मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय २२५

3
अवन्तीखण्डः · रेवाखण्डः · 225

रेवासागरसङ्गमेऽलिकेश्वरतीर्थमाहात्म्यवर्णनम्

श्रीमार्कण्डेय उवाच

ततः क्रोशान्तरे गच्छेदलिकातीर्थमुत्तमम् ।

अलिका नाम गान्धर्वी कुशीला कुटिलाशया

॥१॥

चित्रसेनस्य दौहित्री विद्यानन्दमृषिं गता ।

वव्रे ते स्वीकृता तेन दशवर्षाणि तं श्रिता

॥२॥

पतिं जघान तं सुप्तं कस्मिंश्चित्कारणान्तरे ।

गत्वा निवेदयामास पितरं रत्नवल्लभम्

॥३॥

पित्रा मात्रा च संत्यक्ता बहुभिर्भर्त्सिता नृप ।

गर्भघ्नी त्वं पतिघ्नी त्वमिति दर्शय मा मुखम्

॥४॥

ब्रह्मघ्नी याहि पापिष्ठे परित्यक्ता गृहाद्व्रज

॥५॥

मार्कण्डेय उवाच

इति दुःखान्विता मूढा ताभ्यां निर्भर्त्सिता सती ।

तनुं त्यक्तुं मनश्चक्रे प्राप्य तीर्थान्तरं क्वचित्

॥६॥

संपृच्छ्यमाना तीर्थानि ब्राह्मणेभ्यो युधिष्ठिर ।

श्रुत्वा पापहरं तीर्थं रेवासागरसङ्गमे

॥७॥

तत्र पार्थ तपश्चक्रे निराहारा जितव्रता ।

कृच्छ्रातिकृच्छ्रपाराकमहासांतपनादिभिः

॥८॥

चान्द्रायणैर्ब्रह्मकूर्चैः कर्शयामास वै तनुम् ।

एवं वर्षशतं सार्द्धं व्यतीतं तपसा नृप

॥९॥

तस्या विशुद्धिमिच्छन्त्याः शिवध्यानार्चनादिभिः ।

ततः कतिपयाहोभिस्तस्या ज्ञात्वा हठं परम् ।

परितुष्टः शिवः प्राह पार्वत्या परिचोदितः

॥१०॥

ईश्वर उवाच

पुत्रि मा साहसं कार्षीः शुद्धदेहासि साम्प्रतम् ।

तुष्टोऽहं तपसा तेऽद्य वरं वरय वाञ्छितम्

॥११॥

अलिकोवाच

यदि तुष्टोऽसि देवेश वरार्हा यद्यहं मता ।

नानापापाग्नितप्ताया देहि शुद्धिं परां मम

॥१२॥

त्वं मे नाथो ह्यनाथायास्त्वमेव जगतां गुरुः ।

दीनानाथसमुद्धर्ता शरण्यः सर्वदेहिनाम्

॥१३॥

ईश्वर उवाच

त्वं भद्रे शुद्धदेहासि मा किंचिदनुशोचिथाः ।

स्वनाम्ना स्थापयित्वेह मां ततः स्वर्गमेष्यसि

॥१४॥

इत्युक्त्वा देवदेवेशस्तत्रैवान्तरधीयत ।

अलिकापि ततो भक्त्या स्नात्वा संस्थाप्य शङ्करम्

॥१५॥

दत्त्वा दानं च विप्रेभ्यो लोकमाप महोत्कटम् ।

पितरं च समासाद्य मातरं च युधिष्ठिर

॥१६॥

तैश्च संमानिता प्रीत्या बन्धुभिः सालिका ततः ।

विमानवरमारूढा दिव्यमालान्विता नृप

॥१७॥

गौरीलोकमनुप्राप्तसखित्वेऽद्यापि मोदते ।

ततः प्रभृति तत्पार्थ विख्यातमलिकेश्वरम्

॥१८॥

तत्र तीर्थे तु या नारी पुरुषो वा युधिष्ठिर ।

स्नात्वा सम्पूजयेद्भक्त्या महादेवमुमायुतम्

॥१९॥

स पापैर्विविधैर्मुक्तो लोकमाप्नोति शांकरम् ।

मानसं वाचिकं पापं कायिकं यत्पुरा कृतम्

॥२०॥

सर्वं तद्विलयं याति भोजयित्वा द्विजान्सदा ।

दीपं दत्त्वा च देवाग्रे न रोगैः परिभूयते

॥२१॥

धूपपात्रं विमानं च घण्टां कलशमेव च ।

दत्त्वा देवाय राजेन्द्र शाक्रं लोकमवाप्नुयात्

॥२२॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे रेवासागरसङ्गमेऽलिकेश्वरतीर्थमाहात्म्यवर्णनं नाम पञ्चविंशत्यधिकद्विशततमोऽध्यायः ॥