मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय ९३

3
अवन्तीखण्डः · रेवाखण्डः · 93

कल्होडीतीर्थमाहात्म्यवर्णनम्

श्रीमार्कण्डेय उवाच

ततो गच्छेत्तु राजेन्द्र कल्होडीतीर्थमुत्तमम् ।

विख्यातं भारते लोके गङ्गायाः पापनाशनम्

॥१॥

दुर्लभं मनुजैः पार्थ रेवातटसमाश्रितम् ।

प्राणिनां पापनाशाय ऊषरं पुष्करं तथा

॥२॥

तत्तु तीर्थमिदं पुण्यमित्येवं शूलिनो वचः ।

जाह्नवी पशुरूपेण तत्र स्नानार्थमागता

॥३॥

अतस्तद्विश्रुतं लोके कल्होडीतीर्थमुत्तमम् ।

त्रिरात्रं कारयेत्तत्र पूर्णिमायां युधिष्ठिर

॥४॥

रजस्तमस्तथा क्रोधं दम्भं मात्सर्यमेव च ।

एतांस्त्यजति यः पार्थ तेनाप्तं मोक्षजं फलम्

॥५॥

पयसा स्नापयेद्देवं त्रिसन्ध्यं च त्र्यहं तथा ।

पयो गोसम्भवं सद्यः सवत्सा जीवपुत्रिणी

॥६॥

कृत्वा तत्ताम्रजे पात्रे क्षौद्रेण चैव योजिते ।

ओं नमः श्रीशिवायेति स्नानं देवस्य कारयेत्

॥७॥

स याति त्रिदशस्थानं नाकस्त्रीभिः समावृतः ।

यस्तत्र विधिवत्स्नात्वा दानं प्रेतेषु यच्छति

॥८॥

शुक्लां गां दापयेत्तत्र प्रीयतां मे पितामहाः ।

ब्राह्मणे शौचसम्पन्ने स्वदारनिरते सदा

॥९॥

सवत्सां वस्त्रसंयुक्तां हिरण्योपरि संस्थिताम् ।

सत्त्वयुक्तो ददद्राजञ्छाम्भवं लोकमाप्नुयात्

॥१०॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कल्होडीतीर्थमाहात्म्यवर्णनं नाम त्रिनवतितमोऽध्यायः ॥