यत्र सोमस्तपस्तप्त्वा नक्षत्रपथमास्थितः
श्रीमार्कण्डेय उवाच
ततो गच्छेन्महाराज सोमतीर्थमनुत्तमम् ।
यत्र सोमस्तपस्तप्त्वा नक्षत्रपथमास्थितः
॥१॥तत्र तीर्थे तु यः स्नायादाचम्य विधिपूर्वकम् ।
कृतजाप्यो रविं ध्यायेत्तस्य पुण्यफलं शृणु
॥२॥ऋग्वेदयजुर्वेदाभ्यां सामवेदेन भारत ।
जपतो यत्फलं प्रोक्तं गायत्र्या चात्र तत्फलम्
॥३॥तत्र तीर्थे तु यो भक्त्या ब्राह्मणान् भोजयेच्छुचिः ।
तेन सम्यग्विधानेन कोटिर्भवति भोजिता
॥४॥पादुकोपानहौ छत्रं वस्त्रकम्बलवाजिनः ।
यो दत्ते विप्रमुख्याय तस्य तत्कोटिसंमितम्
॥५॥सहस्रं तु सहस्राणामनृचां यस्तु भोजयेत् ।
एकस्य मन्त्रयुक्तस्य कलां नार्हति षोडशीम्
॥६॥एवं तु भोजयेत्तत्र बह्वृचं वेदपारगम् ।
शाखान्तर्गमथाध्वर्युं छन्दोगं वा समाप्तिगम्
॥७॥अग्निहोत्रसहस्रस्य यत्फलं प्राप्यते बुधैः ।
समं तद्वेदविदुषा तीर्थे सोमस्य तत्फलम्
॥८॥भोजयेद्यः शतं तेषां सहस्रं लभते नरः ।
एकस्य योगयुक्तस्य तत्फलं कवयो विदुः
॥९॥संनिरुध्येन्द्रियग्रामं यत्रयत्र वसेन्मुनिः ।
तत्रतत्र कुरुक्षेत्रं नैमिषं पुष्कराणि च
॥१०॥तस्मात्सर्वप्रयत्नेन ग्रहणे चन्द्रसूर्ययोः ।
संक्रान्तौ च व्यतीपाते योगी भोज्यो विशेषतः
॥११॥संन्यासं कुरुते यस्तु तत्र तीर्थे युधिष्ठिर ।
विमानेन महाभागाः स याति त्रिदिवं नरः
॥१२॥सोमस्यानुचरो भूत्वा तेनैव सह मोदते
॥१३॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे सोमतीर्थमाहात्म्यवर्णनं नामैकोनचत्वारिंशदधिकशततमोऽध्यायः ॥