सोऽपि स्वर्गमवाप्नोति हयारूढो न संशयः ।

शय्यामश्वं च यो दद्याच्छत्त्रिकां वा विशेषतः

॥२०॥

गच्छेद्विमानमारूढः सोऽप्सरोवृन्दवेष्टितः ।

उत्तमं यो गृहं दद्यात्सप्तधान्यसमन्वितम्

॥२१॥

स्वेच्छया मे वसेल्लोके काञ्चने भवने हि सः ।

तिलधेनुं च यो दद्यात्सवत्सां वस्त्रसंप्लुताम्

॥२२॥

नाकपृष्ठे वसेत्तावद्यावदाभूतसम्प्लवम् ।

गृहे वा यदि वारण्ये तीर्थवर्त्मनि वा नृप

॥२३॥

तोयमन्नं च यो दद्याद्यमलोकं स नेक्षते ।

सर्वदानानि दीयन्ते तेषां फलमवाप्यते

॥२४॥

उदकं चात्र दानं च दद्यादभयमेव च ।

अन्नदानात्परं दानं न भूतं न भविष्यति

॥२५॥

कन्यादानं तु यः कुर्याद्वृषं वा यः समुत्सृजेत् ।

तस्य वासो भवेत्तत्र यत्राहमिति नान्यथा

॥२६॥

उत्तानपाद उवाच

कन्यादानं कथं स्वामिन् कर्तव्यं धार्मिकैः सदा ।

परिग्रहो यथा पोष्यः कन्योद्वाहस्तथैव च

॥२७॥

अन्यत्पृच्छामि देवेश कस्य कन्या न दीयते ।

दातव्यं कुत्र तद्देव कस्मै दत्तमथाक्षयम्

॥२८॥

उत्तमं मध्यमं वापि कनीयः स्यात्कथं विभो ।

राजसं तामसं वापि निःश्रेयसमथापि वा

॥२९॥

ईश्वर उवाच

सर्वेषामेव दानानां कन्यादानं विशिष्यते ।

यो दद्यात्परया भक्त्याभिगम्य तनयां निजाम्

॥३०॥

कुलीनाय सुरूपाय गुणज्ञाय मनीषिणे ।

सुलग्ने सुमुहूर्ते च दद्यात्कन्यामलंकृताम्

॥३१॥

अश्वान्ना गांश्च वासांसि योऽत्र दद्यात्स्वशक्तितः ।

तस्य वासो भवेत्तत्र पदं यत्र निरामयम्

॥३२॥

येनात्र दुहिता दत्ता प्राणेभ्योऽपि गरीयसी ।

तेन सर्वमिदं दत्तं त्रैलोक्यं सचराचरम्

॥३३॥

यः कन्यार्थं ततो लब्ध्वा भिक्षते चैव तद्धनम् ।

स भवेत्कर्मचण्डालः काष्ठकीलो भवेन्मृतः

॥३४॥

गृहेऽपि तस्य योऽश्नीयाज्जिह्वालौल्यात्कथंचन ।

चान्द्रायणेन शुध्येत तप्तकृच्छ्रेण वा पुनः

॥३५॥

उत्तानपाद उवाच

वित्तं न विद्यते यस्य कन्यैवास्ति च यद्गृहे ।

कथं चोद्वाहनं तस्य न याञ्चां कुरुते यदि

॥३६॥

ईश्वर उवाच

अवितेनैव कर्तव्यं कन्योद्वहनकं नृप ।

कन्यानाम समुच्चार्य न दोषाय कदाचन

॥३७॥

अभिगम्योत्तमं दानं यच्च दानमयाचितम् ।

भविष्यति युगस्यान्तस्तस्यान्तो नैव विद्यते

॥३८॥

अभिगम्योत्तमं दानं स्मृतमाहूय मध्यमम् ।

याच्यमानं कनीयः स्याद्देहि देहीति चाधमम्

॥३९॥

यथैवाश्माश्मनाबद्धो निक्षिप्तो वारिमध्यतः ।

द्वावेतौ निधनं यातस्तद्वदन्नमपात्रके

॥४०॥

असमर्थे ततो दानं न प्रदेयं कदाचन ।

दातारं नयतेऽधस्तादात्मानं च विशेषतः

॥४१॥

समर्थस्तारयेद्द्वौ तु काष्ठं शुष्कं यथा जले ।

यथा नौश्च तथा विद्वान्प्रापयेदपरं तटम्

॥४२॥

आहिताग्निश्च गृह्णाति यः शूद्राणां प्रतिग्रहम् ।

इह जन्मनि शूद्रोऽसौ मृतः श्वा चोपजायते

॥४३॥

वृथा क्लेशश्च जायेत ब्राह्मणे ह्यग्निहोत्रिणि ।

असत्प्रतिग्रहं कुर्वन्गुप्तं नीचस्य गर्हितम्

॥४४॥

अभोज्यः स भवेन्मर्त्यो दह्यते कारिषाग्निना ।

कटकारो भवेत्पश्चात्सप्त जन्म न संशयः

॥४५॥

लज्जादाक्षिण्यलोभाच्च यद्दानं चोपरोधजम् ।

भृत्येभ्यश्च तु यद्दानं तद्वृथा निष्फलं भवेत्

॥४६॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शूलभेदमाहात्म्ये पात्रापात्रपरीक्षादानादिनियमवर्णनं नाम पञ्चाशत्तमोऽध्यायः ॥