मुख्यं गम्यताम्

उदाहरणानि

शीघ्र मार्गाः

पूर्ण पृष्ठसूची

स्कन्दपुराणम् — रेवाखण्डः, अध्याय २०१

3
अवन्तीखण्डः · रेवाखण्डः · 201

यत्र सिद्धा महाभागा देवाः सेन्द्रा युधिष्ठिर

श्रीमार्कण्डेय उवाच

ततो गच्छेन्महीपाल देवतीर्थमनुत्तमम् ।

यत्र सिद्धा महाभागा देवाः सेन्द्रा युधिष्ठिर

॥१॥

स्नानं दानं जपो होमः स्वाध्यायो देवतार्चनम् ।

तत्र तीर्थप्रभावेन कृतमानन्त्यमश्नुते

॥२॥

विशेषाद्भाद्रपदे तु कृष्णपक्षे त्रयोदशीम् ।

प्रधानं सर्वतीर्थानां देवैरध्यासितं पुरा

॥३॥

स्नात्वा त्रयोदशीदिने श्राद्धं कृत्वा विधानतः ।

देवैः संस्थापितं देवं सम्पूज्य वृषभध्वजम् ।

सर्वपापविनिर्मुक्तो रुद्रलोकमवाप्नुयात्

॥४॥

इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां पञ्चम आवन्त्यखण्डे रेवाखण्डे देवतीर्थमाहात्म्यवर्णनं नामैकोत्तरद्विशततमोऽध्यायः ॥