मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय २३२

3
अवन्तीखण्डः · रेवाखण्डः · 232

रेवाखण्डसमाप्तिरेवाखण्डपुस्तकदानादिमाहात्म्यवर्णनम्

सूत उवाच

इति वः कथितं विप्रा रेवामाहात्म्यमुत्तमम् ।

यथोपदिष्टं पार्थाय मार्कण्डेयेन वै पुरा

॥१॥

तथा तीर्थकदम्बाश्च तेषु तीर्थविशेषतः ।

प्राधान्येन मया ख्याता यथासङ्ख्यं यथाक्रमम्

॥२॥

एतत्पवित्रमतुलं ह्येतत्पापहरं परम् ।

नर्मदाचरितं पुण्यं माहात्म्यं मुनिभाषितम्

॥३॥

सप्तकल्पानुगो विप्रो नर्मदायां मुनीश्वराः ।

मृकण्डतनयो धीमान्परमार्थविदुत्तमः

॥४॥

संसेव्य सर्वतीर्थानि नदीः सर्वाश्च वै पुरा ।

बहुकल्पस्मरां रेवामालक्ष्य शिवदेहजाम्

॥५॥

मे कलेति च शर्वोक्तां शरणं शर्वजां ययौ ।

अजराममरां देवीं दैत्यध्वंसकरीं पराम्

॥६॥

महाविभवसंयुक्तां भवघ्नीं भवजाह्नवीम् ।

तस्यामाबध्य सत्प्रेम जातः सोऽप्यजरामरः

॥७॥

षष्टितीर्थसहस्राणि षष्टिकोट्यश्च सत्तमाः ।

व्यवस्थितानि रेवायास्तीरयुग्मे पदे पदे

॥८॥

सारितः परितः सन्ति सतीर्थास्तु सहस्रशः ।

न तुलां यान्ति रेवायास्ताश्च मन्ये मुनीश्वराः

॥९॥

एतद्वः कथितं सर्वं यत्पृष्टमखिलं द्विजाः ।

यन्महेशमुखाच्छ्रुत्वा वायुराह ऋषीन्प्रति

॥१०॥

तद्वन्मृकण्डतनयोऽप्यनुभूयाखिलां नदीम् ।

सतीर्थां पदशः प्राह पाण्डुपुत्राय पावनीम्

॥११॥

एतच्च कथितं सर्वं संक्षेपेण द्विजोत्तमाः ।

नर्मदाचरितं पुण्यं त्रिषु लोकेषु दुर्लभम्

॥१२॥

किमन्यैः सरितां तोयैः सेवितैस्तु सहस्रशः ।

यदि संसेव्यते तोयं रेवायाः पापनाशनम्

॥१३॥

मेकलाजलसंसेवी मुक्तिमाप्नोति शाश्वतीम्

॥१४॥

यथा यथा भजेन्मर्त्यो यद्यदिच्छति तीर्थगः ।

तत्तदाप्नोति नियतं श्रद्धयाश्रद्धयापि च

॥१५॥

इदं ब्रह्मा हरिरिदमिदं साक्षात्परो हरः ।

इदं ब्रह्म निराकारं कैवल्यं नर्मदाजलम्

॥१६॥

तावद्गर्जन्ति तीर्थानि नद्यो हृदयफलप्रदाः ।

यावन्न स्मर्यते रेवा सेवाहेवा कलौ नरैः

॥१७॥

ध्रुवं लोके हितार्थाय शिवेन स्वशरीरतः ।

शक्तिः कापि सरिद्रूपा रेवेयमवतारिता

॥१८॥

तावद्गर्जन्ति यज्ञाश्च वनक्षेत्रादयो भृशम् ।

यावन्न नर्मदानामकीर्तनं क्रियते कलौ

॥१९॥

गरिमा गाण्यते तावत्तपोदानव्रतादिषु ।

नरैर्वा प्राप्यते यावद्भुवि भर्गभवा धुनी

॥२०॥

ये वसन्त्युत्तरे कूले रुद्रस्यानुचरा हि ते ।

वसन्ति याम्यतीरे ये लोकं ते यान्ति वैष्णवम्

॥२१॥

धन्यास्ते देशवर्यास्ते येषु देशेषु नर्मदा ।

नरकान्तकरी शश्वत्संश्रिता शर्वनिर्मिता

॥२२॥

कृतपुण्याश्च ते लोकाः शोकाय न भवन्ति ते ।

ये पिबन्ति जलं पुण्यं पार्वतीपतिसिन्धुजम्

॥२३॥

इदं पवित्रमतुलं रेवायाश्चरितं द्विजाः ।

शृणोति यः कीर्तयते मुच्यते सर्वपातकः

॥२४॥

यत्फलं सर्ववेदैश्च सषडङ्गपदक्रमैः ।

श्रुतैश्च पठितैस्तस्मात्फलमष्टगुणं भवेत्

॥२५॥

सत्रयाजी फलं यच्च लभते द्वादशाब्दिकम् ।

श्रुत्वा सकृच्च रेवायाश्चरितं तत्फलं लभेत्

॥२६॥

सर्वतीर्थावगाहाच्च यत्फलं सागरादिषु ।

सकृच्छ्रुत्वा च माहात्म्यं रेवायास्तत्फलं लभेत्

॥२७॥

एतद्धर्म्यमुपाख्यानं सर्वशास्त्रेष्वनुत्तमम् ।

देशे वा मण्डले वापि नगरे ग्राममध्यतः

॥२८॥

गृहे वा तिष्ठते यस्य लिखितं सार्ववार्णिकम् ।

स ब्रह्मा स शिवः साक्षात्स च देवो जनार्दनः

॥२९॥

धर्मार्थकाममोक्षाणां मार्गेऽयं देवसेवितः ।

गुरूणां च गुरुः शास्त्रं परमं सिद्धिकारणम्

॥३०॥

यश्चेदं शृणुयान्नित्यं पुराणं देवभाषितम् ।

ब्राह्मणो वेदवान्भूयात्क्षत्रियो विजयी भवेत्

॥३१॥

धनाढ्यो जायते वैश्यः शूद्रो वै धर्मभाग्भवेत्

॥३२॥

सौभाग्यसन्ततिं नारी श्रुत्वैतत्समवाप्नुयात् ।

श्रियं सौख्यं स्वर्गवासं जन्म चैवोत्तमे कुले

॥३३॥

रसभेदी कृतघ्नश्च स्वामिध्रुङ्मित्रवञ्चकः ।

गोघ्नश्च गरदश्चैव कन्याविक्रयकारकः

॥३४॥

ब्रह्मघ्नश्च सुरापी च स्तेयी च गुरुतल्पगः ।

नर्मदाचरितं शृण्वंस्तामब्दं योऽभिषेवते

॥३५॥

सर्वपापविनिर्मुक्तो जायते नात्र संशयः ।

पाकभेदी वृथापाकी देवब्राह्मणनिन्दकः

॥३६॥

परीवादी गुरोः पित्रोः साधूनां नृपतेस्तथा ।

तेऽपि श्रुत्वा च पापेभ्यो मुच्यन्ते नात्र संशयः

॥३७॥

ये पुनर्भावितात्मानः शस्त्रं शृण्वन्ति नित्यशः ।

पूजयन्ति च तच्छास्त्रं नार्मदं वस्त्रभूषणैः

॥३८॥

पुष्पैः फलैश्चन्दनाद्यैर्भोजनैर्विविधैरपि ।

शास्त्रेऽस्मिन्पूजिते देवाः पूजिता गुरवस्तथा

॥३९॥

इह लोके परे चैव नात्र कार्या विचारणा ।

तस्मात्सर्वप्रयत्नेन गन्धवस्त्रादिभूषणैः

॥४०॥

पूजयेत्परया भक्त्या वाचकं शास्त्रमेव च ।

वेदपाठैश्च यत्पुण्यमग्निहोत्रैश्च पालितैः

॥४१॥

तत्फलं समवाप्नोति नर्मदाचरिते शुभे ।

कुरुक्षेत्रे च यत्पुण्यं प्रभासे पुष्करे तथा

॥४२॥

रुद्रावर्ते गयायां च वाराणस्यां विशेषतः ।

गङ्गाद्वारे प्रयागे च गङ्गासागरसङ्गमे

॥४३॥

एवमादिषु तीर्थेषु यत्पुण्यं जायते नृणाम् ।

नर्मदाचरितं श्रुत्वा तत्पुण्यं सकलं लभेत्

॥४४॥

आदिमध्यावसानेषु नर्मदाचरितं शुभम् ।

यः शृणोति नरो भक्त्या शृणुध्वं तत्फलं महत्

॥४५॥

समाप्य शिवसंस्थानं देवकन्यासमावृतः ।

रुद्रस्यानुचरो भूत्वा शिवेन सह मोदते

॥४६॥

धर्माख्यानमिदं पुण्यं सर्वाख्यानेष्वनुत्तमम् ।

गृहेऽपि पठ्यते यस्य चतुर्वर्णस्य सत्तमाः

॥४७॥

धन्यं तस्य गृहं मन्ये गृहस्थं चापि तत्कुलम् ।

पुस्तकं पूजयेद्यस्तु नर्मदाचरितस्य तु

॥४८॥

नर्मदा पूजिता तेन भगवांश्च महेश्वरः ।

वाचके पूजिते तद्वद्देवाश्च ऋषयोऽर्चिताः

॥४९॥

लेखयित्वा च सकलं रेवाचरितमुत्तमम् ।

भूषणं सर्वशास्त्राणां यो ददाति द्विजन्मने

॥५०॥

नर्मदासर्वतीर्थेषु स्नानदानेन यत्फलम् ।

तत्फलं समवाप्नोति स नरो नात्र संशयः

॥५१॥

एतत्पुराणं रुद्रोक्तं महापुण्यफलप्रदम् ।

स्वर्गदं पुत्रदं धन्यं यशस्यं कीर्त्तिवर्धनम्

॥५२॥

धर्म्यमायुष्यमतुलं दुःखदुःस्वप्ननाशनम् ।

पठतां शृण्वतां चापि सर्वकामार्थसिद्धिदम्

॥५३॥

यत्प्रदत्तमिदं पुण्यं पुराणं वाच्यते द्विजैः ।

शिवलोके स्थितिस्तस्य पुराणाक्षरवत्सरी

॥५४॥

इति निगदितमेतन्नर्मदायाश्चरित्रं पवनगदितमग्र्यं शर्ववक्त्रादवाप्य ।

त्रिभुवनजनवन्द्यं त्वेतदादौ मुनीनां कुलपतिपुरतस्तत्सूतमुख्येन साधु

॥५५॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे रेवाखण्डसमाप्तिरेवाखण्डपुस्तकदानादिमाहात्म्यवर्णनं नाम द्वात्रिंशदधिकद्विशततमोऽध्यायः ॥