मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय ८२

3
अवन्तीखण्डः · रेवाखण्डः · 82

दधिस्कन्दादिपञ्चतीर्थमाहात्म्यवर्णनम्

श्रीमार्कण्डेय उवाच

ततो गच्छेन्महीपाल वह्नितीर्थमनुत्तमम् ।

यत्र सिद्धो महातेजास्तपः कृत्वा हुताशनः

॥१॥

सर्वभक्ष्यः कृतो योऽसौ दण्डके मुनिना पुरा ।

नर्मदातटमाश्रित्य पूतो जातो हुताशनः

॥२॥

तत्र तीर्थे तु यः स्नात्वा पूजयित्वा महेश्वरम् ।

अग्निप्रवेशं कुरुते स गच्छेदग्निसाम्यताम्

॥३॥

भक्त्या स्नात्वा तु यस्तत्र तर्पयेत्पितृदेवताः ।

अग्निष्टोमस्य यज्ञस्य फलमाप्नोत्यसंशयम्

॥४॥

तस्यैवानन्तरं राजन्कौबेरं तीर्थमुत्तमम् ।

कुबेरो यत्र संसिद्धो यक्षाणामधिपः पुरा

॥५॥

तत्र तीर्थे नरः स्नात्वा समभ्यर्च्य जगद्गुरुम् ।

उमया सहितं भक्त्या सर्वपापैः प्रमुच्यते

॥६॥

तत्र तीर्थे तु यः स्नात्वा दद्याद्विप्राय कांचनम् ।

नाभिमात्रे जले तिष्ठन्स लभेतार्बुदं फलम्

॥७॥

दधिस्कन्दे मधुस्कन्दे नन्दीशे वरुणालये ।

आग्नेये यत्फलं तात स्नात्वा तत्फलमाप्नुयात्

॥८॥

ते वन्द्या मानुषे लोके धन्याः पूर्णमनोरथाः ।

यैस्तु दृष्टं महापुण्यं नर्मदातीर्थपञ्चकम्

॥९॥

ते यान्ति भास्करे लोके परमे दुःखनाशने ।

भास्करादैश्वरे लोके चैश्वरादनिवर्तके

॥१०॥

नीयते स परे लोके यावदिन्द्राश्चतुर्दश ।

ततः स्वर्गाच्च्युतो मर्त्यो राजा भवति धार्मिकः

॥११॥

सर्वरोगविनिर्मुक्तो भुनक्ति सचराचरम् ।

विष्णुश्च देवता येषां नर्मदातीर्थसेविनाम्

॥१२॥

अखण्डितप्रतापास्ते जायन्ते नात्र संशयः ।

गङ्गा कनखले पुण्या कुरुक्षेत्रे सरस्वती

॥१३॥

ग्रामे वा यदि वारण्ये पुण्या सर्वत्र नर्मदा ।

रेवातीरे वसेन्नित्यं रेवातोयं सदा पिबेत्

॥१४॥

स स्नातः सर्वतीर्थेषु सोमपानं दिने दिने ।

गङ्गाद्याः सरितः सर्वाः समुद्राश्च सरांसि च ।

कल्पान्ते संक्षयं यान्ति न मृता तेन नर्मदा

॥१५॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे दधिस्कन्दादिपञ्चतीर्थमाहात्म्यवर्णनं नाम द्व्यशीतितमोऽध्यायः ॥