गौतमेश्वरतीर्थमाहात्म्यवर्णनम्
श्रीमार्कण्डेय उवाच
रेवाया उत्तरे कूले तीर्थं परमशोभनम् ।
सर्वपापहरं मर्त्ये नाम्ना वै गौतमेश्वरम्
॥१॥स्थापितं गौतमेनैव लोकानां हितकाम्यया ।
स्वर्गसोपानरूपं तु तीर्थं पुंसां युधिष्ठिर
॥२॥तत्र गच्छ परं भक्त्या यत्र देवो जगद्गुरुः ।
पातकस्य विनाशार्थं स्वर्गवासप्रदस्तथा
॥३॥सौभाग्यवर्द्धनं तीर्थं जयदं दुःखनाशनम् ।
पिण्डदानेन चैकेन कुलानामुद्धरेत्त्रयम्
॥४॥यत्किंचिद्दीयते भक्त्या स्वल्पं वा यदि वा बहु ।
तत्सर्वं शतसाहस्रमाज्ञया गौतमस्य हि
॥५॥तीर्थानां परमं तीर्थं स्वयं रुद्रेण भाषितम्
॥६॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चमावन्त्यखण्डे रेवाखण्डे गौतमेश्वरतीर्थमाहात्म्यवर्णनं नाम चतुःसप्ततितमोऽध्यायः ॥