सांवौरेश्वरतीर्थमाहात्म्यवर्णनम्
श्रीमार्कण्डेय उवाच
ततो गच्छेन्महाराज सांवौरं तीर्थमुत्तमम् ।
यत्र संनिहितो भानुः पूज्यमानः सुरासुरैः
॥१॥तत्र ये पङ्गुतां प्राप्ताः शीर्णघ्राणनखा नराः ।
दद्रुमण्डलभिन्नाङ्गा मक्षिकाकृमिसंकुलाः
॥२॥मातापितृभ्यां रहिता भ्रातृभार्याविवर्जिताः ।
अनाथा विकला व्यङ्गा मग्ना ये दुःखसागरे
॥३॥तेषां नाथो जगद्योनिर्नर्मदातटमाश्रितः ।
सांवौरनाथो लोकानामार्तिहा दुःखनाशनः
॥४॥तत्र तीर्थे तु यः स्नात्वा मासमेकं निरन्तरम् ।
पूजयेद्भास्करं देवं तस्य पुण्यफलं शृणु
॥५॥यत्फलं चोत्तरे पार्थ तथा वै पूर्वसागरे ।
दक्षिणे पश्चिमे स्नात्वा तत्र तीर्थे तु तत्फलम्
॥६॥कौमारे यौवने पापं वार्द्धके यच्च संचितम् ।
तत्प्रणश्यति सांवौरे स्नानमात्रान्न संशयः
॥७॥न व्याधिर्नैव दारिद्र्यं न चैवेष्टवियोजनम् ।
सप्तजन्मानि राजेन्द्र सांवौरपरिसेवनात्
॥८॥सप्तम्यामुपवासेन तद्दिने चाप्युपोषिते ।
स तत्फलमवाप्नोति तत्र स्नात्वा न संशयः
॥९॥रक्तचन्दनमिश्रेण यदर्घ्येण फलं स्मृतम् ।
तत्र तीर्थे नृपश्रेष्ठ स्नात्वा तत्फलमाप्नुयात्
॥१०॥नर्मदासलिलं रम्यं सर्वपातकनाशनम् ।
निरीक्षितं विशेषेण सांवौरेण महात्मना
॥११॥ते धन्यास्ते महात्मानस्तेषां जन्म सुजीवितम् ।
स्नात्वा पश्यन्ति देवेशं सांवौरेश्वरमुत्तमम्
॥१२॥सूर्यलोके वसेत्तावद्यावदाभूतसम्प्लवम्
॥१३॥इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे सांवौरेश्वरतीर्थमाहात्म्यवर्णनं नाम चतुःषष्ट्युत्तरशततमोऽध्यायः ॥