रेवायाश्चोत्तरे कूले सर्वपापविनाशनम्
श्रीमार्कण्डेय उवाच
ततो गच्छेत्तु राजेन्द्र कह्लोडीतीर्थमुत्तमम् ।
रेवायाश्चोत्तरे कूले सर्वपापविनाशनम्
॥१॥हितार्थं सर्वभूतानामृषिभिः स्थापितं पुरा ।
तपसा तु समुद्धृत्य नर्मदायां महाम्भसि
॥२॥स्नात्वा तु कपिलातीर्थे कपिलां यः प्रयच्छति ।
श्रुत्वा चाख्यानकं दिव्यं ब्राह्मणाञ्छृणु यत्फलम्
॥३॥सर्वेषामेव दानानां कपिलादानमुत्तमम् ।
ब्राह्मणान्वेषितं पूर्वमृषिदेवसमागमे
॥४॥सद्यः प्रसूतां कपिलां शोभनां यः प्रयच्छति ।
सोपवासो जितक्रोधस्तस्य पुण्यफलं शृणु
॥५॥ससमुद्रगुहा तेन सशैलवनकानना ।
दत्ता चैव महाबाहो पृथिवी नात्र संशयः
॥६॥वाचिकं मानसं पापं कर्मणा यत्पुरा कृतम् ।
नश्यते कपिलां दत्त्वा सप्तजन्मार्जितं नृप
॥७॥भूमिदानं धनं धान्यं हस्त्यश्वकनकादिकम् ।
कपिलादानस्यैकस्य कलां नार्हन्ति षोडशीम्
॥८॥तत्र तीर्थे नरः स्नात्वा कपिलां यः प्रयच्छति ।
मृतो विष्णुपुरं याति गीयमानोऽप्सरोगणैः
॥९॥यावन्ति तस्या रोमाणि सवत्सायास्तु भारत ।
तावद्वर्षसहस्राणि स स्वर्गे क्रीडते चिरम्
॥१०॥ततोऽवकीर्णकालेन त्विह मानुष्यतां गतः ।
धनधान्यसमोपेतो जायते विपुले कुले
॥११॥वेदविद्या व्रतस्नातः सर्वशास्त्रविशारदः ।
व्याधिशोकविनिर्मुक्तो जीवेच्च शरदां शतम्
॥१२॥एतत्ते सर्वमाख्यातं कल्होडीतीर्थमुत्तमम् ।
यत्कृत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः
॥१३॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कह्लोडीतीर्थमाहात्म्यवर्णनं नामैकोनविंशत्युत्तरशततमोऽध्यायः ॥