तत्ते सर्वं प्रवक्ष्यामि नर्मदातटवासिनाम्
श्रीमार्कण्डेय उवाच
आश्चर्यभूतं लोकस्य देवदेवेन यत्कृतम् ।
तत्ते सर्वं प्रवक्ष्यामि नर्मदातटवासिनाम्
॥१॥द्विजान् सुकृत्पणान् देवः कुष्ठी भूत्वा ययाच ह ।
श्राद्धकाले तु सम्प्राप्ते रक्तगन्धानुलेपनः
॥२॥स्रवद्बुद्बुदगात्रस्तु मक्षिकाकृमिसंवृतः ।
दुश्चर्मा दुर्मुखो गन्धी प्रस्खलंश्च पदे पदे
॥३॥ब्राह्मणावसथं गत्वा स्खलन्द्वारेऽब्रवीदिदम् ।
भोभो गृहपते त्वद्य ब्राह्मणैः सह भोजनम्
॥४॥त्वद्गृहे कर्तुमिच्छामि ह्येभिः सह सुसंस्कृतम् ।
ततस्तं ब्रह्माणं दृष्ट्वा यजमानसमन्विताः
॥५॥स्रवन्तं सर्वगात्रेषु धिग्धिगित्येवमब्रुवन् ।
निर्गच्छस्वाशु दुर्गन्ध गृहाच्छीघ्रं द्विजाधम
॥६॥अभोज्यमेतत्सर्वेषां दर्शनात्तव सत्कृतम् ।
एवमेव तथेत्युक्त्वा देवदेवो महेश्वरः
॥७॥जगामाकाशममलं दृश्यमानो द्विजोत्तमैः ।
गते चादर्शनं देवे स्नात्वाभ्युक्ष्य समन्ततः
॥८॥भुञ्जतेऽस्म द्विजा राजन्यावत्पात्रे पृथक्पृथक् ।
यत्रयत्र च पश्यन्ति तत्रतत्र कृमिर्बहुः
॥९॥दृष्ट्वा विस्मयमापन्नाः सर्वे किमिति चाब्रुवन् ।
ततः कश्चिदुवाचेदं ब्राह्मणो गुणवानजः
॥१०॥योगीन्द्रः शङ्कया तत्र बहुविप्रसमागमे ।
योऽत्र पूर्वं समायातः स योगी परमेश्वरः
॥११॥तस्येदं क्रीडितं मन्ये भर्त्सितस्य विपाकजम् ।
फलं भवति नान्यस्य ह्यतिथेः शास्त्रनिश्चयात्
॥१२॥सम्पूज्य परमात्मा वै ह्यतिथिश्च विशेषतः ।
श्राद्धकाले तु सम्प्राप्तमतिथिं यो न पूजयेत्
॥१३॥पिशाचा राक्षसास्तस्य तद्विलुम्पन्त्यसंशयम् ।
रूपान्वितं विरूपं वा मलिनं मलिनाम्बरम्
॥१४॥योगीन्द्रं श्वपचं वापि अतिथिं न विचारयेत् ।
तच्छ्रुत्वा वचनं तस्य यजमानपुरोगमाः
॥१५॥ब्राह्मणा द्विजमन्वेष्टुं धाविताः सर्वतोदिशम् ।
तावत्कथंचित्केनापि गहनं वनमाश्रितः
॥१६॥दृष्टो दृष्ट इति प्रोक्तं तेन ते सर्व आगताः ।
ततः पश्यन्ति तं विप्रं स्थाणुवन्निश्चलं स्थितम्
॥१७॥क्रन्दते न चलति स्पन्दते न च पश्यति ।
जल्पन्ति करुणं केचित्स्तुवन्ति च तथापरे
॥१८॥वाग्भिः सततमिष्टाभिः स्तूयमानस्त्रिलोचनः ।
क्षुधार्दितानां देवेश ब्राह्मणानां विशेषतः ।
विनष्टमन्नं सर्वेषां पुनः संकर्तुमर्हसि
॥१९॥श्रुत्वा तु वचनं तेषां ब्राह्मणानां युधिष्ठिर ।
परया कृपया देवः प्रसन्नस्तानुवाच ह
॥२०॥मया प्रसन्नेन महानुभावास्तदेव वोऽन्नं विहितं सुधेव ।
भुञ्जन्तु विप्राः सह बन्धुभृत्यैरर्चन्तु नित्यं मम मण्डलं च
॥२१॥ततश्चायतनं पार्थ देवदेवस्य शूलिनः ।
मुण्डिनामेति विख्यातं सर्वपापहरं शुभम् ।
कार्त्तिक्यां तु विशेषेण गयातीर्थेन तत्समम्
॥२२॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे मुण्डितीर्थमाहात्म्यवर्णनं नामैकादशोत्तरद्विशततमोऽध्यायः ॥