मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय ४२

3
अवन्तीखण्डः · रेवाखण्डः · 42

पिप्पलादतीर्थमाहात्म्यवर्णनम्

श्रीमार्कण्डेय उवाच

ततो गच्छेत्तु राजेन्द्र पिप्पलेश्वरमुत्तमम् ।

यत्र सिद्धो महायोगी पिप्पलादो महातपाः

॥१॥

युधिष्ठिर उवाच

पिप्पलादस्य चरितं श्रोतुमिच्छाम्यहं विभो ।

माहात्म्यं तस्य तीर्थस्य यत्र सिद्धो महातपाः

॥२॥

कस्य पुत्रो महाभाग किमर्थं कृतवांस्तपः ।

एतद्विस्तरतः सर्वं कथयस्व ममानघ

॥३॥

मार्कण्डेय उवाच

मिथिलास्थो महाभागो वेदवेदाङ्गपारगः ।

याज्ञवल्क्यः पुरा तात चचार विपुलं तपः

॥४॥

तापसी तस्य भगिनी याज्ञवल्क्यस्य धीमतः ।

सा सप्तमेऽपि वर्षे च वैधव्यं प्राप दैवतः

॥५॥

पूर्वकर्मविपाकेन हीनाभूत्पितृमातृतः ।

नाभूत्तत्पतिपक्षेऽपि कोऽपीत्येकाकिनी स्थिता

॥६॥

भूमौ भ्रमन्ती भ्रातुः सा समीपमगमच्छनैः ।

चचार च तपः सोऽपि परलोकसुखेप्सया

॥७॥

चचार सापि तत्रस्था शुश्रूषन्ती महत्तपः ।

कस्मिंश्चित्समये साथ स्नाताहनि रजस्वला

॥८॥

अन्तर्वासो धृतवती दृष्ट्वा कर्पटकं रहः ।

याज्ञवल्क्योऽपि तद्रात्रौ सुप्तो यत्र सुसंवृतः

॥९॥

स्वप्नं दृष्ट्वात्यजच्छुक्रं कौपीने रक्तबिन्दुवत् ।

विराजितेन तपसा सिद्धं तदनलप्रभम्

॥१०॥

यावत्प्रबुद्धो विप्रोऽसौ वीक्ष्योच्छिष्टं तदंशुकम् ।

चिक्षेप दूरतोऽस्पृश्यं शौचं कृत्वा विधानतः

॥११॥

निषिद्धं तु निशि स्नानमिति सुष्वाप स द्विजः ।

निशीथे सापि तद्वस्त्रं भगस्यावरणं व्यधात्

॥१२॥

प्रातरन्वेषयामास मुनिर्वस्त्रमितस्ततः ।

ततः सा ब्राह्मणी प्राह किं अन्वेषयसे प्रभो ।

केन कार्यं तव तथा वदस्व मम तत्त्वतः

॥१३॥

याज्ञवल्क्य उवाच

अपवित्रो मया भद्रे स्वप्नो दृष्टोऽद्य वै निशि ।

सक्लेदं तत्र मे वस्त्रं निक्षिप्तं तन्न दृश्यते

॥१४॥

तच्छ्रुत्वा ब्राह्मणी वाक्यं भीतभीतावदन्नृप ।

तद्वस्त्रं तु मया विप्र स्नात्वा ह्यन्तः कृतं महत्

॥१५॥

तस्यास्तद्वचनं श्रुत्वा हाहेत्युक्त्वा महामुनिः ।

निपपात तदा भूमौ छिन्नमूल इव द्रुमः

॥१६॥

किमेतदिति सेत्युक्त्वा ह्याकाशमिव निर्मला ।

आश्वासयन्ती तं विप्रं प्रोवाच वचनं तदा

॥१७॥

वदस्व कारणं तात गुह्याद्गुह्यतरं यदि ।

प्रतीकारोऽस्य येनैव विमृश्य क्रियते त्वरा

॥१८॥

ततः स सुचिरं ध्यात्वा लब्धवाग्वै ततः क्षणम् ।

प्रोवाच साध्वसमना यत्तच्छृणु नरेश्वर

॥१९॥

नात्र दोषोऽस्ति ते कश्चिन्मम चैव शुभव्रते ।

तवोदरे तु गर्भो यस्तत्र दैवं परायणम्

॥२०॥

तस्य तत्त्वेन रक्षा च त्वया कार्या सदैव हि ।

विनाशी नैव कर्तव्यो यावत्कालस्य पर्ययः

॥२१॥

तथेति व्रीडिता साध्वी दूयमानेन चेतसा ।

अपालयच्च तं गर्भं यावत्पुत्रो ह्यजायत

॥२२॥

जातमात्रं च तं गर्भं गृहीत्वा ब्राह्मणी च सा ।

अश्वत्थच्छायामाश्रित्य तमुत्सृज्य वचोऽब्रवीत्

॥२३॥

यानि सत्त्वानि लोकेषु स्थावराणि चराणि च ।

तानि सर्वाणि रक्षन्तु त्यक्तं वै बालकं मया

॥२४॥

एवमुक्त्वा गता सा तु ब्राह्मणी नृपसत्तम ।

तथागतः स तु शिशुस्तत्र स्थित्वा मुहूर्तकम्

॥२५॥

पाणिपादौ विनिक्षिप्य निकुञ्च्य नयने शुभे ।

आस्यं तु विकृतं कृत्वा रुरोद विकृतैः स्वरैः

॥२६॥

तेन शब्देन वित्रस्ताः स्थावरा जङ्गमाश्च ये ।

आकम्पिता महोत्पातैः सशैलवनकानना

॥२७॥

ततो ज्ञात्वा महद्भूतं क्षुधाविष्टं द्विजर्षभम् ।

न जहाति नगश्छायां पानार्थाय ततः परम् ।

अपिबच्च सुतं तस्मादभृतं चैव भारत

॥२८॥

एवं स वर्धितस्तत्र कुमारो निजचेतसि ।

चिन्तयामास विश्रब्धः किं मम ग्रहगोचरम्

॥२९॥

ततः क्रूरसभाचारः क्रूरं दृष्ट्वा निरीक्षितः ।

पपात सहसा भूमौ शनैश्चारी शनैश्चरः

॥३०॥

उवाच च भयत्रस्तः कृताञ्जलिपुटस्तदा ।

किं मयापकृतं विप्र पिप्पलाद महामुने

॥३१॥

चरन्वै गगनाद्येन पातितो धरणीतले ।

सौरिणा ह्येवमुक्तस्तु पिप्पलादो महामुनिः

॥३२॥

क्रोधरूपोऽब्रवीद्वाक्यं तच्छृणुष्व नराधिप ।

पितृमातृविहीनस्य मम बालस्य दुर्मते ।

पीडां करोषि कस्मात्त्वं सौरे ब्रूहि ह्यशेषतः

॥३३॥

शनैश्चर उवाच

क्रूरस्वभावः सहजो मम दृष्टिस्तथेदृशी ।

मुञ्चस्व मां तथा कर्ता यद्ब्रवीषि न संशयः

॥३४॥

पिप्पलाद उवाच

अद्यप्रभृति बालानां वर्षादा षोडशाद्ग्रह ।

पीडा त्वया न कर्तव्या एष ते समयः कृतः

॥३५॥

एवमस्त्विति चोक्त्वा स जगाम पुनरागतः ।

देवमार्गं शनैश्चारी प्रणम्य ऋषिसत्तमम्

॥३६॥

गते चादर्शनं तत्र सोऽपि बालो महाग्रहः ।

विचिन्तयन्वै पितरं क्रोधेन कलुषीकृतः

॥३७॥

आग्नेयीं धारणां ध्यात्वा जनयामास पावकम् ।

कृत्यामन्त्रैर्जुहावाग्नौ कृत्या वै संभवत्विति

॥३८॥

तावज्झटिति सा कन्या ज्वालामालाविभूषिता ।

हुतभुक्सदृशाकारा किं करोमीति चाब्रवीत्

॥३९॥

शोषयामि समुद्रान् किं चूर्णयामि च पर्वतान् ।

अवनिं वेष्टयामीति पातये किं नभस्तलम्

॥४०॥

कस्य मूर्ध्नि पतिष्यामि घातयामि च कं द्विज ।

शीघ्रमादिश्यतां कार्यं मा मे कालात्ययो भवेत्

॥४१॥

तस्यास्तद्वचनं श्रुत्वा पिप्पलादो महातपाः ।

क्रोधसंरक्तनयन इदं वचनमब्रवीत्

॥४२॥

महता क्रोधवेगेन मया त्वं चिन्तिता शुभे ।

पिता मे याज्ञवल्क्यश्च तस्य त्वं पत माचिरम्

॥४३॥

एवमुक्त्वागमच्छीघ्रं स्फोटयन्ती नभस्तलम् ।

मिथिलास्थो महाप्राज्ञस्तपस्तेपे महामनाः

॥४४॥

यावत्पश्यति दिग्भागं ज्वलनार्कसमप्रभम् ।

याज्ञवल्क्यो महातेजा महद्भूतमुपस्थितम्

॥४५॥

तद्दृष्ट्वा सहसायान्तं भीतभीतो महामुनिः ।

अनुयुक्तोऽथ भूतेन जनकं नृपतिं ययौ

॥४६॥

शरण्यं मामनुप्राप्तं विद्धि त्वं नृपसत्तम ।

महद्भूतभयाद्रक्ष यदि शक्नोषि पार्थिव

॥४७॥

ब्रह्मतेजोभवं भूतमनिवार्यं दुरासदम् ।

न च शक्नोम्यहं त्रातुं राजा वचनमब्रवीत्

॥४८॥

ततश्चान्यं नृपश्रेष्ठं शरणार्थी महातपाः ।

जगाम तेन मुक्तोऽसौ चेन्द्रस्य सदनं भयात्

॥४९॥

देवराज नमस्तेऽस्तु महाभूतभयान्नृप ।

कम्पमानोऽब्रवीद्विप्रो रक्षस्वेति पुनःपुनः

॥५०॥

तस्य तद्वचनं श्रुत्वा देवराजोऽब्रवीदिदम् ।

न शक्नोमि परित्रातुं ब्रह्मकोपादहं मुने

॥५१॥

ततः स ब्रह्मभवनं ब्राह्मणो ब्रह्मवित्तमः ।

जगाम विष्णुलोकं च तेनापीत्युक्त एव सः

॥५२॥

ततः स मुनिरुद्विग्नो निराशो जीविते नृप ।

अनुगम्यमानो भूतेन अगच्छच्छङ्करालयम्

॥५३॥

तस्य योगबलोपेतो महादेवस्य पाण्डव ।

नखमांसान्तरे गुप्तो यथा देवो न पश्यति

॥५४॥

तदन्ते चागमद्भूतं ज्वलनार्कसमप्रभम् ।

मुञ्च मुञ्चेति पुरुषं देवदेवं महेश्वरम्

॥५५॥

एवमुक्तो महादेवस्तेन भूतेन भारत ।

योगीन्द्रं दर्शयामास नखमांसान्तरे तदा

॥५६॥

संस्थाप्य भूतं भूतेशः परमापद्गतं मुनिम् ।

उवाच मा भैस्त्वं विप्र निर्गच्छस्व महामुने

॥५७॥

ततः सुसूक्ष्मदेहस्थं भूतं दृष्ट्वाब्रवीदिदम् ।

किमस्य त्वं महाभूत करिष्यसि वदस्व मे

॥५८॥

कृत्योवाच

क्रोधाविष्टेन देवेश पिप्पलादेन चिन्तिता ।

अस्य देहं हनिष्यामि हिंसार्थं विद्धि मां प्रभो

॥५९॥

एतच्छ्रुत्वा महादेवो भूतस्य वदनाच्च्युतम् ।

कटिस्थं याज्ञवल्क्यं च मन्त्रयामास मन्त्रवित्

॥६०॥

योगीश्वरेति विप्रस्य कृत्वा नाम युधिष्ठिर ।

विसर्जयित्वा देवेशस्तत्रैवान्तरधीयत

॥६१॥

प्रेषयित्वा तु तं भूतं पिप्पलादोऽपि दुर्मनाः ।

पितृमातृसमुद्विग्नो नर्मदातटमाश्रितः

॥६२॥

एकाङ्गुष्ठो निराहारो वर्षादा षोडशान्नृप ।

तोषयामास देवेशमुमया सह शङ्करम्

॥६३॥

ततस्तत्तपसा तुष्टः शङ्करो वाक्यमब्रवीत्

॥६४॥

ईश्वर उवाच

परितुष्टोऽस्मि ते विप्र तपसानेन सुव्रत ।

वरं वृणीष्व ते दद्मि मनसा चेप्सितं शुभम्

॥६५॥

पिप्पलाद उवाच

यदि मे भगवांस्तुष्टो यदि देयो वरो मम ।

अत्र संनिहितो देव तीर्थे भव महेश्वर

॥६६॥

एवमुक्तस्तथेत्युक्त्वा पिप्पलादं महामुनिम् ।

जगामादर्शनं देवो भूतसङ्घसमन्वितः

॥६७॥

पिप्पलादो गते देवे स्नात्वा तत्र महाम्भसि ।

स्थापयित्वा महादेवं जगामोत्तरपर्वतम्

॥६८॥

तत्र तीर्थे नरो भक्त्या स्नात्वा मन्त्रयुतं नृप ।

तर्पयित्वा पित्ःन् देवान् पूजयेच्च महेश्वरम्

॥६९॥

अश्वमेधस्य यज्ञस्य फलं प्राप्नोत्यनुत्तमम् ।

मृतो रुद्रपुरं याति नात्र कार्या विचारणा

॥७०॥

अथ यो भोजयेद्विप्रान् पित्ःनुद्दिश्य भारत ।

तस्य ते द्वादशाब्दानि मोदन्ते दिवि तर्पिताः

॥७१॥

संन्यासेन तु यः कश्चित्तत्र तीर्थे तनुं त्यजेत् ।

अनिवर्तिका गतिस्तस्य रुद्रलोकात्कदाचन

॥७२॥

एतत्सर्वं समाख्यातं यत्पृष्ठे हि त्वयानघ ।

माहात्म्यं पिप्पलादस्य तीर्थस्योत्पत्तिरेव च

॥७३॥

एतत्पुण्यं पापहरं धन्यं दुःस्वप्ननाशनम् ।

पठतां शृण्वतां चैव सर्वपापक्षयो भवेत्

॥७४॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदामाहात्म्ये पिप्पलादतीर्थमाहात्म्यवर्णनं नाम द्विचत्वारिंशोऽध्यायः ॥