मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय १०८

3
अवन्तीखण्डः · रेवाखण्डः · 108

विख्यातं त्रिषु लोकेषु सर्वपापहरं परम्

श्रीमार्कण्डेय उवाच

ततो गच्छेन्महीपाल रोहिणीतीर्थमुत्तमम् ।

विख्यातं त्रिषु लोकेषु सर्वपापहरं परम्

॥१॥

युधिष्ठिर उवाच

रोहिणीतीर्थमाहात्म्यं सर्वपापप्रणाशनम् ।

श्रोतुमिच्छामि तत्त्वेन तन्मे त्वं वक्तुमर्हसि

॥२॥

श्रीमार्कण्डेय उवाच

तस्मिन्नेकार्णवे घोरे नष्टे स्थावरजङ्गमे ।

उदधौ च शयानस्य देवदेवस्य चक्रिणः

॥३॥

नाभौ समुत्थितं पद्मं रविमण्डलसन्निभम् ।

कर्णिकाकेसरोपेतं पत्रैश्च समलंकृतम्

॥४॥

तत्र ब्रह्मा समुत्पन्नश्चतुर्वदनपङ्कजः ।

किं करोमीति देवेश आज्ञा मे दीयतां प्रभो

॥५॥

एवमुक्तस्तु देवेशः शङ्खचक्रगदाधरः ।

उवाच मधुरां वाणीं तदा देवं पितामहम्

॥६॥

सरस्वत्यां महाबाहो लोकं कुरु ममाज्ञया ।

भूतग्राममशेषस्य उत्पादनविधिक्षयम्

॥७॥

एतच्छ्रुतं तु वचनं पद्मनाभस्य भारत ।

चिन्तयामास भगवान्सप्तर्षीन्हितकाम्यया

॥८॥

क्रमात्ते चिन्तिताः प्राज्ञाः पुलस्त्यः पुलहः क्रतुः ।

प्राचेतसो वसिष्ठश्च भृगुर्नारद एव च

॥९॥

यज्ञे प्राचेतसो दक्षो महातेजाः प्रजापतिः ।

दक्षस्यापि तथा जाताः पञ्चाशद्दुहितरोऽनघ

॥१०॥

ददौ स दश धर्माय कश्यपाय त्रयोदश ।

तथैव स महाभागः सप्तविंशतिमिन्दवे

॥११॥

रोहिणीनाम या तासां मध्ये तस्य नराधिप ।

अनिष्टा सर्वनारीणां भर्तुश्चैव विशेषतः

॥१२॥

ततः सा परमं कृत्वा वैराग्यं नृपसत्तम ।

आगत्य नर्मदातीरे चचार विपुलं तपः

॥१३॥

एकरात्रैस्त्रिरात्रैश्च षड्द्वादशभिरेव च ।

पक्षमासोपवासैश्च कर्शयन्ति कलेवरम्

॥१४॥

आराधयन्ती सततं महिषासुरनाशिनीं ।

देवीं भगवतीं तात सर्वार्तिविनिवारणीम्

॥१५॥

स्नात्वा स्नात्वा जले नित्यं नर्मदायाः शुचिस्मिता ।

ततस्तुष्टा महाभागा देवी नारायणी नृप

॥१६॥

प्रसन्ना ते महाभागे व्रतेन नियमेन च ।

एतच्छ्रुत्वा तु वचनं रोहिणी शशिनः प्रिया

॥१७॥

यथा भवामि न चिरात्तथा भवतु मानदे ।

एवमस्त्विति सा चोक्त्वा भवानी भक्तवत्सला

॥१८॥

स्तूयमाना मुनिगणैस्तत्रैवान्तरधीयत ।

तदाप्रभृति तत्तीर्थं रोहिणी शशिनः प्रिया

॥१९॥

संजाता सर्वकालं तु वल्लभा नृपसत्तम ।

तत्र तीर्थे तु या नारी नरो वा स्नानि भक्तितः

॥२०॥

वल्लभा जायते सा तु भर्तुर्वै रोहिणी यथा ।

तत्र तीर्थे तु यः कश्चित्प्राणत्यागं करोति वै

॥२१॥

सप्तजन्मानि दाम्पत्यवियोगो न भवेत्क्वचित्

॥२२॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे रोहिणीसोमनाथतीर्थमाहात्म्यवर्णनं नामाष्टोत्तरशततमोऽध्यायः ॥