मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय २०७

3
अवन्तीखण्डः · रेवाखण्डः · 207

सुवर्णबिन्दुतीर्थमाहात्म्यवर्णनम्

श्रीमार्कण्डेय उवाच

तस्याग्रे पावनं तीर्थं स्वर्णबिन्द्विति विश्रुतम् ।

यत्र स्नात्वा दिवं यान्ति मृताश्च न पुनर्भवम्

॥१॥

तत्र तीर्थे तु यः स्नात्वा दत्ते विप्राय काञ्चनम् ।

तेन यत्तु फलं प्रोक्तं तच्छृणुष्व महीपते

॥२॥

सर्वेषामेव रत्नानां काञ्चनं रत्नमुत्तमम् ।

अग्नितेजःसमुद्भूतं तेन तत्परमं भुवि

॥३॥

तेनैव दत्ता पृथिवी सशैलवनकानना ।

सपत्तनपुरा सर्वा काञ्चनं यः प्रयच्छति

॥४॥

मानसं वाचिकं पापं कर्मणा यत्पुरा कृतम् ।

तत्सर्वं नश्यति क्षिप्रं स्वर्णदानेन भारत

॥५॥

स्वर्णदानं तु यो दत्त्वा ह्यपि वालाग्रमात्रकम् ।

तत्र तीर्थे मृतो याति दिवं नास्त्यत्र संशयः

॥६॥

तत्र विद्याधरैः सिद्धैर्विमानवरमास्थितः ।

पूज्यमानो वसेत्तावद्यावदाभूतसम्प्लवम्

॥७॥

पूर्णे तत्र ततः काले प्राप्य मानुष्यमुत्तमम् ।

सुवर्णकोटिसहिते गृहे वै जायते द्विजः

॥८॥

सर्वव्याधिविनिर्मुक्तः सर्वलोकेषु पूजितः ।

जीवेद्वर्षशतं साग्रं राजसं सत्सु विश्रुतः

॥९॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे सुवर्णबिन्दुतीर्थमाहात्म्यवर्णनं नाम सप्ताधिकद्विशततमोऽध्यायः ॥