रुक्मिणीतीर्थमाहात्म्यवर्णनम्
श्रीमार्कण्डेय उवाच
ततो गच्छेन्महाराज रुक्मिणीतीर्थमुत्तमम् ।
यत्रैव स्नानमात्रेण रूपवान्सुभगो भवेत्
॥१॥अष्टम्यां च चतुर्दश्यां तृतीयायां विशेषतः ।
स्नानं समाचरेत्तत्र न चेह जायते पुनः
॥२॥यः स्नात्वा रुक्मिणीतीर्थे दानं दद्यात्तु कांचनम् ।
तत्तीर्थस्य प्रभावेन शोकं नाप्नोति मानवः
॥३॥युधिष्ठिर उवाच
तीर्थस्यास्य कथं जातो महिमेदृङ्मुनीश्वर ।
रूपसौभाग्यदं येन तीर्थमेतद्ब्रवीहि मे
॥४॥मार्कण्डेय उवाच
कथयामि यथावृत्तमितिहासं पुरातनम् ।
कथितं पूर्वतो वृद्धैः पारम्पर्येण भारत
॥५॥तं तेऽहं सम्प्रवक्ष्यामि शृणुष्वैकाग्रमानसः ।
नगरं कुण्डिनं नाम भीष्मकः परिपाति हि
॥६॥हस्त्यश्वरथसम्पन्नो धनाढ्योऽति प्रतापवान् ।
स्त्रीसहस्रस्य मध्यस्थः कुरुते राज्यमुत्तमम्
॥७॥तस्य भार्या महादेवी प्राणेभ्योऽपि गरीयसी ।
तस्यामुत्पादयामास पुत्रमेकं च रुक्मकम्
॥८॥द्वितीया तनया जज्ञे रुक्मिणी नाम नामतः ।
तदाशरीरिणी वाचा राजानं तमुवाच ह
॥९॥चतुर्भुजाय दातव्या कन्येयं भुवि भीष्मक ।
एवं तद्वचनं श्रुत्वा जहर्ष प्रियया सह
॥१०॥ब्राह्मणैः सह विद्वद्भिः प्रविष्टः सूतिकागृहम् ।
स्वस्तिकं वाचयित्वास्याश्चक्रे नामेति रुक्मिणी
॥११॥यतः सुवर्णतिलको जन्मना सह भारत ।
ततः सा रुक्मिणीनाम ब्राह्मणैः कीर्तिता तदा
॥१२॥ततः सा कालपर्यायादष्टवर्षा व्यजायत ।
पूर्वोक्तं चैव तद्वाक्यमशरीरिण्युदीरितम्
॥१३॥स्मृत्वा स्मृत्वाथ नृपतिश्चिन्तयामास भूपतिः ।
कस्मै देया मया बाला भविता कश्चतुर्भुजः
॥१४॥एतस्मिन्नन्तरे तावद्रैवतात्पर्वतोत्तमात् ।
मुख्यश्चेदिपतिस्तत्र दमघोषः समागतः
॥१५॥प्रविष्टो राजसदनं यत्र राजा स भीष्मकः ।
तं दृष्ट्वा चागतं गेहे पूजयामास भूपतिः
॥१६॥आसनं विपुलं दत्त्वा सभां गत्वा निवेशितः ।
कुशलं तव राजेन्द्र दमघोष श्रियायुत
॥१७॥पुण्याहमद्य संजातमहं त्वद्दर्शनोत्सुकः ।
कन्या मदीया राजेन्द्र ह्यष्टवर्षा व्यजायत
॥१८॥चतुर्भुजाय दातव्या वागुवाचाशरीरिणी ।
भीष्मकस्य वचः श्रुत्वा दमघोषोऽब्रवीदिदम्
॥१९॥चतुर्भुजो मम सुतस्त्रिषु लोकेषु विश्रुतः ।
तस्येयं दीयतां कन्या शिशुपालस्य भीष्मक
॥२०॥तस्य तद्वचनं श्रुत्वा दमघोषस्य भूमिप ।
भीष्मकेन ततो दत्ता शिशुपालाय रुक्मिणी
॥२१॥प्रारब्धं मङ्गलं तत्र भीष्मकेण युधिष्ठिर ।
दिक्षु देशान्तरेष्वेव ये वसन्ति स्वगोत्रजाः
॥२२॥निमन्त्रितास्तु ते सर्वे समाजग्मुर्यथाक्रमम् ।
ततो यादववंशस्य तिलकौ बलकेशवौ
॥२३॥निमन्त्रितौ समायातौ कुण्डिनं भीष्मकस्य तु ।
भीष्मकेण यथान्यायं पूजितौ तौ यदूत्तमौ
॥२४॥ततः प्रदोषसमये रुक्मिणी काममोहिनी ।
सखीभिः सहिता याता पूर्बहिश्चाम्बिकार्चने
॥२५॥सापश्यत्तत्र देवेशं गोपवेषधरं हरिम् ।
तं दृष्ट्वा मोहमापन्ना कामेन कलुषीकृता
॥२६॥केशवोऽपि च तां दृष्ट्वा संकर्षणमुवाच ह ।
स्त्रीरत्नप्रवरं तात हर्तव्यमिति मे मतिः
॥२७॥केशवस्य वचः श्रुत्वा संकर्षण उवाच ह ।
गच्छ कृष्ण महाबाहो स्त्रीरत्नं चाशु गृह्यताम्
॥२८॥अहं च तव मार्गेण ह्यागमिष्यामि पृष्ठतः ।
दानवानां च सर्वेषां कुर्वंश्च कदनं महत्
॥२९॥संकर्षणमतं प्राप्य केशवः केशिसूदनः ।
ययौ कन्यां गृहीत्वा तु रथमारोप्य सत्वरम्
॥३०॥निर्गतः सहसा राजन्वेगेनैवानिलो यथा ।
हाहाकारस्तदा जातो भीष्मकस्य पुरे महान्
॥३१॥निर्गता दानवाः क्रुद्धा वेला इव महोदधेः ।
गर्जन्तः सायुधाः सर्वे धावन्तो रथवर्त्मनि
॥३२॥बलदेवं ततः प्राप्ता रथमार्गानुगामिनम् ।
तेषां युद्धं बलस्यासीत्सर्वलोकक्षयंकरम्
॥३३॥यथा तारामये पूर्वं सङ्ग्रामे लोकविश्रुते ।
गदाहस्तो महाबाहुस्त्रैलोक्येऽप्रतिमो बलः
॥३४॥हलेनाकृष्य सहसा गदापातैरपातयत् ।
अशक्यो दानवैर्हन्तुं बलभद्रो महाबलः
॥३५॥बभञ्ज दानवान्सर्वांस्तस्थौ गिरिरिवाचलः ।
तं दृष्ट्वा च बलं क्रुद्धं दुर्धर्षं त्रिदशैरपि
॥३६॥भीष्मपुत्रो महातेजा रुक्मीनां महयशाः ।
नराणामतिशूराणामक्षौहिण्या समन्वितः
॥३७॥बलभद्रमतिक्रम्य ततो युद्धे निराकरोत् ।
तद्युद्धं वञ्चयित्वा तु रथमार्गेण सत्वरम्
॥३८॥केशवोऽपि तदा देवो रुक्मिण्या सहितो ययौ ।
विन्ध्यं तु लङ्घयित्वाग्रे त्रैलोक्यगुरुरव्ययः
॥३९॥नर्मदातटमापेदे यत्र सिद्धः पुरा पुनः ।
अजेयो येन संजातस्तीर्थस्यास्य प्रभावतः
॥४०॥एतस्मात्कारणात्तात योधनीपुरमुच्यते ।
रुक्मोऽपि दानवेन्द्रोऽसौ प्राप्तः
॥४१॥प्रत्युवाचाच्युतं क्रुद्धस्तिष्ठ तिष्ठेति मा व्रज ।
अद्य त्वां निशितैर्बाणैर्नेष्यामि यमसादनम्
॥४२॥एवं परस्परं वीरौ जगर्जतुरुभावपि ।
तयोर्युद्धमभूद्घोरं तारकाग्निजसन्निभम्
॥४३॥चिक्षेप शरजालानि केशवं प्रति दानवः ।
नानुचिन्त्य शरांस्तस्य केशवः केशिसूदनः
॥४४॥ततो विष्णुः स्वयं क्रुद्धश्चक्रं गृह्य सुदर्शनम् ।
सम्प्रहरत्यमुं यावद्रुक्मिण्यात्र निवारितः
॥४५॥त्वां न जानाति देवेशं चतुर्बाहुं जनार्दनम् ।
दर्शयस्व स्वकं रूपं दयां कृत्वा ममोपरि
॥४६॥एवमुक्तस्तु रुक्मिण्या दर्शयामास भारत ।
देवा दृष्ट्वापि तद्रूपं स्तुवन्त्याकाशसंस्थिताः ।
दिव्यं चक्षुस्तदा देवो ददौ रुक्मस्य भारत
॥४७॥रुक्म उवाच
यन्मया पापनिष्ठेन मन्दभाग्येन केशव ।
सायकैराहतं वक्षस्तत्सर्वं क्षन्तुमर्हसि
॥४८॥पूर्वं दत्ता स्वयं देव जानकी जनकेन वै ।
मया प्रदत्ता देवेश रुक्मिणी तव केशव
॥४९॥उद्वाहय यथान्यायं विधिदृष्टेन कर्मणा ।
रुक्मस्य वचनं श्रुत्वा ततस्तुष्टो जगद्गुरुः
॥५०॥बभाषे देवदेवेशो रुक्मिणं भीष्मकात्मजम् ।
गच्छ स्वकं पुरं मा भैः कुरु राज्यमकण्टकम्
॥५१॥केशवस्य वचः श्रुत्वा रुक्मो दानवपुंगवः ।
तं प्रणम्य जगन्नाथं जगाम भवनं पितुः
॥५२॥गते रुक्मे तदा कृष्णः समामन्त्र्य द्विजोत्तमान् ।
मरीचिमत्र्यङ्गिरसं पुलस्त्यं पुलहं क्रतुम्
॥५३॥वसिष्ठं च महाभागमित्येते सप्त मानसाः ।
इत्येते ब्राह्मणाः सप्त पुराणे निश्चयं गताः
॥५४॥क्षमावन्तः प्रजावन्तो महर्षिभिरलंकृताः ।
इत्येवं ब्रह्मपुत्राश्च सत्यवन्तो महामते
॥५५॥नर्मदातटमाश्रित्य निवसन्ति जितेन्द्रियाः ।
तपःस्वाध्यायनिरता जपहोमपरायणाः
॥५६॥निमन्त्रितास्तु राजेन्द्र केशवेन महात्मना ।
श्राद्धं कृत्वा यथान्यायं ब्रह्मोक्तविधिना ततः
॥५७॥हरिस्तान्पूजयामास सप्तब्रह्मर्षिपुंगवान् ।
प्रददौ द्वादश ग्रामांस्तेभ्यस्तत्र जनार्दनः
॥५८॥यावच्चन्द्रश्च सूर्यश्च यावत्तिष्ठति मेदिनी ।
तावद्दानं मया दत्तं परिपन्थी न कश्चन
॥५९॥मद्दत्तं पालयिष्यन्ते ये नृपा गतकल्मषाः ।
तेभ्यः स्वस्ति करिष्यामि दास्यामि परमां गतिम्
॥६०॥यावद्धि यान्ति लोकेषु महाभूतानि पञ्च च ।
तावत्ते दिवि मोदन्ते मद्दत्तपरिपालकाः
॥६१॥यस्तु लोपयते मूढो दत्तं वः पृथिवीतले ।
नरके तस्य वासः स्याद्यावदाभूतसम्प्लवम्
॥६२॥स्वदत्ता परदत्ता वा पालनीया वसुंधरा ।
यस्य यस्य यदा भूमिस्तस्य तस्य तदा फलम्
॥६३॥स्वदत्तां परदत्तां वा यो हरेत वसुंधराम् ।
स विष्ठायां कृमिर्भूत्वा पितृभिः सह मज्जति
॥६४॥अन्यायेन हृता भूमिरन्यायेन च हारिता ।
हर्ता हारयिता चैव विष्ठायां जायते कृमिः
॥६५॥षष्टिवर्षसहस्राणि स्वर्गे तिष्ठति भूमिदः ।
आच्छेत्ता चानुमन्ता च तान्येव नरके वसेत्
॥६६॥यानीह दत्तानि पुरा नरेन्द्रैर्दानानि धर्मार्थयशस्कराणि ।
निर्माल्यरूपप्रतिमानि तानि को नाम साधुः पुनराददाति
॥६७॥एवं तान्पूजयित्वा तु सम्यङ्न्यायेन पाण्डव ।
रुक्मिण्या विधिवत्पाणिं जग्राह मधुसूदनः
॥६८॥मुशली च ततः सर्वाञ्जित्वा दानवपुंगवान् ।
स्वस्थानमगमत्तत्र कृत्वा कार्यं सुशोभनम्
॥६९॥प्रयातौ द्वारवत्यां तौ कृष्णसंकर्षणावुभौ ।
गच्छमानं तु तं दृष्ट्वा केशवं क्लेशनाशनम्
॥७०॥ब्राह्मणाः सत्यवन्तश्च निर्गताः शंसितव्रताः ।
आगच्छमानांस्तौ वीक्ष्य रथमार्गेण ब्राह्मणान्
॥७१॥मुहूर्तं तत्र विश्रम्य केशवो वाक्यमब्रवीत् ।
किमागमनकार्यं वो ब्रूत सर्वं द्विजोत्तमाः
॥७२॥कुर्वाणाः स्वीयकर्माणि मम कृत्यं तु तिष्ठते ।
देवस्य वचनं श्रुत्वा मुनयो वाक्यमब्रुवन्
॥७३॥कल्पकोटिसहस्रेण सत्यभावात्तु वन्दितः ।
दुष्प्राप्योऽसि मनुष्याणां प्राप्तः किं त्यजसे हि नः
॥७४॥ब्राह्मणानां वचः श्रुत्वा भगवानिदमब्रवीत् ।
मथुरायां द्वारवत्यां योधनीपुर एव च
॥७५॥त्रिकालमागमिष्यामि सत्यं सत्यं पुनः पुनः ।
एवं ते ब्राह्मणाः श्रुत्वा योधनीपुरमागताः
॥७६॥अवतीर्णस्त्रिभागेन प्रादुर्भावे तु माथुरे ।
एतत्ते कथितं सर्वं तीर्थस्योत्पत्तिकारणम्
॥७७॥भूतं भव्यं भविष्यच्च वर्तमानं तथापरम् ।
यं श्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः
॥७८॥तत्र तीर्थे तु यः स्नात्वा पूजयेद्बलकेशवौ ।
तेन देवो जगद्धाता पूजितस्त्रिगुणात्मवान्
॥७९॥उपवासी नरो भूत्वा यस्तु कुर्यात्प्रदक्षिणम् ।
मुच्यते सर्वपापेभ्यो नात्र कार्या विचारणा
॥८०॥तत्र तीर्थे तु ये वृक्षास्तान्पश्यन्त्यपि ये नराः ।
तेऽपि पापैः प्रमुच्यन्ते भ्रूणहत्यासमैरपि
॥८१॥प्रातरुत्थाय ये केचित्पश्यन्ति बलकेशवौ ।
तेन ते सदृशाः स्युर्वै देवदेवेन चक्रिणा
॥८२॥ते पूज्यास्ते नमस्कार्यास्तेषां जन्म सुजीवितम् ।
ये नमन्ति जगन्नाथं देवं नारायणं हरिम्
॥८३॥तत्र तीर्थे तु यद्दानं स्नानं देवार्चनं नृप ।
तत्सर्वमक्षयं तस्य इत्येवं शङ्करोऽब्रवीत्
॥८४॥प्रविश्याग्नौ मृतानां च यत्फलं समुदाहृतम् ।
तच्छृणुष्व नृपश्रेष्ठ प्रोच्यमानमशेषतः
॥८५॥विमानेनार्कवर्णेन किंकिणीजालमालिना ।
आग्नेये भवते तत्र मोदते कालमीप्सितम्
॥८६॥जले चैवा मृतानां तु योधनीपुरमध्यतः ।
वसन्ति वारुणे लोके यावदाभूतसम्प्लवम्
॥८७॥अनाशके मृतानां तु तत्र तीर्थे नराधिप ।
अनिवर्तिका गतिर्नृणां नात्र कार्या विचारणा
॥८८॥तत्र तीर्थे तु यो दद्यात्कपिलादानमुत्तमम् ।
विधानेन तु संयुक्तं शृणु तस्यापि यत्फलम्
॥८९॥यावन्ति तस्या रोमाणि तत्प्रसूतेश्च भारत ।
तावन्ति दिवि मोदन्ते सर्वकामैः सुपूजिताः
॥९०॥यावन्ति रोमाणि भवन्ति धेन्वास्तावन्ति वर्षाणि महीयते सः ।
स्वर्गाच्च्युतश्चापि ततस्त्रिलोक्यां कुले समुत्पत्स्यति गोमतां सः
॥९१॥तत्र तीर्थे तु यो दद्याद्रूप्यं काञ्चनमेव वा ।
काञ्चनेन विमानेन विष्णुलोके महीयते
॥९२॥तस्मिंस्तीर्थे तु यो दद्यात्पादुके वस्त्रमेव च ।
दानस्यास्य प्रभावेन लभते स्वर्गमीप्सितम्
॥९३॥ऋग्यजुःसामवेदानां पठनाद्यत्फलं भवेत् ।
तत्र तीर्थे तु राजेन्द्र गायत्र्या तत्फलं लभेत्
॥९४॥प्रयागे यद्भवेत्पुण्यं गयायां च त्रिपुष्करे ।
कुरुक्षेत्रे तु राजेन्द्र राहुग्रस्ते दिवाकरे
॥९५॥सोमेश्वरे च यत्पुण्यं सोमस्य ग्रहणे तथा ।
तत्फलं लभते तत्र स्नानमात्रान्न संशयः
॥९६॥द्वादश्यां तु नरः स्नात्वा नमस्कृत्य जनार्दनम् ।
उद्धृताः पितरस्तेन अवाप्तं जन्मनः फलम्
॥९७॥संक्रान्तौ च व्यतीपाते द्वादश्यां च विशेषतः ।
ब्राह्मणं भोजयेदेकं कोटिर्भवति भोजिता
॥९८॥पृथिव्यां यानि तीर्थानि ह्यासमुद्राणि पाण्डव ।
तानि सर्वाणि तत्रैव द्वादश्यां पाण्डुनन्दन
॥९९॥क्षयं यान्ति च दानानि यज्ञहोमबलिक्रियाः ।
न क्षीयते महाराज तत्र तीर्थे तु यत्कृतम्
॥१००॥यद्भूतं यद्भविष्यच्च तीर्थमाहात्म्यमुत्तमम् ।
कथितं ते मया सर्वं पृथग्भावेन भारत
॥१०१॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे रुक्मिणीतीर्थमाहात्म्यवर्णनं नाम द्विचत्वारिंशदधिकशततमोऽध्यायः ॥