विशल्यासङ्गममाहात्म्यवर्णनम्
मार्कण्डेय उवाच
तत्रैव सङ्गमे राजन्भक्त्या परमया नृप ।
प्राणांस्त्यजन्ति ये मर्त्यास्ते यान्ति परमां गतिम्
॥१॥संन्यस्तसर्वसंकल्पो यस्तु प्राणान्परित्यजेत् ।
अमरेश्वरमासाद्य स स्वर्गे नियतं वसेत्
॥२॥शैलेन्द्रं यः समासाद्य आत्मानं मुञ्चते नरः ।
विमानेनार्कवर्णेन स गच्छेदमरावतीम्
॥३॥नरं पतन्तमालोक्य नगादमरकण्टकात् ।
ब्रुवन्त्यप्सरसः सर्वा मम भर्ता भवेदिति
॥४॥समं जलं धर्मविदो वदन्ति सारस्वतं गाङ्गमिति प्रबुद्धाः ।
तस्योपरिष्टात्प्रवदन्ति तज्ज्ञा रेवाजलं नात्र विचारणास्ति
॥५॥अनेकविद्याधरकिन्नराद्यैरध्यासितं पुण्यतमाधिवासैः ।
रेवाजलं धारयतो हि मूर्ध्ना स्थानं सुरेन्द्राधिपतेः समीपे
॥६॥नर्मदा सर्वदा सेव्या बहुनोक्तेन किं नृप ।
यदीच्छेन्न पुनर्द्रष्टुं घोरं संसारसागरम्
॥७॥त्रयाणामपि लोकानां महती पावनी स्मृता ।
यत्र तत्र मृतस्यापि ध्रुवं गाणेश्वरी गतिः
॥८॥अनेकयज्ञायतनैर्वृताङ्गी न ह्यत्र किंचिद्यदतीर्थमस्ति ।
तस्यास्तु तीरे भवता यदुक्तं तपस्विनो वाप्यतपस्विनो वा
॥९॥म्रियन्ति ये पापकृतो मनुष्यास्ते स्वर्गमायान्ति यथाऽमरेन्द्राः
॥१०॥एवं तु कपिला चैव विशल्या राजसत्तम ।
ईश्वरेण पुरा सृष्टा लोकानां हितकाम्यया
॥११॥तत्र स्नात्वा नरो राजन्सोपवासो जितेन्द्रियः ।
अश्वमेधस्य महतोऽसंशयं फलमाप्नुयात्
॥१२॥अनाशकं च यः कुर्यात्तस्मिंस्तीर्थे नराधिप ।
सर्वपापविनिर्मुक्तो याति वै शिवमन्दिरम्
॥१३॥पृथिव्यां सागरान्तायां स्नानदानेन यत्फलम् ।
विशल्यासङ्गमे स्नात्वा सकृत्तत्फलमश्नुते
॥१४॥एवं पुण्या पवित्रा च कथिता तव भूपते ।
भूयो मां पृच्छसि च यत्तच्चैव कथयाम्यहम्
॥१५॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे विशल्यासङ्गममाहात्म्यवर्णनं नाम त्रयोविंशोऽध्यायः ॥