मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय ९५

3
अवन्तीखण्डः · रेवाखण्डः · 95

नारायणीतीर्थमाहात्म्यवर्णनम्

श्रीमार्कण्डेय उवाच

ततो गच्छेत्तु राजेन्द्र बदर्याश्रममुत्तमम् ।

सर्वतीर्थवरं पुण्यं कथितं शंभुना पुरा

॥१॥

यश्चैष भारतस्यार्थे तत्र सिद्धः किरीटभृत् ।

भ्राता ते फाल्गुनो नाम विद्ध्येनं नरदैवतम्

॥२॥

नरनारायणौ द्वौ तावागतौ नर्मदातटे ।

ज्ञानं तस्यैव यो राजन्भक्तिमान्वै जनार्दने

॥३॥

समं पश्यति सर्वेषु स्थावरेषु चरेषु च ।

ब्राह्मणं श्वपचं चैव तत्र प्रीतो जनार्दनः

॥४॥

ऐकात्म्यं पश्य कौन्तेय मयि चात्मनि नान्तरम् ।

नरनारायणाभ्यां हि कृतं बदरिकाश्रमम्

॥५॥

स्थापितः शङ्करस्तत्र लोकानुग्रहकारणात् ।

त्रिमूर्तिस्थापितं लिङ्गं स्वर्गमार्गानुमुक्तिदम्

॥६॥

तत्र गत्वा शुचिर्भूत्वा ह्येकरात्रोपवासकृत् ।

रजस्तमस्तथा त्यक्त्वा सात्त्विकं भावमाश्रयेत्

॥७॥

रात्रौ जागरणं कृत्वा मधुमासाष्टमीदिने ।

अथवा च चतुर्दश्यामुभौ पक्षौ च कारयेत्

॥८॥

आश्विनस्य विशेषेण कथितं तव पाण्डव ।

स्नापयेत्परया भक्त्या क्षीरेण मधुना सह

॥९॥

दध्ना शर्करया युक्तं घृतेन समलंकृतम् ।

पञ्चामृतमिदं पुण्यं स्नापयेद्वृषभध्वजम्

॥१०॥

स्नाप्यमानं शिवं भक्त्या वीक्षते यो विमत्सरः ।

तस्य वासः शिवोपान्ते शक्रलोके न संशयः

॥११॥

शाठ्येनापि नमस्कारः प्रयुक्तः शूलपाणिने ।

संसारमूलबद्धानामुद्वेष्टनकरो हि यः

॥१२॥

तेनाधीतं श्रुतं तेन तेन सर्वमनुष्ठितम् ।

येनौं नमः शिवायेति मन्त्राभ्यासः स्थिरीकृतः

॥१३॥

यः पुनः स्नापयेद्भक्त्या एकभक्तो जितेन्द्रियः ।

तस्यापि यत्फलं पार्थ वक्ष्ये तल्लेशतस्तव

॥१४॥

पीडितो वृद्धभावेन तव भक्त्या वदाम्यहम् ।

ते यान्ति परमं स्थानं भित्त्वा भास्करमण्डलम्

॥१५॥

संसारे सर्वसौख्यानां निलयास्ते भवन्ति च ।

आश्चर्यं ज्ञातिवर्गाणां धर्माणां निलयास्तु ते

॥१६॥

सम्पन्नाः सर्वकामैस्ते पृथिव्यां पृथिवीपते ।

श्राद्धं तत्रैव यः कुर्यान्नर्मदोदकमिश्रितम्

॥१७॥

योग्यैश्च ब्राह्मणैर्राजन्कुलीनैर्वेदपारगैः ।

सुरूपैश्च सुशीलैश्च स्वदारनिरतैः शुभैः

॥१८॥

आर्यदेशप्रसूतैश्च श्लक्ष्णैश्चैव सुरूपिभिः ।

कारयेत्पिण्डदानं वै भास्करे कुतपस्थिते

॥१९॥

पित्ःणां परमं लोकं यदीच्छेद्धर्मनन्दन ।

वर्जयेत्तान्प्रयत्नेन काणान्दुष्टांश्च दाम्भिकान्

॥२०॥

तस्मात्सर्वप्रयत्नेन योग्यं विप्रं समाश्रयेत् ।

नरकान्मोचयेत्प्रेतान्कुम्भीपाकपुरोगमान्

॥२१॥

मोक्षो भवति सर्वेषां पित्ःणां नृपनन्दन ।

विप्रेभ्यः काञ्चनं दद्यात्प्रीयतां मे पितामहः

॥२२॥

अन्नं च दापयेत्तत्र भक्त्या वस्त्रं च भारत ।

गां वृषं मेदिनीं दद्याच्छत्रं शस्तं नृपोत्तम

॥२३॥

स पुमान्स्वर्गमाप्नोति इत्येवं शङ्करोऽब्रवीत् ।

प्राणत्यागं तु यः कुर्याच्छिखिना सलिलेन वा

॥२४॥

अनाशकेन वा भूयः स गच्छेच्छिवमन्दिरम् ।

नरनारायणीतीरे देवद्रोण्यां च यो नृप

॥२५॥

स वसेदीश्वरस्याग्रे यावदिन्द्राश्चतुर्दश ।

पुनः स्वर्गाच्च्युतः सोऽपि राजा भवति वीर्यवान्

॥२६॥

सर्वैश्वर्यगुणैर्युक्तः प्रजापालनतत्परः ।

ततः स्मरति तत्तीर्थं पुनरेवागमिष्यति

॥२७॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे नारायणीतीर्थमाहात्म्यवर्णनं नाम पञ्चनवतितमोऽध्यायः ॥