चक्रतीर्थमाहात्म्यवर्णनम्
श्रीमार्कण्डेय उवाच
ततो गच्छेन्महीपाल चक्रतीर्थमनुत्तमम् ।
सेनापुरमितिख्यातं सर्वपापक्षयंकरम्
॥१॥सैनापत्याभिषेकाय देवदेवेन चक्रिणा ।
आनीतश्च महासेनो देवैः सेन्द्रपुरोगमैः
॥२॥दानवानां वधार्थाय जयाय च दिवौकसाम् ।
भूमिदानेन विप्रेन्द्रांस्तर्पयित्वा यथाविधि
॥३॥शङ्खभेरीनिनादैश्च पटहानां च निस्वनैः ।
वीणावेणुमृदङ्गैश्च झल्लरीस्वरमङ्गलैः
॥४॥ततः कृत्वा स्वनं घोरं दानवो बलदर्पितः ।
रुरुर्नाम विघातार्थमभिषेकस्य चागतः
॥५॥हस्त्यश्वरथपत्त्योघैः पूरयन्वै दिशो दश ।
तत्र तेन महद्युद्धं प्रवृत्तं किल भारत
॥६॥शक्त्यृष्टिपाशमुशलैः खड्गैस्तोमरटङ्कनैः ।
भल्लैः कर्णिकनाराचैः कबन्धपटसंकुलैः
॥७॥ततस्तु तां शत्रुबलस्य सेनां क्षणेन चापन्च्युतबाणघातैः ।
विध्वस्तहस्त्यश्वरथान्महात्मा जग्राह चक्रं रिपुसङ्घनाशनः
॥८॥ज्वलच्च चक्रं निशितं भयंकरं सुरासुराणां च सुदर्शनं रणे ।
चकर्त दैत्यस्य शिरस्तदानीं करात्प्रमुक्तं मधुघातिनश्च तत्
॥९॥तं दृष्ट्वा सहसा विघ्नमभिषेके षडाननः ।
त्यक्त्वा तु तत्र संस्थानं चचार विपुलं तपः
॥१०॥मुक्तं चक्रं विनाशाय हरिणा लोकधारिणा ।
द्विदलं दानवं कृत्वा पपात विमले जले
॥११॥तदा प्रभृति तत्तीर्थं चक्रतीर्थमिति श्रुतम् ।
सर्वपापविनाशाय निर्मितं विश्वमूर्तिना
॥१२॥चक्रतीर्थे तु यः स्नात्वा पूजयेद्देवमच्युतम् ।
पुण्डरीकस्य यज्ञस्य फलमाप्नोति मानवः
॥१३॥तत्र तीर्थे तु यः स्नात्वा पूजयेद्ब्राह्मणाञ्छुभान् ।
शान्तदान्तजितक्रोधान्स लभेत्कोटिजं फलम्
॥१४॥तत्र तीर्थे तु यो भक्त्या त्यजते देहमात्मनः ।
विष्णुलोकं मृतो याति जयशब्दादिमङ्गलैः
॥१५॥क्रीडयित्वा यथाकामं देवगन्धर्वपूजितः ।
इहागत्य च भूयोऽपि जायते विपुले कुले
॥१६॥एतत्पुण्यं पापहरं धन्यं दुःखप्रणाशनम् ।
कथितं ते महाभाग भूयश्चान्यच्छृणुष्व मे
॥१७॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे सेनापुरे चक्रतीर्थमाहात्म्यवर्णनं नाम नवोत्तरशततमोऽध्यायः ॥