स्थापितं भूमिपुत्रेण लोकानां हितकाम्यया
श्रीमार्कण्डेय उवाच
ततो गच्छेत्तु राजेन्द्र मङ्गलेश्वरमुत्तमम् ।
स्थापितं भूमिपुत्रेण लोकानां हितकाम्यया
॥१॥तोषितः परया भक्त्या शङ्करः शशिशेखरः ।
चतुर्दश्यां गुरुर्देवः प्रत्यक्षो मङ्गलेश्वरः
॥२॥ब्रूहि पुत्र वरं शुभ्रं तं ते दास्यामि मङ्गल
॥३॥मङ्गल उवाच
प्रसादं कुरु मे शम्भो प्रतिजन्मनि शङ्कर ।
त्वदङ्गस्वेदसम्भूतो ग्रहमध्ये वसाम्यहम्
॥४॥त्वत्प्रसादेन ईशान पूज्योऽहं सर्वदैवतैः ।
कृतार्थो ह्यद्य संजातस्तव दर्शनभाषणात्
॥५॥स्थानेऽस्मिन् देवदेवेश मम नाम्ना महेश्वरः ।
एवं भवतु ते पुत्रेत्युक्त्वा चान्तरधीयत
॥६॥मङ्गलोऽपि महात्मा वै स्थापयित्वा महेश्वरम् ।
आत्मयोगबलेनैव शूलिनापूजयत्ततः
॥७॥सर्वदुःखहरं लिङ्गं नाम्ना वै मङ्गलेश्वरम् ।
तत्र तीर्थे तु वै राजन्ब्राह्मणान्प्रीणयेत्सुधीः
॥८॥सपत्नीकान्नृपश्रेष्ठ चतुर्थ्यङ्गारके व्रते ।
पत्नीभर्तारसंयुक्तं विद्वांसं श्रोत्रियं द्विजम्
॥९॥व्रतान्ते चैव गौर्धुर्यैः शिवमुद्दिश्य दीयते ।
प्रीयतां मे महादेवः सपत्नीको वृषध्वजः
॥१०॥वस्त्रयुग्मं प्रदातव्यं लोहितं पाण्डुनन्दन ।
धूर्वहौ रक्तवर्णौ च शुभ्रं कृष्णं तथैव च
॥११॥छत्रं शय्यां शुभां चैव रक्तमाल्यानुलेपनम् ।
दातव्यं पाण्डवश्रेष्ठ विशुद्धेनान्तरात्मना
॥१२॥चतुर्थ्यां तु तथाष्टम्यां पक्षयोः शुक्लकृष्णयोः ।
श्राद्धं तत्रैव कर्तव्यं वित्तशाठ्येन वर्जितः
॥१३॥प्रेता भवन्ति सुप्रीता युगमेकं महीपते ।
सपुत्रो जायते मर्त्यः प्रतिजन्म नृपोत्तम
॥१४॥तस्य तीर्थस्य भावेन सर्वाङ्गरुचिरो नृप ।
मङ्गलं भवते वंशो नाशुभं विद्यते क्वचित्
॥१५॥भक्त्या यः कीर्तयेन्नित्यं तस्य पापं व्यपोहति
॥१६॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे मङ्गलेश्वरतीर्थमाहात्म्यवर्णनं नामैकोनसप्ततितमोऽध्यायः ॥