यत्र सिद्धो महायक्षः कुण्डधारो नृपोत्तम
श्रीमार्कण्डेय उवाच
ततो गच्छेच्च राजेन्द्र कुण्डलेश्वरमुत्तमम् ।
यत्र सिद्धो महायक्षः कुण्डधारो नृपोत्तम
॥१॥तपः कृत्वा सुविपुलं सुरासुरभयंकरम् ।
पौलस्त्यमन्दिरे चैव चिक्रीड नृपसत्तम
॥२॥युधिष्ठिर उवाच
कस्मिन्युगे समुत्पन्नः कस्य पुत्रो महामतिः ।
तपस्तप्त्वा सुविपुलं तोषितो येन शङ्करः
॥३॥एतद्विस्तरतस्तात कथयस्व ममानघ ।
शृण्वतश्च न तृप्तिर्मे कथामृतमनुत्तमम्
॥४॥श्रीमार्कण्डेय उवाच
त्रेतायुगे ब्रह्मसमः पौलस्त्योनाम विश्रवाः ।
तपः कृत्वा सुविपुलं भरद्वाजसुतोद्भवः
॥५॥पुत्रं पौत्रगणैर्युक्तं पत्न्या भक्त्या सुतोषितः ।
धनदं जनयामास सर्वलक्षणलक्षितम्
॥६॥जातमात्रं तु तं ज्ञात्वा ब्रह्मा लोकपितामहः ।
चकार नाम सुप्रीत ऋषिदेवसमन्वितः
॥७॥यस्माद्विश्रवसो जातो मम पौत्रत्वमागतः ।
तस्माद्वैश्रवणो नाम तव दत्तं मयानघ
॥८॥तथा त्वं सर्वदेवानां धनगोप्ता भविष्यसि ।
चतुर्थो लोकपालानामक्षयश्चाव्ययो भुवि
॥९॥तस्य भार्या महाराज ईश्वरीति च विश्रुता ।
यक्षो यक्षाधिपः श्रेष्ठस्तस्य कुण्डोऽभवत्सुतः
॥१०॥स च रूपं परं प्राप्य मातापित्रोरनुज्ञया ।
तपश्चचार विपुलं नर्मदातटमाश्रितः
॥११॥ग्रीष्मे पञ्चाग्निसंतप्तो वर्षासु स्थण्डिलेशयः ।
हेमन्ते जलमध्यस्थो वायुभक्षः शतं समाः
॥१२॥एवं वर्षशते पूर्णे एकाङ्गुष्ठेऽभवन्नृप ।
अस्थिभूतः परं तात ऊर्ध्वबाहुस्ततः परम्
॥१३॥अतपच्च घृतश्वासः कुण्डलो भरतर्षभ ।
चतुर्थे वर्षशतके तुतोष वृषवाहनः
॥१४॥वरं वृणीष्व भो वत्स यत्ते मनसि रोचते ।
ददामि ते न सन्देहस्तपसा तोषितो ह्यहम्
॥१५॥कुण्डल उवाच
यक्षाधिपप्रसादेन तस्यैवानुचरः पुरे ।
विचरामि यथाकाममवध्यः सर्वशत्रुषु
॥१६॥तथेत्युक्त्वा महादेवः सर्वलोकनमस्कृतः ।
जगामाकाशमाविश्य कैलासं धरणीधरम्
॥१७॥गते चादर्शनं देवे सोऽपि यक्षो मुदान्वितः ।
स्थापयामास देवेशं कुण्डलेश्वरमुत्तमम्
॥१८॥अलंकृत्वा जगन्नाथं पुष्पधूपानुलेपनैः ।
विमानैश्चामरैश्छत्रैस्तथा वै लिङ्गपूरणैः
॥१९॥तर्पयित्वा द्विजान्सम्यगन्नपानादिभूषणैः ।
प्रीणयित्वा महादेवं ततः स्वभवनं ययौ
॥२०॥तदाप्रभृति तत्तीर्थं त्रिषु लोकेषु विश्रुतम् ।
उत्तमं परमं पुण्यं कुण्डलेश्वरनामतः
॥२१॥तत्र तीर्थे तु यः कश्चिदुपवासपरायणः ।
अर्चयेद्देवमीशानं सर्वपापैः प्रमुच्यते
॥२२॥सुवर्णं रजतं वापि मणिं मौक्तिकमेव च ।
दद्याद्भोज्यं ब्राह्मणेभ्यः स सुखी मोदते दिवि
॥२३॥तत्र तीर्थे तु यः स्नात्वा ऋग्यजुःसामगोऽपि वा ।
ऋचमेकां जपित्वा तु सकलं फलमश्नुते
॥२४॥गां प्रयच्छति विप्रेभ्यस्तत्फलं शृणु पाण्डव ।
यावन्ति तस्या रोमाणि तत्प्रसूतिकुलेषु च
॥२५॥तावद्वर्षसहस्राणि स्वर्गलोके महीयते ।
स्वर्गे वासो भवेत्तस्य पुत्रपौत्रैः समन्वितः
॥२६॥तावन्ति वर्षाणि महानुभावः स्वर्गे वसेत्पुत्रपौत्रैश्च सार्द्धम् ।
तत्रान्नदो याति महेशलोकमसंख्यवर्षाणि न संशयोऽत्र
॥२७॥स वै सुखी मोदते स्वर्गलोके गन्धर्वसिद्धाप्सरःसम्प्रगीते ।
एवं तु ते धर्मसुत प्रभावस्तीर्थस्य सर्वः कथितश्च पार्थ
॥२८॥श्रुत्वा स्तुवन्मुच्यते सर्वपापैः पुनस्त्रिलोकीमिह तत्प्रभावात्
॥२९॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये कुण्डलेश्वरतीर्थमाहात्म्यवर्णनं नामैकचत्वारिंशोऽध्यायः ॥