मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय ४

3
अवन्तीखण्डः · रेवाखण्डः · 4

नर्मदापञ्चदशनामवर्णनम्

श्रीमार्कण्डेय उवाच

ततोऽर्णवात्समुत्तीर्य त्रिकूटशिखरे स्थितम् ।

महाकनकवर्णाभे नानावर्णशिलाचिते

॥१॥

महाशृङ्गे समासीनं रुद्रकोटिसमन्वितम् ।

महादेवं महात्मानमीशानमजमव्ययम्

॥२॥

सर्वभूतमयं तात मनुना सह सुव्रत ।

भूयो ववन्दे चरणौ सर्वदेवनमस्कृतौ

॥३॥

तत्काले युगसाहस्रं सह रुद्रेण मानद ।

तस्मिन्नेकार्णवे घोरे स्थितोऽहं कुरुनंदन

॥४॥

युधिष्ठिर उवाच

एतच्छ्रुत्वा तु मे तात परं कौतूहलं हृदि ।

जातं तत्कथयस्वेति शृण्वतः सह बान्धवैः

॥५॥

का सा पद्मपलाशाक्षी तमोभूते महार्णवे ।

योगिवद्भ्रमते नित्यं रुद्रजां स्वां च याब्रवीत्

॥६॥

श्रीमार्कण्डेय उवाच

एतमेव मया प्रश्नं पुरा पृष्टो मनुः स्वयम् ।

तदेव तेऽद्य वक्ष्यामि अबलायाः समुद्भवम्

॥७॥

व्यतीतायां निशायां तु ब्रह्मणः परमेष्ठिनः ।

ततः प्रभाते विमले सृज्यमानेषु जन्तुषु

॥८॥

मनुं प्रणम्य शिरसा पृच्छाम्येतद्युधिष्ठिर ।

केयं पद्मपलाशाक्षी श्यामा चंद्रनिभानना

॥९॥

एकार्णवे भ्रमत्येका रुद्रजास्मीति वादिनी ।

सावित्री वेदमाता च ह्यथवा सा सरस्वती

॥१०॥

मन्दाकिनी सरिच्छ्रेष्ठा लक्ष्मीर्वा किमथो उमा ।

कालरात्रिर्भवेत्साक्षात्प्रकृतिर्वा सुखोचिता

॥११॥

एतदाचक्ष्व भगवन्का सा ह्यमृतसंभवा ।

चरत्येकार्णवे घोरे प्रनष्टोरगराक्षसे

॥१२॥

मनुरुवाच

शृणु वत्स यथान्यायमस्या वक्ष्यामि संभवम् ।

यया रुद्रसमुद्भूता या चेयं वरवर्णिनी

॥१३॥

पुरा शिवः शान्ततनुश्चचार विपुलं तपः ।

हितार्थं सर्वलोकानामुमया सह शंकरः

॥१४॥

ऋक्षशैलं समारुह्य तपस्तेपे सुदारुणम् ।

अदृश्यः सर्वभूतानां सर्वभूतात्मको वशी

॥१५॥

तपतस्तस्य देवस्य स्वेदः समभवत्किल ।

तं गिरिं प्लावयामास स स्वेदो रुद्रसंभवः

॥१६॥

तस्मादासीत्समुद्भूता महापुण्या सरिद्वरा ।

या सा त्वयार्णवे दृष्टा पद्मपत्रायतेक्षणा

॥१७॥

स्त्रीरूपं समवस्थाय रुद्रमाराधयत्पुरा ।

आद्ये कृतयुगे तस्मिन्समानामयुतं नृप

॥१८॥

ततस्तुष्टो महादेव उमया सह शंकरः ।

ब्रूहि त्वं तु महाभागे यत्ते मनसि वर्तते

॥१९॥

सरिदुवाच

प्रलये समनुप्राप्ते नष्टे स्थावरजंगमे ।

प्रसादात्तव देवेश अक्षयाहं भवे प्रभो

॥२०॥

सरित्सु सागरेष्वेव पर्वतेषु क्षयिष्वपि ।

तव प्रसादाद्देवेश पुण्या क्षय्या भवे प्रभो

॥२१॥

पापोपपातकैर्युक्ता महापातकिनोऽपि ये ।

मुच्यन्ते सर्वपापेभ्यो भक्त्या स्नात्वा तु शंकर

॥२२॥

उत्तरे जाह्नवीदेशे महापातकनाशिनी ।

भवामि दक्षिणे मार्गे यद्येवं सुरपूजिता

॥२३॥

स्वर्गादागम्य गंगेति यथा ख्याता क्षितौ विभो ।

तथा दक्षिणगङ्गेति भवेयं त्रिदशेश्वर

॥२४॥

पृथिव्यां सर्वतीर्थेषु स्नात्वा यल्लभते फलम् ।

तत्फलं लभते मर्त्यो भक्त्या स्नात्वा महेश्वर

॥२५॥

ब्रह्महत्यादिकं पापं यदास्ते संचितं क्वचित् ।

मासमात्रेण तद्देव क्षयं यात्ववगाहनात्

॥२६॥

यत्फलं सर्ववेदेषु सर्वयज्ञेषु शंकर ।

अवगाहेन तत्सर्वं भवत्विति मतिर्मम

॥२७॥

सर्वदानोपवासेषु सर्वतीर्थावगाहने ।

तत्फलं मम तोयेन जायतामिति शंकर

॥२८॥

मम तीरे नरा ये तु अर्चयन्ति महेश्वरम् ।

ते गतास्तव लोकं स्युरेतदेव भवेच्छिव

॥२९॥

मम कूले महेशान उमया सह दैवतैः ।

वस नित्यं जगन्नाथ एष एव वरो मम

॥३०॥

सुकर्मा वा विकर्मा वा शान्तो दान्तो जितेन्द्रियः ।

मृतो जन्तुर्मम जले गच्छतादमरावतीम्

॥३१॥

त्रिषु लोकेषु विख्याता महापातकनाशिनी ।

भवामि देवदेवेश प्रसन्नो यदि मन्यसे

॥३२॥

एतांश्चान्यान्वरान्दिव्यान्प्रार्थितो नृपसत्तम ।

नर्मदया ततः प्राह प्रसन्नो वृषवाहनः

॥३३॥

श्रीमहेश उवाच

एवं भवतु कल्याणि यत्त्वयोक्तमनिन्दिते ।

नान्या वरार्हा लोकेषु मुक्त्वा त्वां कमलेक्षणे

॥३४॥

यदैव मम देहात्त्वं समुद्भूता वरानने ।

तदैव सर्वपापानां मोचिनी त्वं न संशयः

॥३५॥

कल्पक्षयकरे काले काले घोरे विशेषतः ।

उत्तरं कूलमाश्रित्य निवसन्ति च ये नराः

॥३६॥

अपि कीटपतङ्गाश्च वृक्षगुल्मलतादयः ।

आ देहपतनाद्देवि तेऽपि यास्यन्ति सद्गतिम्

॥३७॥

दक्षिणं कूलमाश्रित्य ये द्विजा धर्मवत्सलाः ।

आ मृत्योर्निवसिष्यन्ति ते गताः पितृमन्दिरे

॥३८॥

अहं हि तव वाक्येन कस्मिंश्चित्कारणान्तरे ।

त्वत्तीरे निवसिष्यामि सदैव ह्युमया समम्

॥३९॥

एवं देवि महादेवि एवमेव न संशयः ।

ब्रह्मेन्द्रचन्द्रवरुणैः साध्यैश्च सह विष्णुना

॥४०॥

उत्तरे देवि ते कूले वसिष्यन्ति ममाज्ञया ।

दक्षिणे पितृभिः सार्द्धं तथान्ये सुरसुन्दरि

॥४१॥

वसिष्यन्ति मया सार्द्धमेष ते वर उत्तमः ।

गच्छ गच्छ महाभागे मर्त्यान्पापाद्विमोचय

॥४२॥

सहिता ऋषिसंघैश्च तथा सिद्धसुरासुरैः ।

एवमुक्ता महादेव उमया सहितो विभुः

॥४३॥

वन्द्यमानोऽथ मनुना मया चादर्शनं गतः ।

तेन चैषा महापुण्या महापातकनाशिनी

॥४४॥

कथिता पृच्छ्यते या ते मा ते भवतु विस्मयः ।

एषा गंगा महापुण्या त्रिषु लोकेषु विश्रुता

॥४५॥

दशाभिः पञ्चभिः स्रोतैः प्लावयन्ती दिशो दश ।

शोणो महानदश्चैव नर्मदा सुरसा कृता

॥४६॥

मन्दाकिनी दशार्णा च चित्रकूटा तथैव च ।

तमसा विदिशा चैव करभा यमुना तथा

॥४७॥

चित्रोत्पला विपाशा च रञ्जना वालुवाहिनी ।

ऋक्षपादप्रसूतास्ताः सर्वा वै रुद्रसंभवाः

॥४८॥

सर्वपापहराः पुण्याः सर्वमंगलदाः शिवाः ।

इत्येतैर्नामभिर्दिव्यैः स्तूयते वेदपारगैः

॥४९॥

पुराणज्ञैर्महाभागैराज्यपैः सोमपैस्तथा ।

इत्येतत्सर्वमाख्यातं महाभाग्यं नरोत्तम

॥५०॥

मनुनोक्तं पुरा मह्यममृतायाः समुद्भवम् ।

पुण्यं पवित्रमतुलं रुद्रोद्गीतमिदं शुभम्

॥५१॥

ये नराः कीर्तयिष्यन्ति भक्त्या शृण्वन्ति येऽपि च ।

प्रातरुत्थाय नामानि दश पञ्च च भारत

॥५२॥

ते नराः सकलं पुण्यं लभिष्यन्त्यवगाहजम् ।

विमानेनार्कवर्णेन घण्टाशतनिनादिना

॥५३॥

त्यक्त्वा मानुष्यकं भावं यास्यन्ति परमां गतिम्

॥५४॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नर्मदापञ्चदशनामवर्णनं नाम चतुर्थोऽध्यायः ॥