मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय ६५

3
अवन्तीखण्डः · रेवाखण्डः · 65

आनन्देश्वरतीर्थमाहात्म्यवर्णनम्

श्रीमार्कण्डेय उवाच

ततो गच्छेत्तु राजेन्द्र आनन्देश्वरमुत्तमम् ।

तत्तीर्थं कथयिष्यामि सर्वपापक्षयंकरम्

॥१॥

युधिष्ठिर उवाच

आनन्दश्चैव संजातो रुद्रस्य द्विजसत्तम ।

कथ्यतां मे च तत्सर्वं संक्षेपात्सह बान्धवैः

॥२॥

श्रीमार्कण्डेय उवाच

कथयामि नृपश्रेष्ठ आनन्देश्वरमुत्तमम् ।

दानवानां वधं कृत्वा देवदेवो महेश्वरः

॥३॥

पूजितो दैवतैः सर्वैः किन्नरैर्यक्षपन्नगैः ।

आनन्दसंयुतो देवो ननर्त वृषवाहनः

॥४॥

भैरवं रूपमास्थाय गौर्या चार्द्धाङ्गसंस्थितः ।

भूतवेतालकङ्कालैर्भैरवैर्भैरवो वृतः

॥५॥

ननर्त नर्मदातीरे दक्षिणे पाण्डुनन्दन ।

तुष्टैर्मरुद्गणैः सर्वैः स्थापितः कमलासनः

॥६॥

तदाप्रभृति तत्तीर्थमानन्देश्वरमुच्यते ।

अष्टम्यां च चतुर्दश्यां पौर्णमास्यां नराधिप

॥७॥

विधिवच्चार्चयेद्देवं सुगन्धेन विलेपयेत् ।

ब्राह्मणान्पूजयेत्तत्र यथाशक्त्या युधिष्ठिर

॥८॥

गोदानं तत्र कर्तव्यं वस्त्रदानं शुभावहम् ।

वसन्तस्य त्रयोदश्यां श्राद्धं तत्रैव कारयेत्

॥९॥

इङ्गुदैर्बदरैर्बिल्वैरक्षतैश्च जलेन वा ।

प्रेतानां कारयेच्छ्राद्धमानन्देश्वर उत्तमे

॥१०॥

आनन्दिता भवेयुस्ते यावदाभूतसम्प्लवम् ।

सन्ततेर्वै न विच्छेदः सप्तजन्मसु जायते ।

आनन्दो हि भवत्तेषां प्रतिजन्मनि भारत

॥११॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे आनन्देश्वरतीर्थमाहात्म्यवर्णनं नाम पञ्चषष्टितमोऽध्यायः ॥