मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय १७३

3
अवन्तीखण्डः · रेवाखण्डः · 173

शुद्धेश्वरतीर्थमाहात्म्यवर्णनम्

श्रीमार्कण्डेय उवाच

ततो गच्छेत्तु राजेन्द्र तीर्थं परमशोभनम् ।

नर्मदादक्षिणे कूले सर्वपापप्रणाशनम्

॥१॥

सिद्धेश्वरमिति ख्यातं महापातकनाशनम् ।

यत्र शुद्धिं परां प्राप्तो देवदेवो महेश्वरः ।

पुरा हत्यायुतः पार्थ देवदेवस्त्रिशूलधृक्

॥२॥

पुरा पञ्चशिरा आसीद्ब्रह्मा लोकपितामहः ।

तेनानृतं वचश्चोक्तं कस्मिंश्चित्कारणान्तरे

॥३॥

तच्छ्रुत्वा सहसा तस्मै चुकोप परमेश्वरः ।

छेदयामास भगवान्मूर्धानं करजैस्तदा

॥४॥

तस्य तत्करसंलग्नं च्यवते न कदाचन ।

ततो हि देवदेवेशः पर्यटन् पृथिवीमिमाम्

॥५॥

ततो वाराणसीं प्राप्तस्तस्यां तदपतच्छिरः ।

पतिते तु कपाले च ब्रह्महत्या न मुञ्चति

॥६॥

ततस्तु सागरे गत्वा पूर्वे च दक्षिणे तथा ।

पश्चिमे चोत्तरे पार्थ देवदेवो महेश्वरः

॥७॥

पर्यटन्सर्वतीर्थेषु ब्रह्महत्या न मुञ्चति ।

नर्मदादक्षिणे कूले सुतीर्थं प्राप्तवान् प्रभुः

॥८॥

कुलकोटिं समासाद्य प्रार्थयामास चात्मवान् ।

प्रायश्चित्तं ततः कृत्वा बभूव गतकल्मषः

॥९॥

ततो निष्कल्मषो जातो देवदेवो महेश्वरः ।

हत्वा सुरेभ्यस्तत्स्थानं ततश्चान्तर्दधे प्रभुः

॥१०॥

तदाप्रभृति तत्तीर्थं शुद्धरुद्रेति कीर्तितम् ।

विख्यातं त्रिषु लोके ब्रह्महत्याहरं परम्

॥११॥

मासे मासे सिते पक्षेऽमावास्यायां युधिष्ठिर ।

स्नात्वा तत्र विधानेन तर्पयेत्पितृदेवताः

॥१२॥

दद्यात्पिण्डं पित्ःणां तु भावितेनान्तरात्मना ।

तस्य ते द्वादशाब्दानि सुतृप्ताः पितरो नृप

॥१३॥

गन्धधूपप्रदीपाद्यैरभ्यर्च्य परमेश्वरम् ।

शुद्धेश्वराभिधानं तु शिवलोके महीयते

॥१४॥

एतत्ते कथितं राजञ्छुद्धरुद्रमनुत्तमम् ।

मया श्रुतं यथा देवसकाशाच्छूलपाणिनः ।

मुच्यते सर्वपापेभ्यो रुद्रलोकं स गच्छति

॥१५॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे शुद्धेश्वरतीर्थमाहात्म्यवर्णनं नाम त्रिसप्तत्युत्तरशततमोऽध्यायः ॥