स्थापितं कपिलेनैव सर्वपातकनाशनम्
श्रीमार्कण्डेय उवाच
तस्यैवानन्तरं पार्थ कापिलं तीर्थमाश्रयेत् ।
स्थापितं कपिलेनैव सर्वपातकनाशनम्
॥१॥अष्टम्यां च सिते पक्षे चतुर्दश्यां नरेश्वर ।
स्नापयेत्परया भक्त्या कपिलाक्षीरसर्पिषा
॥२॥श्रीखण्डेन सुगन्धेन गुण्ठयेत महेश्वरम् ।
ततः सुगन्धपुष्पैश्च श्वेतैश्च नृपसत्तम
॥३॥येऽर्चयन्ति जितक्रोधा न ते यान्ति यमालयम् ।
असिपत्त्रवनं घोरं यमचुल्ही सुदारुणा
॥४॥दृश्यते नैव विद्वद्भिः कपिलेश्वरपूजनात् ।
स्नात्वा रेवाजले पुण्ये भोजयेद्ब्राह्मणाञ्छुभान्
॥५॥गोप्रदानेन वस्त्रेण तिलदानेन भारत ।
छत्रशय्याप्रदानेन राजा भवति धार्मिकः
॥६॥तीव्रतेजा विघोरश्च जीवत्पुत्रः प्रियंवदः ।
शत्रुवर्गो न तस्य स्यात्कदाचित्पाण्डुनन्दन
॥७॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे कपिलेश्वरतीर्थमाहात्म्यवर्णनं नामाष्टाशीतितमोऽध्यायः ॥